________________
२८
भगवतीअङ्गसूत्रं (२) ११/-/१०/५१३ वगाहनया भागे हते लक्षमाना भवन्तीति ॥अथ निगोदमाश्रित्याह॥१७॥ लोगस्स हिए भागे निगोयओगाहणाए जं लद्धं ।
उक्कोसपएऽतिगयं एत्तियमेक्केजीवाओ ।। _ 'लोकस्य' कल्पनया प्रदेशकोटीशतमानस्य हृते भागे निगोदावगाहनया कल्पनातः प्रदेशदशसहस्रीमानया यल्लब्धं तच्च किल लक्षपरिमाणमुत्कृष्टपदेऽतिगतं-अवगाढमेतावदेकैकजीवात्, अनन्तजीवात्, अनन्तजीवात्मकनिगोदसम्बन्धिन एकैकजीवसत्कमित्यर्थः । अनेन नीगोदसत्कमुत्कृष्टपदे यदवगाढं तद्दर्शितमथ गोलकसत्कं यत्तत्रावगाढं तद्दर्शयति॥१८॥ एवं दव्वट्ठाओसव्वेसिं एक्कगोलजीवाणं ।
उक्कोसपयमइगया होंति पएसा असंखगुणा ।। यथा निगोदजीवेभ्योऽसङ्खयेयगुणास्तप्रदेशा उत्कृष्टपदेऽतिगता एवं 'द्रव्यार्थात्' द्रव्यार्थःतयानतुप्रदेशार्थ:तया सव्वेसिं'तिसर्वेभ्यएकगोलगतजीवद्रव्येभ्यः सकाशादुत्कृष्टपदमगतिगताभवन्तिप्रदेशा असङ्ख्यातगुणाः । इह किलानन्तजीवोऽपिनिगोदः कल्पनया लक्षजीवः, गोलकश्वासङ्घयातनिगोदोऽपि कल्पनया लक्षनिगोदः, ततश्चलक्षस्य लक्षगुणने कोटीसहस्रङ्ख्याः कल्पनया गोलकेजीवा भवन्ति, तत्प्रदेशानांचलक्षलक्षमुत्कृष्टपदेऽतिगतं, अतश्चैकगोलकजीवसङ्ख्यया लक्षगणने कोटीकोटीदशकसङ्ख्या एकत्र प्रदेशे कल्पनया जीवप्रदेशा भवन्तीति । गोलकजीवेभ्यसकाशादेकत्रप्रदेशेऽसङ्खयेयगुणाजीवप्रदेशाभवन्तीत्युक्तमथ तत्र गुणकारराशेः परिमाणनिर्णयार्थःमुच्यते॥१९॥ तंपुण केवइएणं गुणियमसंखेज्जयं भवेजा हि।
भन्नइ दव्वट्ठाइ जावइया सव्व गोलत्ति।. तत्पुनरनन्तरोक्तमुत्कृष्टपदातिगतजीवप्रदेशराशिसम्बन्धि कियता' किंपरिमाणेनासङ्खयेयराशिना गुणितं सत् ‘असंखेज्जयंति असङ्खयेयकम्-असङ्ख्यातगुणनाद्वारायातं भवेत्' स्यादिति?,भण्यतेअत्रोत्तरं, द्रव्यार्थःतया नतु प्रदेशार्थःतया यावन्तः सर्वगोलकाः' सकलगोलकास्तावन्तइति गम्यं, सचोत्कृष्टपदगतैकजीवप्रदेशराशिर्मन्तव्यः, सकलगोलकानां तत्तुल्यत्वादिति ॥२०॥ किं कारणमोगाहणतुल्लत्ता जियमिगोयगोलाणं ।
गोला उक्कोसपएक्कजियपएसेहं तो तुल्ला ।। किं कारणं'ति कस्मात्कारणाद् यावन्तः सर्वगोलास्तावन्त एवोत्कृष्टपदगतैकजीवप्रदेशाः? इति प्रश्नः, अत्रोत्तरम्-अवगाहनातुल्यत्वात्, केषामियमित्याह-जीवनिगोदगोलानाम्, अवगाहनातुल्यत्वं चैषामङ्गुलासङ्ख्येयभागमात्रावगाहित्वादितिप्रश्नः, यस्मादेवं 'तो'त्ति तस्माद्गोलाः सकललोकसम्बन्धिनः उत्कृष्टपदे ये एकस्य जीवस्य प्रदेशास्ते तथा तैरुत्कृष्टपदेकजीवप्रदेशैस्तुल्या भवन्ति एतस्यैद भावनार्थःमुच्यते॥२१॥ गोलेहि हिए लोगे आगच्छइ जंतमेगजीवस्स ।
उक्कोसपयगयपएसरासितुल्लं वहइ जम्हा ।। 'गोलैः' गोलावगाहनाप्रदेशैः कल्पनया दशसहसङ्ख्यैः 'हृते' विभक्ते हृतभाग इत्यर्थः 'लोके लोकप्रदेशराशौ कल्पनया एककोटीशतप्रमाणे आगच्छति' लभ्यते यत्' सर्वगोलसङ्ख्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org