________________
शतकं-१६, वर्गः-, उद्देशकः-६
२१७ वा'इत्यादिप्रतीतार्थाश्चैते शब्दाः, किं कोट्टे वाइ'त्तिकोष्ठो-वाससमुदायोवाति-दूरादागच्छति, आगत्यध्राणग्राह्यो भवतीति भावः, 'धाणसहगय'त्तिध्रायत इतिध्राणो-गन्धो गन्धोपलम्भक्रिया वा तेन सह गताः-प्रवृत्ता ये पुद्गलास्ते ध्राणसहगताः गन्धगुणोपेता इत्यर्थः॥
शतकं-१६ उद्देशकः-६ समाप्तः
-शतकं-१६ उद्देशकः-७:वृ.षष्ठोद्देशकान्तेगन्धपुद्गलावान्तीत्युक्तं, तेचोपयोगेनावसीयन्तइत्युपयोगस्तद्विशेषभूता पश्यत्ता च सप्तमे प्ररूप्यते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम्
मू. (६८२) कतिविहे णं भंते ! उवओगो पन्नत्ते?, गोयमा ! दुविहे उवओगे पन्नत्ते एवं जहा उवयोगपदं पन्नवणाए तहेव निरवसेसंभाणियव्वं, पासणयापदंच निरवसेसं नेयव्वं । सेवं भंते ! सेवं भंतेत्ति।
वृ. 'कइविहे ण'मित्यादि, ‘एवं जहे'त्यादि, उपयोगपदं प्रज्ञापनायामेकोनत्रिंशत्तमं, तच्चैवं-'तंजहा-सागारोवओगे यअनागारोवओगेय।
सागारोवओगे णं भंते ! कतिविहे पन्नत्ते ?, गोयमा ! अट्टविहे पन्नत्ते, तंजहाआभिनिबोहियनाणसागारोवओगे. सुयनाणसागारोवओगे एवं ओहिनाण० मणपज्जवनाण० केवलनाण० मतिअन्नाणसागारोवओगेसुयअन्नाणसागारोवओगे विभंगनाणसागारोवओगे। ____अनागारावओगे णं भंते ! कतिविहे पन्नत्ते ?, गोयमा ! चउबिहे पन्नत्ते, तंजहाचक्खुदंसणअनागारोवओगे अचक्खुदंसणआनागारोवओगे ओहिदसणअनागारोवओगे केवलदसणअनागारोवओगे'इत्यादि, एतच्च व्यक्तमेव, ‘पासणयापयंचनेयव्वंति पश्यत्तापमिह स्थानेऽध्येतव्यमित्यर्थः, तच्च प्रज्ञापनायां त्रिंशत्तमं, तच्चैवं
'कतविहा णं भंते ! पासणया पन्नत्ता?, गोयमा! दुविहा पासणया पन्नत्ता, तंजहासागारपासणया अनागारपासणया, सागारपासणया णं भंते ! कतिविहा पन्नत्ता?, गोयमा! छविहाप०,तं०-सुयनाणसागारपासणयाएवंओहिनाण० मणनाण० केवलनाण० सुयअन्नाण० विभंगनाणसागारपासणया, अनागारपासाणया णं भंते!। कतिविहा प०?,
__ गोयमा! तिविहा पन्नत्ता, तंजहा-चक्खुदंसणअनागारपासणयाओहिदंसणअणागारपासणया केवलदंसणअनागारपासणया इत्यादि, अस्य चायमर्थः-'पास-णय'त्तिपश्यतोभावः पश्यत्ता-बोधपरिणामविशेषः, ननु पश्यत्तोपयोगयोस्तुल्ये साकाराना-कारभेदत्वेकः प्रतिविशेषः उच्यते, यत्रत्रैकालिकोऽवबोधोऽस्ति तत्र पश्यत्ता यत्रपुनर्वर्तमान कालस्त्रैकालिकश्चतत्रोपयोग इत्ययं विशेषः।
अत एव मतिज्ञानं मत्यज्ञानंच साकारपश्यत्तायां नोक्तं, तस्योत्पन्नाविनष्टार्थग्राहकत्वेन साम्प्रतकालविषयत्वात्, अथ कस्मादनाकारपश्यत्तायांचक्षुर्दर्शनमधीतंन शेषेन्द्रियदर्शनं, उच्यते, पश्यत्ता प्रकृष्टमीक्षणमुच्यते शिरप्रेक्षणे' इति वचनात्, प्रेक्षणंच चक्षुर्दर्शनस्यैवास्तिनशेषाणां, चक्षुरिन्द्रियोपयोगस्य शेषेन्द्रियोपयोगापेक्षयाऽल्पकालत्वात्, यत्र चोपयोगोऽल्पकालस्तत्रेक्षणस्य प्रकर्षो झटित्यर्थपरिच्छेदात्, तदेवं चक्षुर्दर्शनस्यैव पश्यत्ता नेतरस्येति, अयं चार्थ प्रज्ञापनातो विशेषेणावगम्य इति ॥
.. शतकं-१६ उद्देशकः-७ समाप्तः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org