________________
शतकं - ११, वर्गः, उद्देशकः - १०
सर्वोत्कर्षयोगाद् यदिहग्राह्यमित्यर्थः तद्वक्ष्ये । तदेवाह - ॥१०॥
बायरनिगोयविग्गहगइयाइ जत्थ समहिया अन्ने । गोला हुज सुबहुला नेच्छइयपयं तदुक्कोसं ॥
बादरनिगोदानां कन्दादीनां विग्रहगतिकादयो बादरनिगोदविग्रहगतिकादयः, आदिशब्दश्चेहाविग्रहगतिकावरोधार्थः, यत्रोत्कृष्टपदे समधिका अन्ये- सूक्ष्मनिगोदगोलकेभ्योऽपरे गोलका भवेयुः सुबहवो नैश्चयिकपदं तदुत्कर्षं बादरनिगोदा हि पृथिव्यादिषु पृथ्व्यादयश्च स्वस्थानेषु स्वरूपतो भवन्ति न सूक्ष्मनिगोदवत्सर्वत्रेत्यतो यत्र क्वचित्ते भवन्ति तदुत्कृष्टपदं तात्विकमिति भावः । एतदेव दर्शयन्नाह -
1199 11
२७
इहरा पडुच्च सुहुमा बहुतुल्ला पायसो सगलगोला । तो बायराइगहणं कीरइ उक्कोसयपयंमि ॥
'इहर'त्ति बादरनिगोदाश्रयणं विना सूक्ष्मनिगोदान् प्रतीत्य वहुतुल्याः - निगोदसङ्ख्यया समानाः प्रायशः, प्रायोग्रहणमेकादिना न्यूनाधिकत्वे व्यभिचारपरिहारार्थं, क एते ? इत्याहसकलगोलाः, न तु खण्डगोलाः, अतो न नियतं किञ्चिदुत्कृष्टपदं लभ्यते, यत एवं तो बादरनिगोदादिग्रहणं क्रियते उत्कृष्टपदे ॥ अथ गोलकादीनां प्रमाणमाह
॥१२॥
गोलाय असंखेज्जा होंति निओया असंखया गोले ।
एक्कोक्कोउ निगोओ अनंतजीवो मुणेयव्वो ।
अथ जीवप्रदेशपरिमाणप्ररूपणापूर्वकं निगोदादीनामवगाहनामानमभिधित्सुराह1193 11 लोगस्स य जीवरस य होन्ति पएसा असंखया तुल्ला । - अंगुल असंखभागो निगोयजियगलगोगाहो ।
लोकजीवयोः प्रत्येसमसङ्घयेयाः प्रदेशा भवन्ति ते च परस्परेण तुल्या एव, एषां च सङ्कोचविशेषाद् अङ्गुलासङ्घयेयभागो निगोदस्य तज्जीवस्य गोलकस्य चावगाह इति निगोदादिसमावगाहना तामेव समर्थः यन्नाह -
1198 11
जंमि जिओ तंमेव उ निगोअ तो तम्मि चेव गोलोवि । निप्फज्जइ जं खेत्ते तो ते तुल्लावगाहणया ॥
यस्मिन् क्षेत्रे जीवोऽवगाहते तस्मिन्नेव निगोदो, निगोदव्याप्तया जीवस्यावस्थानात्, 'तो' त्ति ततः - तदनन्तरं निगोदमात्रत्वाद् गोलकावगाहनाया इति, यद् - यस्मात्क्षेत्रे - आकाशे ततस्तेजीवनिगोदगोलाः ‘तुल्यावगाहनाकाः ' समानावगाहनाका इति । अथ जीवाद्यवगाहनासमतासामर्थ्येन यदेकत्र प्रदेशे जीवप्रदेशमानं भवति तद्विभणिषुस्तत्प्रस्तावनार्थं प्रश्नं कारयन्नाह119411 उक्कोसपयपएसे किमेगजीवप्पएसरासिस्स । होगनिगोयस्स व गोलस्स व किं समोगाढं ॥ -तत्र जीवमाश्रित्योत्तरम् -
॥१६॥
जीवस्स लोगमेत्तस्स सुहुमओगाहणावगाढस्स । एक्क्कम एसे होंति पएसा असंखेज्जा ।।
ते च किल कल्पनया कोटीशतसङ्ख्यस्य जीवप्रदेशराशेः प्रदेशदशसहस्रीस्वरूपजीवा
For Private & Personal Use Only
:
Jain Education International
www.jainelibrary.org