________________
शतकं - १४, वर्गः, उद्देशकः -७
कालएवि एवं तुल्लअनंतगुणकालएवि ।
जहा काल एवं नीलए लोहियए हालिद्दे सुक्कल्ले, एवं सुब्भिगंधे एवं दुब्भिगंधे, एवं तित्ते जाव महुरे, एवं कक्खडे जाव लुक्खे, उदइए भावे उदइयस्स भावस्स भावओ तुल्ले उदइए भावे उदइयभाववइरित्तस्स भावस्स भावओ नो तुल्ले, एवं उवसमिए० खइए० खओवसमिए० पारिणामिए० संनिवाइए भावे संनिवाइयस्स भावस्स, से तेणेणं गो० ! एवं वुच्चइ भावतुल्लए २ ।
सेकेणट्टेणं भंते! एवं वुच्चइ संठाणतुल्लए २ ?, गोयमा ! परिमंडले संठाणे परिमंडलस्स संठाणसस संठाणओ तुल्ले परिमंडलसंठाणवइरित्तस्स संठाणओ नो तुल्ले एवं वट्टे तंसे चउरंसे आयए, समचउरंससंठाणे समचउरंसस्स संठाणस्स संठाणओ तुल्ले समचउरंसे संठाणे समचउरंससंठाणवइरित्तस्स संठाणस्स संठाणओ नो तुल्ले एवं परिमंडले एवं जाव हुंडे, से तेण० जाव संठाणतुल्लए सं० २ ॥
वृ. 'कइविहे' इत्यादि, तुल्यं समं तदेव तुल्यकं 'दव्वतुल्लए' त्ति द्रव्यतः - एकाणुकाद्यपेक्षया तुल्यकं द्रव्यतुल्यकम् अथवा द्रव्यं च तत्तुल्यकं च द्रव्यान्तरेणेति द्रव्यतुल्यकं विशेषणव्यत्ययात्, 'खेत्ततुल्लए 'त्ति क्षेत्रतः - एकप्रदेशावगाढत्वादिना तुल्यकं क्षेत्रतुल्यकम्, एवं शेषाण्यपि, नवरं भवो - नारकादिः भावो-वर्णादिरौदयिकादिर्वा संस्थानं - परिमण्डलादि, इह च तुल्यव्यतिरिक्तमतुल्यं भवतीति तदपीह व्याख्यास्यते, 'तुल्लंखेज्जपएसिए' त्ति तुल्या-समानाः सङ्खयेयाः प्रदेशा यत्र स तथा, तुल्यग्रहणमिह सङ्ख्यातत्वस्य सङ्ख्यातभेदत्वान्न सङ्ख्यातमात्रेण तुल्यताऽस्य स्याद् अपि तु समानसङ्ख्यत्वेनेत्यस्यार्थः स्य प्रतिपादनार्थः म्, एवमन्यत्रापीति, यच्चेहानन्तक्षेत्र प्रदेशावगाढ- त्वमनन्तसमयस्थायित्वं च नोक्तं तदवगाहप्रदेशानां स्थितिसमयानां च पुद्गलानाश्रित्या- नन्तानामभावादिति ।
१५१
'भवट्टयाए 'त्ति भव एवार्थी भवार्थः स्तद्भावस्तत्ता तया भवार्थः तया, 'उदइए भावे' त्ति उदयः - कर्म्मणां विपाकः स एवौदयिकः - क्रियामात्रं अथवा उदयेन निष्पन्नः औदयिको भावोनारकत्वादिपर्यायविशेषः औदयिकस्य भावस्य नारकत्वादेर्भावतो - भावसामान्यमाश्रित्य तुल्यः-समः, ‘एवंउवसमिए' त्ति औपशमिकोऽप्येवं वाच्यः, तथाहि - 'उवसमिए भावे उवसमियस्स भावस्स भावओ तुल्ले उवसमिए भावे उवसमियवइरित्तस्स भावस्स भावओ नो तुल्ले'त्ति, एवं शेषेष्वपि वाच्यं ।
तत्रोपशमः - उदीर्णस्य कर्म्मणः क्षयोऽनुदीर्णस्य विष्कम्भितोदयत्वं स एवौपशमिक:क्रियामात्रं उपशमेन वा निर्वृत्तः औपशमिकः सम्यग्दर्शनादि, 'खइए' त्ति क्षयः - कर्माभावः स एव क्षायिक क्षयेण वा निर्वृत्तः क्षायिकः - केवलज्ञानादि, 'ओवसमिए' त्तिक्षयेण - उदयप्राप्तकर्मणो विनाशेन सहोपशमो - विष्कम्भितोदयत्वं क्षयोपशमः स एव क्षायोपशमिक:- क्रियामात्रमेव क्षयोपशमेन व निर्वृत्तः क्षायोपशमिकः - मतिज्ञानादिपर्यायविशेषः, नन्वौपशमिकस्य क्षायोपशमिकस्य च कः प्रतिविशेषः, उभयत्राप्युदीर्णस्य क्षयस्यानुदीर्णस्य चोपशमस्य भावात् उच्यते, क्षायोपशमिके विपाकवेदनमेव नास्ति प्रदेशवेदनं पुनरस्त्येव, औपशमिके तु प्रदेशवेदनमपि नास्तीति, 'पारिणामिए 'त्ति परिणमनं परिणामः स एव पारिणामिकः, 'सन्निवाइए 'त्ति सन्निपातः - औदयिकादिभावानां द्वयादिसंयोगस्तेन निर्वृत्तः सन्निपातिकः ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org