SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ २१ - शतकं-११, वर्गः-, उद्देशकः-१० इह नोशब्दः सर्वनिषेधे मिश्रवचनो वा, आगमस्य ज्ञानत्वात् क्षायिकक्षायोपशमिकज्ञानस्वरूपभावविशेषेण च मिश्रत्वादौदयिकादिभावलोकस्येति । ___ 'अहेलोयखेत्तलोए'त्ति अधोलोकरूपः क्षेत्रलोकोऽधो लोकक्षेत्रलोकः, इह किलाप्टप्रदेशो रुचकस्तस्य चाधस्तनप्रतरस्याधोनवयोजनशतानियावत्तिर्यगलोकस्ततः परेणाधः-स्थितत्वादधोलोकः साधिकसप्तरज्जुप्रमाणः, 'तिरियलोयखेत्तलोएति रुचकापेक्षयाऽध उपरि च नव २ योजनशतमानस्तिर्यगूरपत्वात्तिर्यगलोकस्तद्रूपः क्षेत्रलोकस्तिर्यगलोकक्षेत्रलोकः, ‘उड्डलोयखेत्तलोए त्तितिर्यगलोकस्योपरि देशोनसप्तरज्जुप्रमाण ऊर्द्धभागवर्त्तित्वादूर्द्धलोकस्तद्रूपः क्षेत्रलोक ऊर्द्धलोकक्षेत्रलोकः ।अथडाऽधः-अशुभः परिणामो बाहुल्येन क्षेत्रानुभावाद्यत्र लोके द्रव्याणामसावधोलोकः, तथा तिर्यङ्-मध्यमानुभावं क्षेत्रं नातिशुभंनाप्तत्यशुभंतद्रूपोलोकस्तिर्यगलोकः, तथा ऊर्ध्वं-शुभः परिणामो बाहुल्येन द्रव्याणां यत्रासावूलोकः, आह च॥१॥ “अहव अहोपरिणामो खेत्तणुभावेण जेण ओसन्नं । असुहो अहोत्ति भणिओ दव्वाणं तेणऽहोलोगोः॥ इत्यादि, 'तप्पागारसंठिए'त्ति तपः-उडुपकः, अधोलोकक्षेत्रलोकोऽधोमुखशरावाकारसंस्थानइत्यर्थः, 'शल्लरिसंठिए'त्तिअल्पोच्छ्रायत्वा महाविस्तारत्वाच्च तिर्यग्लोकक्षेत्रलोको झल्लरीसंस्थितः, ‘उड्डमुइंगागारसंठिए'त्ति ऊर्ध्वः-ऊर्ध्वंमुखो यो मृदङ्गस्तदाकारेण संस्थितो यःस तथा शरावसंपुटाकार इत्यर्थः, 'सुपइट्ठगसं, ठिए'त्ति सुप्रतिष्ठकं-स्थापनकं तच्चेहारोपितवारकादि गृह्यते, तथाविधेनैव लोकसादृश्योपपत्तेरिति, 'जहा सत्तमसए' इत्यादौ यावत्करणादिदं दृश्यम्-'उप्पिं विसाले अहेपलियंकसंठाणसंठिए मझेवरवइरविग्गहिए उप्पिं उद्धमुइंगागरसंठिए तेसिंचणंसासयंसि लोगंसि हेठ्ठा विच्छिन्नंसिजाव उप्पिं उड्डमुइंगागारसंठियंसि उप्पन्नाणदंसणधरे अरहा जिणे केवली जीवेवि जाणइ अजीवेवि जाणइ तओ पच्छा सिज्झइ बुज्झइ 'इत्यादीति, 'झुसिरगोलसंठिए'त्ति अन्तःशुपिरगोलकाकारो यतोऽलोकस्य लोकः शुषिरमिवाभाति,। 'अहेलोयखेत्तलोएणंभंते!' इत्यादि, ‘एवंजहा इंदा दिसा तहेव निरवसेसंभाणियव्वंति दशमशतेप्रथमोद्देशके यथा ऐन्द्री दिगुक्ता तथैव निरवशेषमधोलोकस्वरूपं भणितव्यं, तच्चैवम्'अहोलोयखेत्तलोए णं भंते ! किं जीवा जीवदेसा जीवपएसा अजीवा अजीवदेसा अजीवपएसा?,गोयमा! जीवाविजीवदेंसाविजीवपएसाविअजीवाविअजीदेसावि अजीवपएसावि'इत्यादि,नवरमित्यादि, अधोलोकतिर्यग्लोकयोररूपिणः सप्तविधाःप्रागुक्ताः धर्माधर्माकाशास्तिकायानां देशाः ३ प्रदेशाः ३ कालश्चेत्येवम्, ऊर्ध्वंलोके तु रविप्रकाशाभिव्यङ्गयः कालो नास्ति, तिर्यगधोलोकयोरेव रविप्रकाशस्य भावाद, अतः षडेव त इति। _ 'लोएण'मित्यादि, 'जहा वीयसए अत्थिउद्देसए'त्ति यता द्वितीयशते दशमोद्देशक इत्यर्थः 'लोयागासे'त्ति लोकाकाशे विषयभूतेजीवादय उक्ता एवमिहापीत्यर्थः, 'नवर'मिति केवलमयं विशेषः-तत्रारूपिणः पञ्चविधा उक्ता इह तु सप्तविधा वाच्याः, तत्र हि लोकाकाशमाधारतया विवक्षितमत आकाशभेदास्तत्र नोच्यन्ते, इह तु लोकोऽस्तिकायसमुदायरूप आधारतया विवक्षितोऽतआकाशभेदा अप्याधेया भवन्तीति सप्त, ते चैवं-धर्मास्तिकायः, लोके परिपूर्णस्य तस्य विद्यमानत्वात्, धर्मास्तिकायदेशस्तुन भवतिधर्मास्तिकायस्यैव तत्र भावात्, धर्मास्तिकाय www.jainelibrary.org Jain Education International For Private & Personal Use Only For Privat
SR No.003310
Book TitleAgam Suttani Satikam Part 06 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy