SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ भगवती अङ्गसूत्रं (२) १४/-/७/६२० 'संठाणतुल्लए' त्ति संस्थानं-आकृतिविशेषः, तच्च द्वेधा - जीवाजीवभेदात्, तत्राजीवसंस्थानं पञ्चधा, तत्र 'परिमंडले संठाणे' त्ति परिमण्डलसंस्थानं बहिस्तावृत्ताकारं मध्ये शुषिरं यथा वलयस्य, तच्च द्वेधा - घनप्रतरभेदात्, 'वट्टे'त्ति वृत्तं - परिमण्डलमेवान्तः शुषिररहित यथा कुलालचक्रस्य, इदमपि द्वेधा- धनप्रतरभेदात्, पुनरेकैकं द्विधा - समसङ्घयविषमसङ्घयप्रदेशभेदात्, एवं त्र्यनं चतुरंच, नवरनं 'त्र्यनं' त्रिकोणं श्रृङ्गाटकस्येव चतुरं तु चतुष्कोणं यथा कुम्मिकायाः, आयतदीर्घ यथा दण्डस्य, तच्च त्रेधा श्रेण्यायतप्रतरायतघनायतभेदात्, पुनरेकैकं द्विधा - समसङ्घयविषमसङ्घयप्रदेशभेदात्, इदं च पञ्चविधमपि विश्रसाप्रयोगाभ्यां भवति । १५२ जीवसंस्थानं तु संस्थानाभिधाननामकम्र्मोत्तरप्रकृत्युदयसम्पाद्यो जीवानामाकारः, तच्च षोढा, तत्राद्यं 'समचउरंसे' त्ति तुल्यारोहपरिणाहं सम्पूर्णाङ्गावयवं स्वाङ्गलाष्टशतोच्छ्रयं समचतुरस्रं, तुल्यारोहपरिणाहत्वेन समत्वात् पूर्णावयवत्वेन च चतुरत्वात्तस्य, चतुरं सङ्गतमिति पर्यायौ, एवं परिमंडलेवि' त्ति यथा समचतुरस्रमुक्तं तथा न्यग्रोधपरिमण्डलमपीत्यर्थः, न्यग्रोधो - वटवृक्षस्तद्वत्परिमण्डलं नाभीत उपरि चतुरस्रलक्षणयुक्तमधश्च तदनुरूपं न भवति तस्मात्प्रमाणाद्धीनतरमिति, 'एवं जाव हुंडे' त्ति इह यावत्करणात् 'साई खुजे वामणे' त्ति ध्यं तत्र 'साइ' ति सादि नाभीतोऽधश्चतुरलक्षणयुक्तमुपरि च तदनुरूपं न भवति, 'खुज्जी 'त्ति कुजं ग्रीवादी हस्तपादयोश्चतुर- श्रलक्षणयुक्तं सङ्क्षिप्तविकृतमध्यं, 'वामणे' ति वामनं लक्षणयुक्तमध्यं ग्रीवादी हस्तपादयोरप्या- दिलक्षणन्यूनं, 'हुंडे' त्ति हुण्डं प्रायः सर्वावययेष्वादिलक्षणविसंवादोपेतमिति । अनन्तरं संस्थानवक्तव्यतोक्ता, अथ संस्थानवतोऽनगारस्य वक्तव्यताविशेषमभिधातुकाम आह मू. (६२१) भत्तपच्चक्खाए णं भंते! अनगारे मुच्छिए जाव अज्झोववन्ने आहारमाहारेति अहे णं वीससाए कालं करेति तओ पच्छा अमुच्छिए अगिद्धे जाव अणज्झोववन्ने आहारमाहारेति ?, हंता गोयमा ! भत्तपच्चक्खायए णं अनगारे तं चेव । सेकेणट्टेणं भंते! एवं वु० भत्तपच्चक्खायए णं तं चैव ?, गोयमा ! भत्तपच्चक्खायए णं अनगारे मुच्छिए जाव अज्झोववन्ने भवइ अहे णं वीससाए कालं करेइ तओ पच्छा अमुच्छिए जाव आहारे भवइ से तेणट्टेणं गोयमा ! जाव आहारमाहारेति ॥ वृ. 'भत्ते 'त्यादि, तत्र 'भत्तपचक्खये णं' ति अनशनी 'मूर्च्छितः ' सञ्जातमूर्च्छा:जाताहारसंरक्षणानुबन्धः तद्दोषविषये वा मूढः 'मूर्च्छा मोहसमुच्छाययोः' इति वचनात् यावत्करणादिदं दृश्यं–‘गढिए’ ग्रथित आहारविषयस्नेहतन्तुभि संदर्भितः ग्रन्थ श्रन्थ संदर्भे इति वचनात् 'गिद्धे' गृद्धः प्राप्ताहारे आसक्तोऽ तृप्तत्वेन वातदाकाङ्क्षावान् गृध अभिकाङ्क्षायाम' इति वचनात् ‘अज्झोववन्ने’त्ति अद्युपपन्नः- अप्राप्ताहार चिन्तामाधिक्येनोपपन्नः । 'आहारं' वायुतैलाभ्यङ्गादिकमोदनादिकं वाऽभ्यवहार्यं तीव्रक्षुद्वेदनीयकर्मोदयादसमाधौ सति तदुपशमनाय प्रयुक्तम् ‘आहारयति' उपभुङ्क्ते ‘अहेणं' ति 'अथ' आहारानन्तरं 'विश्रसया' स्वभावत एव ‘कालं’ति कालो - मरणं काल इव कालो मारणान्तिकसमुद्घातस्तं 'करोति' याति 'तओ पच्छ’त्ति ततो-मारणान्तिकसमुद्घातात् पश्चात् तस्मान्निवृत्त इत्यर्थः अमूर्च्छितादिविशेषणविशेषित आहारमाहारयति प्रशान्तपरिणामसद्भावादिति प्रश्नः, For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003310
Book TitleAgam Suttani Satikam Part 06 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy