________________
भगवतीअङ्गसूत्रं (२) ११/-/१०/५१० प्रदेशाश्वसन्ति, तद्रूपत्वाद्धर्मास्तिकायस्येतिद्वयं, एवमधर्मास्तिकायेऽपि द्वयं४,तथानो आकाशास्तिकायो, लोकस्यतस्यैतद्देशत्वात्, आकाशदेशस्तुभवति, तदंशत्वात् लोकस्य, तत्पदेशाश्च सन्ति ६, कालश्चे७ति सप्त ।।। ____ 'अलोएणंभंते!' इत्यादि, इदं च ‘एवं जहे'त्याद्यतिदेशादेवश्यम्-'अलोएणं भंते! किं जीवा जीवदेस जीवपएसा अजीवा अजीवदेसा अजीवपएसा ?, गोयमा ! नो जीवदेसा नो जीवपएसा नो अजीवदेसा नो अजीवपएसा एगे अजीवदव्वदेसे अनंतेहिं अगुरुलहुयगुणेहिं संजुत्ते सव्वागासे अनंतभागूणे'त्ति तत्र सर्वाकाशमनन्तभागोनमित्यस्यायमर्थः-लोकलक्षणेन समस्ताकाशस्यानन्तभागेन न्यूनं सर्वाकाशमलोक इति।
'अहोलोगखेत्तलोगस्स णं भंते ! एगंमि आगासपएसे'इत्यादि, नो जीवा एकप्रदेसे तेषामनवगाहनात्, बहूनांपुनर्जीवानां देशस्यप्रदेशस्यचावगाहनात् उच्यते जीवदेसाविजीवपएसावित्ति, यद्यपिधर्मास्तिकायाद्यजीवद्रव्यं नैकत्राकाशप्रदेशेऽवगाहतेतथाऽपिपरमाणुकादिद्रव्याणांकालद्रव्यस्य चावगाहनादुच्यते-'अजीवावि'ति द्वयणुकादिस्कन्धदेशानां त्ववगाहनादुक्तम्-'अजीवदेसावित्ति, धर्माधर्मास्तिकायप्रदेशयोः पुद्गलद्रव्यप्रदेसानां चावगाहनादुच्यते'अजीवपएसावित्ति, एवं मज्झिल्लविरहिओ'त्तिदशमशतप्रदर्शितत्रिकभङ्गे अहवा एगिदियदेसाय वेइंदियदेसाय' इत्येवंरूपोयोमध्यमभङ्गस्तद्विरहितोऽसौत्रिकभङ्गः, 'एव'मिति सूत्रप्रदर्शितभङ्गद्वयरूपोऽध्येतव्यो, मध्यमभङ्गस्येहासम्भवात्, तथाहि-द्वीन्द्रियस्यैकस्यैकत्राकाशप्रदेशेबहवो देशा न सन्ति, देशस्यैव भावात्, ‘एवं आइल्लविरहिओ'त्ति 'अहवा एगिदियस्स पएसा य बेंदियस्स पएसाय' इत्येवंरूपाद्यभङ्गकविरहितस्त्रिभङ्गः, ‘एव'मिति सूत्रप्रदर्शितभङ्गद्ववयरूपोऽध्येतव्यः, आद्यभङ्गकस्येहासम्भवात्, तथाहि-नास्त्येवैकत्राकाशप्रदेशे केवलिसमुदघातं विनैकस्य जीवस्यैकप्रदेशसम्भवोऽसङखयातामेव भावादिति, 'अणिदिएसुतियभंगो तिअनिन्द्रियेषूक्तभङ्गकत्यमपि सम्भवतीतिकृत्वा तेषु तद्वाच्यमिति।
'रूवीतहेव'त्ति स्कन्धाः देशाः प्रदेशाअणवश्चेत्यर्थः ‘नो धम्मत्थिकाये'त्तिनोधर्मास्तिकाय एकत्राकाशप्रदेशे संभवत्यसङ्ख्यातप्रदेशावगाहित्वात्तस्येति, 'धम्मत्थिकायस्स देसे'त्ति यद्यपि धर्मास्तिकायस्यैकत्राकाशप्रदेशे प्रदेश एवास्ति तथाऽपि देशोऽवयव इत्यनर्थान्तरत्वेना- वयवमात्रस्यैव विवक्षितत्वात् निरंशतायाश्च तत्र सत्या अपि अविवक्षितत्वाद्धर्मास्तिकायस्य देश इत्युक्तं, प्रदेशस्तु निरुपचरित एवास्तीत्यत उच्यते-'धम्मत्थिकायस्स पएसे'त्ति, “एवमहम्मस्थिकायस्सवित्ति ‘नोअधम्मत्थिकाए अहम्मस्थिकायस्सदेसे अहम्मत्थिकायस्स पएसे' इत्येवमध मास्तिकायसूत्रं वाच्यमित्यर्थः, अद्धासमओ नत्थि, अरूवीचउविह'त्ति ऊर्द्धलोकेऽद्धा-समयो नास्तीति अरूपिणश्चतुर्विधाः-धर्मास्तिकायदेशादयःऊर्द्धलोक एकत्राकाशप्रदेशे सम्भ-वन्तीति 'लोगस्सजहाअहोलोगखेत्तलोगस्सएगंमि आगासपएसे'त्तिअधोलोकक्षेत्रलोक-स्यैकत्राकाशप्रदेशे यद्वक्तव्यमुक्तं तल्लोकस्याप्येकत्रा काशप्रदेशे वाच्यमित्यर्थः, तच्चैदं-लोगस्स णं भंते! एगंमि आगासपएसे किं जीवा०? पुच्छा गोयमा ! 'नो जीवे' त्यादि प्राग्वत् ।
'अहेलोयखेत्तलोए अनंता वन्नपज्जवत्ति अधोलोकक्षेत्रलोकेऽनन्ता वर्णपर्यवाः एकगुणकालकादीनामनन्तगुणकालाद्यवसानानां पुद्गलानां तत्र भावात् । अलोकसूत्रे ‘नेवत्थि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org