________________
शतकं - १६, वर्ग:-, उद्देशकः-८
२१९
अथ जीवादिदेशादिषु विशेषमाह - 'जे जीवे' त्यादि, ये जीवदेशास्ते पृथिव्याद्येकेन्द्रियजीवानां देशास्तेषां लोकान्तेऽवश्यं भावादित्ये विकल्पः, 'अहव' त्तिप्रकारान्तरदर्शनार्थः, एकेन्द्रियाणां बहुत्वाद्वहवस्तत्र तद्देशा भवन्ति, द्वीन्द्रियस्य च कादाचित्कत्वात्कदाचिद्देशः स्यादित्येको द्विकयोगविकल्पः, यद्यपि हि लोकान्ते द्वीन्द्रियो नास्ति तथाऽपि यो द्वीन्द्रिय एकेन्द्रियेषूत्पित्सुर्मारणान्तिकसमुद्घातं गतस्तमाश्रित्यायं विकल्प इति ।
‘एवं जहे’त्यादि, यथा दशमशते आग्नेयीं दिशमाश्रित्योक्तं तथेह पूर्वचरमान्तमाश्रित्य वाच्यं तच्चेदम्- 'अहवा एगिंदियदेसा य बेइंदियस्स य देसा अहवा एगिंदियदेसा य बेइंदियाण य देसा अहवा एगिंदियदेसा य तेइंदियस्स य देसे' इत्यादि, यः पुनरिह विशेषस्तद्दर्शनायाह- 'नवरं अनिंदियाण' मित्यादि, अनिन्द्रियसम्बन्धिनि देशविशेष भङ्गकत्रये ' अहवा एगिंदियदेसा य अनिंदियस्स देसे' इत्येवं रूपः प्रथमभङ्गको दशमशते आग्नेयीप्रकरणेऽभिहितोऽपीह न वाच्यो, यतः केवलिसमुद्घाते कपाटाद्यवस्थायां लोकस्य पूर्वचरमान्ते प्रदेशवृद्धिहानिकृतलोकदन्तकसद्भावेनानिन्द्रियस्य बहूनां देशानां सम्भवो न त्वेकस्येति, तथाऽऽग्नेय्यां दशविधेष्वरूपिद्रव्येषु धर्म्माधर्म्माकाशास्तिकायद्रव्याणां तस्यामभावात्सप्तविधा अरूपिण उक्ताः लोकस्य . पूर्वचरमान्तेष्वद्धासमयस्याप्यभावात् षड्विधास्ते वाच्याः, अद्धासमयस्य तु तत्राभावः समयक्षेत्
एव तद्भावात्, अत एवाह
'जे अरूवी अजीवा ते छव्विहा अद्धासमयो नत्थि'त्ति, 'उवरिल्ले चरिमंते'त्ति, अनेन सिद्धोपलक्षित उपरितनचरिमान्तो विवक्षितस्तत्र चैकेन्द्रियदेशा अनिन्द्रियदेशाश्च सन्तीतिकृत्वाऽऽह - 'जे जीवे’त्यादि, इहायमेको द्विकसंयोगः, त्रिकसंयोगेषु च द्वौ द्वौ कार्यौ, तेषु हि मध्यमभङ्ग ‘अहवा एगिंदियदेसा य अनिंदियदेसा य बेइंदियरस य देसा' इत्येवंरूपो नास्ति, द्वीन्द्रियस्य च देशा इत्यस्यासम्भवाद्, यतो द्वीन्द्रियस्योपरितनचरिमान्ते मारणान्तिक- समुद्घातेन गतस्यापि देश एव तत्र संभवति न पुनः प्रदेशवृद्धिहानिकृतलोकदन्तकशादनेकप्रतरात्मकपूर्वचरमान्तवद्देशाः उपरितनचरिमान्तस्यैकप्रतररूपतया लोकदन्तकाभावेन देशानेकत्वाहेतुत्वादिति, अत एवाह - ' एवं मज्झिल्लविरहिओ 'त्ति त्रिकभङ्गक इति प्रक्रमः, उपरितनचरिमान्तापेक्षया जीवप्रदेशप्ररूपणायामेवं 'आइल्लविरहिओ' त्ति यदुक्तं तस्यायमर्थः - इह पूर्वोक्ते भङ्गकत्रये प्रदेशापेक्षया 'अहवा एगिंदियपएसा य अनिंदियप्पएसा य बेइंदियस्सप्पएसे' इत्ययं प्रथमभङ्गको न वाच्यो, द्वीन्द्रियस्य च प्रदेश इत्यस्यासम्भवात्, तदसम्भवश्च लोकव्यापकावस्थानिन्द्रियवर्जजीवानां यत्रैकप्रदेशस्तत्रासङ्ख्यातानामेव तेषां भावादिति, 'अजीवा जहा दसमस तमाए 'त्ति अजीवानाश्रित्य यथा दशमशते 'तमाए 'त्ति तमाभिधानां दिशमाश्रित्य सूत्रमधीतं तथेहोपरितनचरमान्तमाश्रित्य वाच्यं तचैवं - जे अजीवा ते दुविहा पन्नत्ता, तंजहारूवीअजीवा य अरूविअजीवा य, जे रूविअजीवा ते चउव्विहा पन्नत्ता, तंजहा - खंधा ४, जे अरूविअजीवा ते छव्विहा पन्नत्ता, तंजहा - नो धम्मत्थिकाए धम्मत्थिकायस्स देसे धम्मत्थिकायस्सप्पएसा' एवमधर्म्माकाशास्तिकाययोरपीति ॥
'लोगस्स णं भंते! हिट्ठिल्ले' इत्यादि, इह पूर्वचरमान्तवद्भङ्गाः कार्या, नवरं तदीयस्य भङ्गकत्रयस्य मध्यात् ‘अहवा एगिंदियदेसा य बेइंदियस्स य देसा' इत्येवंरूपो मध्यमभङ्गकोऽत्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org