SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ २९ शतकं-११, वर्गः:, उद्देशकः-१० स्थानं कल्पनया लक्षमित्यर्थः तदेकजीवस्य सम्बन्धिना पूर्वोक्तप्रकारतःकल्पनया लक्षप्रमाणेनैवोत्कृष्टपदगतप्रदेशराशिनातुल्यं भवतियस्मात्तस्माद्गोला उत्कृष्टपदैकजीवप्देशैस्तुल्याभवन्तीति प्रकृतमेवेति । एवं गोलकानामुत्कृष्टपदगतैकजीवप्रदेशानां च तुल्यत्वं समर्थिःतं, पुनस्तदेव प्रकारान्तरेण समर्थःयति॥२२॥ अहवा लोगपएसे एक्वेकेउठविय गोलमेएक्केक्कं । एवं उक्कोसपएक्कजियपेसेसु मायंति॥ अथवा लोकस्यैव प्रदेशे एकैकस्मिन् 'स्थापय'निधेहि विवक्षितसमत्वबुभुत्सो ! गोलकमेकैकं, ततश्च ‘एवम् उक्तक्रमस्थापने उत्कृष्टपदे ये एकजीवप्रदेशास्ते तथा तेषुतत्परिमाणेष्वाकाशप्रदेशेष्वित्यर्थः मान्ति गोला इति गम्यं, यावन्त उत्कृष्टपदे एकजीवप्रदेशास्तावन्तो गोलका अपि भवन्तीत्यर्थः, ते च कल्पनया किल लक्षप्रमाणा उभयेऽपीति । अथ सर्वजीवेभ्य उत्कृष्टपदजीवप्रदेशा विशेषाधिका इति बिभणिषुस्तेषां सर्वजीवानां च तावत्समतामाह॥२३॥ गोलो जीवो यसमा पएसओ जंच सब्जीवावि। होति समोगाहणया मज्झिमओगाहणं पप्प ।। गोलको जीवश्च समौ प्रदेशतः-अवगाहनाप्रदेशानाश्रित्य, कल्पनया द्वयोरपिप्रदेशदशसहस्यामवगाढत्वात्, ‘जंच'त्ति यस्माच सर्वजीवा अपिसूक्ष्मा भवन्तिसमावगाहनका मद्यमावगाहनामाश्रित्य, कल्पनया हि जघन्यावगाहना पञ्चप्रदेशसहस्राणि उत्कृष्टा तु पञ्चदशेतिद्वयोश्च मीलनेनाद्धीकरणेन च दशसहस्राणि मध्यमा भवतीति । ॥२४॥ तेण फुडं चिय सिद्धं एगपएसंमिजे जियपएसा । ते सव्वजीवतुल्ला सुणसु पुणो जह विसेसहिया ॥ . इह किलासद्भावस्थापनया कोटीशतसङ्ख्यप्रदेशस्य जीवस्याकाशप्रदेशदशसहस्यामवगाढस्य जीवस्य प्रतिप्रदेशं प्रदेशलक्षं भवति, तच्च पूर्वोक्तप्रकारतो निगोदवर्त्तिना जीवलक्षेण गुणितंकोटीसहस्रं भवति, पुनरपिचतदेकगोलवर्त्तिना निगोदलक्षेणगुणितंकोटीकोटीदशकप्रमाणं भवति, जीवप्रमाणमप्येतदेव, तथाहि-कोटीशतसंख्यप्रदेशे लोके दशसहस्रावगाहिनां गोलानां लक्षं भवति, प्रतिगोलकं च निगोदलक्षकल्पनात् निगोदानां कोटीसहस्रं भवति, प्रतिनिगोदं च जीवलक्षकल्पनात् सर्वजीवानां कोटीकोटीदशकं भवतीति । अथ सर्वजीवेभ्य उत्कृष्टपदगतजीवप्रदेशा विशेषाधिका इति दयते॥२५॥ जंसंति केइ खंडा गोला लोगंतवत्तिणो अन्ने। बायरविग्गहिएहि य उक्कसपयंजमब्भहियं । यस्माद्विद्यन्ते केचित्खण्डा गोला लोकान्तवर्तिनः ‘अन्ने'त्ति पूर्णगोलकेभ्योऽपरेऽतो जीवराशिः कल्पनया कोटीकोटीदशकरूप ऊनो भवति पूर्णगोलकतायामेव तस्य यथोक्तस्य भावात्, ततश्चयेनजीवराशिनाखण्डगोलका पूर्णीभूताःससर्वजीवराशेरपनीयतेअसद्भूतत्वात्तस्य, सच किल कल्पनया कोटीमानः, तत्र चापनीते सर्वजीवराशि स्तोकतरोभवति, उत्कृष्टपदं तुयथोक्तप्रमाणमवेति तत्वतो विशेषाधिकं भवति, समता पुनः खण्डगोलानां पूर्णताविवक्षणाक्तेति, तथाबादरविग्रहिकैश्च-बादरनिगोदादिजीवप्रदेशैश्चौत्कृष्टपदं यद्-यस्मात्सर्वजीवराशेर Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003310
Book TitleAgam Suttani Satikam Part 06 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy