SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ २६ भगवतीअङ्गसूत्रं (२) ११/-/१०/५१३ तथा एकावगाहनाइत्यर्थः,तैरेव यत्स्पर्शनं अवगाहनंजघन्यपदस्य तन्निगोदमात्रावगाहनस्पर्शनं तस्मात्, खण्डगोलकनिष्पादकनिगोदैस्तस्यासंस्पर्शनादित्यर्थः, भूम्यासन्नापवरककोणान्तिमप्रदेशसशो हि जघन्यपदाख्यः प्रदेशः, तंचालोकसम्बन्धादेकावगाहना एव निगोदाः स्पृशन्ति, न तु खण्डगोलनिष्पादकाः, तत्र किल जघन्यपदं कल्पनया जीवशतं स्पृशति, तस्य च प्रत्येक कल्पनयैवप्रदेशलक्षंतत्रावगाढमित्येवंजघन्यपदाकोटीजीवप्रदेशानामवगाढेत्येवं स्तोकास्तत्र जीवप्रदेशा इति । अथोत्कृष्टपदजीवप्रदेशपरिमाणमुच्यते-'फुसणासंखगुणत्त'त्ति स्पर्शनायाःउत्कृष्टपदस्य पूर्णगोलकनिष्पादकनिगोदैः संस्पर्शनायायदसङ्ख्यातगुणत्वंजघन्यपदापेक्षयातत्तथा तस्माद्धेतोरुत्कृष्टदेऽसङ्ख्यातगुणा जीवप्रदेशा जघन्यपदेपेक्षया भवन्ति, उत्कृष्टपदं हि सम्पूर्णगोलकनिष्पादकनिगोदरेकावगाहनैरसङ्खयेयैः तथोत्कृष्टपदाविमोचनेनैकेकप्रदेशपरिहानिभि प्रत्येकमसङ्खयेयैरेव स्पृष्टं, तच्च किल कल्पनया कोटी सहस्रेण जीवानां स्पृश्यते, तत्र च प्रत्येकं जीवप्रदेशलक्षस्यावगाहनाजीवप्रदेशानां दशकोटीकोट्योऽवगाढाः स्युरित्येवमुत्कृष्टपदे तेऽसङ्ख्येयगुणा भावनीया इति । अथ गोलकप्ररूपणायाह ॥६॥ उक्कोसपयममोत्तुं निगोयओगाहणाए सव्वत्तो। .. निप्फाइजइ गोलो पएसपरिवुड्डिहाणीहिं॥ - 'उत्कृष्टपदं' विवक्षितप्रदेशम् अमुञ्चद्भिः निगोदावगाहनाया एकस्याः ‘सर्वतः' सर्वासु दिक्षु निगोदान्तराणि स्थापयद्भिर्निष्पाद्यते गोलः, कथं ?, प्रदेशपरिवृद्धिहानिभ्यां-कांश्चित् प्रदेशान् विवक्षितावगाहनाया आक्रमद्भिः कांश्चिद्विमुञ्चद्भिरित्यर्थः, एवमेकगोलकनिष्पत्ति, गोलकान्तरकल्पनायाह॥७॥ तत्तोच्चिय गोलाओ उक्कोसपयंमुइत्तु जो अन्नो। होइ निगोओ तंमिवि अन्नो निष्फज्जती गोलो। तमेवोक्तलक्षणं गोलकमाश्रित्यान्यो गोलको निष्पद्यते, कथम् ?, उत्कृष्टपदं प्राक्तनगोलकसम्बन्धि विमुच्य योऽन्यो भवति निगोदस्तस्मिन्नुत्कृष्टपदकल्पनेनेति।तथाच यत्स्यात्तदाह॥८॥ एवं निगोयमेत्ते खेत्ते गोलस्स होइ निप्फत्ती। एवं निप्पजते लोगे गोला असंखिज्जा ॥ "एवम्' उक्तक्रमेण निगोदमात्रे क्षेत्रे गोलकस्य भवति निष्पत्ति, विवक्षितनिगोदावगाहातिरिक्तनिगोददेशानां गोलकान्तरानुप्रवेशात्, एवं च निष्पद्यन्ते लोके गोलका असङ्खयेयाः, असङ्ख्येयत्वात् निगोदावगाहनानां, प्रतिनिगोदावगाहनंच गोलकनिष्पत्तेरिति ।। अथ किमिदमेव प्रतिगोलकं यदुक्तमुत्कृष्टपदं तदेवेह ग्राह्यमुतान्यत् ? इत्यस्यामाशङ्कायामाह॥९॥ ववहारनएण इमं उक्कोसपयावि एत्तिया चेव । जं पुण उक्कसपयं नेच्छइयं होइ तं वोच्छं । 'व्यवहारनयेन' सामान्येन 'इदम्' अनन्तरोक्तमुत्कृष्टपदमुक्तं, काक्वाचेदमध्येयं, तेन नेहेदं ग्राह्यमित्यर्थः स्यात्, अथ कस्मादेवम् ? इत्याह-'उक्कोसपयावि एत्तियाचेव'त्ति न केवलं गोलका असङ्खयेयाः उत्कर्षपदान्यपि परिपूर्णगोलकप्ररूपितानि एतावन्त्येव-असङ्ख्येयान्येव भवन्ति यस्मात्ततो ननियतमुत्कृष्टपदं किञ्चन स्यादिति भावः, यत्पुनरुष्कष्टपदं नैश्चयिकं भवति Jain Education International - For Private & Personal Use Only ___.www.jainelibrary.org
SR No.003310
Book TitleAgam Suttani Satikam Part 06 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy