________________
शतकं-१६, वर्गः-, उद्देशकः-१
२०१ शरीरमिन्द्रियाणिच तथा वाह्यो हलगन्त्र्यादिपरिग्रहस्तदस्यास्तीत्यधिकरणीजीवः 'अहिकरणंपि'त्ति शरीराद्यधिकरणेभ्यः कथञ्चिदव्यतिरिक्तत्वादधिकरणं जीवः एतच्च द्वयं जीवस्याविरतिं प्रतीत्योच्यतेतेन विरतिमान्असौ शरीरादिभावेऽपिनाधिकरणी नाप्यधिकरणमविरतियुक्तस्यैव शरीरादेरधिकरणत्वादिति । एतदेव चतुर्विंशतिदण्डके दर्शयति
'नेरइए' इत्यादि, अधिकरणी जीव इति प्रागुक्तं, स च दूरवर्त्तिनाऽप्यधिकरणेन स्याद् यथा गोमान् इत्यतः पृच्छति-'जीवे ण'मित्यादि, 'साहिग- रणि'त्ति सह-सहभाविनाऽधिकरणेन-शरीरादिना वर्तत इति समासान्तेन्विधि साधिकरणी, संसारिजीवस्य शरीरेन्द्रियरूपाधिकरणस्य सर्वदेव सहचारित्वात् साधिकरणत्वमुपदिश्यते, शस्त्राद्यधिकरणापेक्षया तु स्वस्वाभिभावस्य तदविरतिरूपस्य सहवर्तित्वाज्जीवः साधिकरणीत्युच्यते, अत एव वक्ष्यति । ___'अविरइंपडुच्च'त्ति, अतएव संयतानांशरीरादिसद्भावेऽप्यविरतेरभावान्न साधिकरणित्वं, 'निरहिगरणि'त्ति निर्गतमधिकरणमस्मादिति निरधिकरणी समासान्तविधेः अधिकरणदूरवतीत्यर्थः, सचनभवति, अविरतेरधिकरणभूतायाअदूरवर्त्तित्वादिति,अथवा सहाधिकरणिभिःपुत्रमित्रा-दभिर्वर्त्ततइतिसाधिकरणी,कस्यापि जीवस्यपुत्रादीनामभावेऽपितद्विषयविरतेरभावात्साधिकरणित्वमवसेयमत एव नो निरधिकरणीत्यपि मन्तव्यमिति ।
अधिकरणाधिकारादेवेदमाह 'जीवेण'मित्यादि, 'आयाहिगरणित्ति अधिकरणी कृष्यादिमान् आत्मनाऽधिकरणी आत्माधिकरणी, ननु यस्य कृप्यादि नास्तिस कथमधिकरणीति?, अत्रोच्यते, अविरत्यपेक्षयेति, अत एवाविरतिं प्रतीत्येति वक्ष्यति, ‘पराहिगरणि'त्ति परतःपरेषामधिकरणेप्रवर्त्तनेनाधिकरणीपराधिकरणी, 'तदुभयाहिगरणिति तयोः-आत्मपरयोरुभयं तदुभयं ततोऽधिकरणी यः स तथेति। .
अथाधिकरणस्यैव हेतुप्ररूपणार्थमाह-'जीवाण'मित्यादि, 'आयप्पओगनिव्वततिए'त्ति आत्मनः प्रयोगेण-मनःप्रभतिव्यापारेण निर्वर्तितं-निष्पादितं यत्तत्तथा, एवमन्यदपिद्वयम् ।
· ननुयस्यवचनादिपरप्रवर्तनं वस्तुनास्तितस्य कथंपरप्रयोगनिवर्तितादि भविष्यतीत्याशकामुपदर्श्य परिहरन्नाह-‘से केण'मित्यादि, अविरत्यपेक्षया त्रिविधमप्यस्तीति भावनीयमिति अथ शरीराणामिन्द्रियाणां योगानां च निर्वर्तनाया जीवादेरधिकरणित्वादि प्ररूपयन्निदमाह
मू. (६६५) कइ णं भंते ! सरीरगा पन्नत्ता?, गोयमा ! पंच सरीरा पण्णत्ता, तंजहाओरालिए जाव कम्मए । कतिणं भंते ! इंदिया पन्नत्ता?, गोयम! पंच इंदिया पन्नत्ता, तंजहासोइंदिए जाव फासिदिए, कतिविहे णं भंते ! जोए पन्नत्ते?, गोयमा ! तिविहे जोए पन्नत्ते, तंजहा-मणजोए वइजोए कायजोए।
जीवे णं भंते ! ओरालियसरीरं निव्वत्तेमाणे किं अधिकरणी अधिकरणं?, गोयमा! अधिकरणीवि अधिकरणंपि, से केणढेणं भंते ! एवं वुच्चइ अधिकरणीवि अधिकरणंपि?, गोयमा! अविरतिं पडुच्च, से तेणटेणं जाव अधिकरणंपि, पुढविकाइएणंभंते ! ओरालियसरीरं निव्वत्तेमाणे किं अधिकरणी अधिकरणं?, एवं चेव, एवं जाव माणुस्से।
एवं वेउव्वियसरीरंपि, नवरंजस्सअस्थि । जीवेणंभते! आहारगसरीरं निव्वत्तेमाणे किं अधिकरणी? पुच्छा, गोयमा ! अधिकरणीविअधिकरणंपि, से केणटेणंजाव अधिकरणंपि?,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org