SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ २७२ भगवतीअङ्गसूत्रं (२) १९/-/३/७६१ पएसोगाढाइं कालतो अन्नयरकालद्वितीयाई भाक्ओ वनमंताई गंधमंताई रसमंताई फासमंताई'इत्यादीति 'तं चिजइत्ति तत्-पुद्गलजातं शरीरेन्द्रियतया परिणमतीत्यर्थः "चिन्ने वा से उद्दाइ'त्ति चीर्णं च-आहारितं सत्तत्पुद्गलजातम् 'अपद्रवति' अपयाति विनश्यतीति मलवत् सारश्चास्य शरीरेन्द्रियतया परिणमति, एतदेवाह-'पलिसप्पइव'त्ति परिसर्पतिच परि-समन्ताद्गच्छति, एवं सन्नाइ वत्ति “एवं' वक्ष्यमाणोल्लेखेन 'सज्ञा' व्यावहारिकार्थावग्रहरूपा मति प्रवर्ततइति शेषः, पन्नाइव'त्तिप्रज्ञा-सूक्ष्मार्थविषया मतिरेव, ‘मणोइव'त्ति मनोद्रव्यस्वभावं, 'वईइ वत्ति वाग् द्रव्यश्रुतरूपा। प्राणातिपातादिद्वारे-'पाणाइवाए उवक्खाइज्जती'त्यादि प्राणातिपाते स्थिता इति शेषः प्राणातिपातवृत्तय इत्यर्थः, उपाख्यायन्ते-अभिधीयन्ते, यश्चेह वचनाद्यभावेऽपिपृथिवीकायिकानां मृषावादादिभिरुपाख्यानं तन्मृषावादाद्यविरतिमाश्रित्योच्यत इति, अथ हन्तव्यादिजीवानां का वार्ता ? इत्याह-'जेसिपि ण'मित्यादि, येषामपि जीवानामतिपातादिविषयभूतानां प्रस्तावापृथिवीकायिकानामेव सम्बन्धिनाऽतिपातादिना 'तेजीवत्तिते-अतिपातादिकारिणो जीवाः ‘एवमाहिजंति'त्ति अतिपातादिकारिण एते इत्याख्यायन्ते, तेषामपि जीवानामतिपातादिविषयभूतानां न केवलं घातकानां 'नो' नैव 'विज्ञातम्' अवगतं 'नानात्वं' भेदो यदुत वयं वध्यादय एते तु वधकादय इत्यमनस्कत्वात्तेषामिति ।। उत्पादद्वारे-‘एवं जहा वक्तीए'इत्यादि, इह च व्युत्क्रान्ति प्रज्ञापनायाः षष्ठं पदं,अनेन च यत्सूचितं तदिदं–'किं नेरइएहिंतो उववजंति तिरिक्खजोणिएहिंतो उववजंति मणुस्सेहितो उववजंति देविहितो उववजंति ?, गोयमा ! नो नेरइएहितो उववजंति तिरिक्खजोणिएहितो उववजंति मणुस्सेहिंतो उववजंति देवेहिंतो उव्वजंति' ।। समुद्घातद्वारे-'समोहयावि'त्ति समुद्घातेवर्तमानाः कृतदण्डाइत्यर्थः 'असोमहयावित्ति दण्डादुपरता अकृतसमुद्घाता वा।। उद्धर्तनाद्वारे-‘एव उव्वट्टणा जहा वकंतीए'त्ति, अनेन चेदं सूचितं-किं नेरइएसु जाव देवेसु?, गोयमा ! नो नेरइएसु उववज्जति तिरिक्खजोणिएसु उव० मणुस्सेसु उववजंति नो देवेसु उववजंति'त्ति। तेजस्कायिकदण्डके 'नवरं उववाओ ठिई उव्वट्टणा य जहा पनवणाए'ति, इह स्यादादिद्वाराणि पृथिवीकायिकदण्डकवद्वाच्यानि, उत्पादादिषुपूनर्विशेषोऽसतिसच प्रज्ञापनायामिवेह द्रष्टव्यः, स चैवमर्थतः तेषामुपपातस्तिर्यग्मनुष्येभ्यएवस्थितिस्तूत्कृष्टाऽहोरात्रत्रयंतत उदृत्तास्तु ते तिर्यक्ष्वेवोत्पद्यन्ते, यथा चेहोत्पादविशेषोऽस्ति तथा लेश्यायामपियतस्तेजसोऽप्रशस्तलेश्या एव, पृथिवीकायिकास्त्वाद्यचतुर्लेश्याः, यच्चेदमिह न सूचितं तद्विचित्रत्वात्सूत्रगतेरिति। वायुकायदण्डके 'चत्तारि समुग्घाय'त्ति पृथिव्यदीनामाद्यायः समुद्घाताः वायूनां तु वेदनाकषायमारणान्तिकवैक्रियलक्षणाश्चत्वारः समुद्घाताः संभवन्ति तेषां वैक्रियशरीरस्य सम्भवादिति । वनस्पतिकायदण्डके 'नवरं आहारो नियम छद्दिसिं'ति यदुक्तं तनावगम्यते लोकान्तनिष्कु-टान्याश्रित्य त्रिदिगादेरप्याहारस्य तेषां सम्भवाद् द्वादरनिगोदान् वाऽऽश्रित्येदमवसेयं, तेषां पृथिव्याद्याश्रितत्वेन षडदिक्काहारस्यैव सम्भवादिति ।। अथैषामेव पृथिव्यादीनामवगाहनाऽल्पत्वादिनिरूपणायाह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003310
Book TitleAgam Suttani Satikam Part 06 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy