SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ शतकं-१६, वर्गः-, उद्देशकः-२ २०५ तहातेपुग्गला परिणमंति'त्ति तेनतेन प्रकारेण आहारादितयेत्यर्थः ते पुद्गलाः परिणमन्ति, एवं च कर्मपुद्गला अपि जीवानामेव तथा २ परिणमन्तीतिकृत्वा चीयकृतानि कर्माणि । अतो निगम्यते-'नथिअचेयकडा कम्मत्तिन भवन्ति 'अचेतःकृतानि' अचैतन्यकृतानि कर्माणि हे श्रमण ! हे आयुष्मन् ! इति, अथवा 'चेयकडा कम्मा कजंति'त्ति चेयं-चयनं चय इत्यर्थः भावे प्रत्ययविधानात् तत्कृतानि सञ्चयकृतानि पुद्गलसञ्चयरूपाणि कर्माणि भवन्ति, कथम् ?, ‘आहारोवचिया पोग्गला'इत्यादि, आहाररूपा उपचिताः सन्तः पुद्गला भवन्ति, तथा बोन्दिरूपाश्चिताः सन्तः पुद्गला भवन्ति। तथा कडेवररूपाश्चिताः सन्तः पुद्गला भवन्ति, किंबहुना?, तथोच्छ्वासादिरूपतया ते पुद्गलाः परिणमन्ति चयादेवेति शेषः, एवं च न सन्ति 'अचेयकृतानि' असञ्चयकृतानि कर्माणि आहारबोन्दिकडेवरपुद्गलवदिति । तथा 'दुट्ठाणेसुति शीतातपदंशमशकादिक्तेषुकायोत्सर्गासनाद्याश्रयेषु 'दुसेज्जासुत्ति दुःखोत्पादकवसतिषु 'दुन्निसीहियासु'त्ति दुःखहेतुस्वाध्यायभूमिषु तथा २'तेन २ प्रकारेणबहुविधासातोत्पादकतया 'तेपोग्गल'त्ति ते कार्मणपुद्गलाः परिणमन्ति, ततश्चजीवानामेवासातसम्भवात्तैरेवासातहेतुभूतकर्माणिकृतानिअन्यथाऽकृताभ्यागमदोषप्रसङ्गः,जीवकृतत्वे च तेषांचेतः-कृतत्वं सिद्धमतो 'नत्थिअचेयकडा कम्मत्ति, चेयत्याख्यानं त्वेवं नीयते-यतो दुःस्थानादिष्वसात-हेतुतया पुद्गलाः परिणमन्तिअतोनोऽचेयकृतानि कर्माणि-नासञ्चयरूपाणि कर्माणि । . असञ्चयरूपाणामतिसूक्ष्मत्वेनासातोत्पादकत्वासम्भवाद् विषलववदिति, तथा 'आयंके'इत्यादि, 'आतङ्कः' कृच्छ्रजीवितकारी ज्वरादि 'से' तस्य जीवस्य 'वधाय' मरणाय भवति, एवं सङ्कल्पः' भयादिविकल्पः मरणान्तः-मरणरूपोऽन्तो-विनाशो यस्मात्सःमरणान्तःदण्डादिघातः,तत्रच 'तथा २' तेन २प्रकारेणवधजनकत्वेन ते 'पुद्गलाः' आतङ्कादिजनकासातसंवेदनीयसम्बन्धिनः ‘परिणमन्ति' वर्तन्ते। एवं च वधस्य जीवानामेव भावाद् वधहेतवोऽसातवेद्पुद्गला जीवकृताः अतश्चेतः कृतानि कर्माणि न सन्त्यचेतः- कृतानि, चेयव्याख्यानं तु पूर्वोक्तानुसारेणावगन्तव्यमिति ॥ शतकं-१६ उद्देशकः-२ समाप्तः -शतकं-१६ उद्देशकः-३:वृ. द्वितीयोद्देशकान्ते कर्माभिहितं, तृतीयेऽपि तदेवोच्यते, इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् मू. (६७०) रायगिहे जाव एवं वयासी-कति णंभंते! कम्मपयडीओ पन्नत्ताओ?, अट्ठ कम्मपयडीओ-नाणावरणिज्जं जाव अंतराइयं, एवं जाव वेमा० । __ जीवेणं भंते! नाणावरणिचं कम्मं वेदेमाणे कति कम्मपगडीओ वेदेति?, गोयमा! अट्ठ कममप्पगडीओ, एवं जहा पन्नवणाए वेदावेउद्देसओ सोचेव निरवसेसो भाणियव्वो, वेदाबंधोवि तहेव, बंधावेदोवि तहेव, बंधाबंधोवि तहेव भाणियव्वो जाव वेमाणियाणंति । सेवं भंते ! २ जाव विहरति॥ वृ. 'रायगिहे' इत्यादि, ‘एवं जहा पन्नवणाए'इत्यादि, 'वेयावेउद्देसओ'त्ति वेदे वेदने Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003310
Book TitleAgam Suttani Satikam Part 06 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy