SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ १४४ भगवतीअङ्गसूत्रं १४/-1५/६१२ ___ अर्थःश्चास्या उद्देशकार्थावगमगम्य इति, नोखलु तत्थसत्थंकमइति विग्रहगतिसमापनो हि कार्मणशरीरत्वेन सूक्ष्मः, सूक्ष्मत्वाच्च तत्र 'शस्त्रम्' अग्न्यादिकं न कामति । 'तत्थणंजेसे'इत्यादि, अविग्रहगतिसमापन्नउत्पत्तिक्षेत्रोपपन्नोऽभिधीयतेनतुऋजुगतिसमापन्नः तस्येह प्रकरणेऽनधिकृतत्वात्, स चाग्निकायस्य मध्येन न व्यतिव्रजति, नारकक्षेत्रे बादराग्निकायस्याभावात्, मनुष्यक्षेत्र एव तद्भावात्, यच्चोत्तराध्ययनादिषुश्रूयते-“हुयासणे जलंतंमि दडपुव्वो अनेगसो।" इत्यादि तदग्निसशद्रहव्यान्तरापेक्षयाऽवसेयं, संभवन्ति च तथाविधशक्तिमन्ति द्रव्याणि तेजोलेश्याद्रव्यवदिति। असुरकुमारसूत्रे विग्रहगतिको नारकवत्,अविग्रहगतिकस्तुकोऽप्यग्नेमध्येन व्यतिव्रजेत् यो मनुष्यलोकमागच्छति, यस्तुन तत्रागच्छति असौ न व्यतिव्रजेत्, व्यतिव्रजन्नपिचनध्यायते ध्यायते वा, यतो न खलु तत्र शस्त्रं क्रमते सूक्ष्मत्वाद्वैक्रयशरीरस्य शीघ्रत्वाच्च तद्गतेरिति । ‘एगिदियजहानेरइय'त्ति, कथम्?,यतोविग्रहे तेऽप्यग्निमध्येन व्यतिव्रजन्ति सूक्ष्मत्वान्न दह्यन्तेच, अविग्रहगतिसमापनकाश्चतेऽपि नाग्नेमध्येन व्यतिव्रजन्ति स्थावरत्वात्, तेजोवायूनां गतिसतयाऽग्नेमध्येन व्यतिव्रजनं यद्दश्यते तदिहन विवक्षिमिति सम्भाव्यते, स्थावरत्वमात्रस्यैव विवक्षितत्वात्, स्थावरत्वे हि अस्ति कथञ्चित्तेषां गत्यभावो यदपेक्षया स्थावरास्ते व्यपदिश्यन्ते, अन्यथाऽधिकृतव्यपदेश्य निर्निबन्धनता स्यात्, तथा तद्वाय्वादिपारतन्त्रेण पृथिव्यादीनामग्निमध्येन व्यतिव्रजनं श्यते तदिह न विवक्षितं, स्वातन्त्र्यकृतस्यैवतस्यविवक्षणात्, चूर्णिकारः पुनरेवमाह ‘एगिदियाण गईनस्थित्तितेन गच्छन्ति,एगेवाउक्काइया परपेरणेसुगच्छंतिविराहिज्जंति य'त्ति, पञ्चेन्द्रियतिर्यक्सूत्रे ‘इटिप्पत्ता य'त्ति वैक्रियलब्धिसम्पन्नाः ‘अत्थेगइए अगनिकायस्से'त्यादि, अस्त्येककः कश्चित् पञ्चेन्द्रियतिर्यगयोनिको योमनुष्यलोकवर्तीस तत्राग्निकायसम्भवात्तन्मध्येनव्यतिव्रजेत्, यस्तु मनुष्यक्षेत्राद्वहिर्नासावग्नेमध्येन व्यतिव्रजेत्, अग्नेरेवतत्राभावात्, तदन्यो वातथाविधसामायभावात्, ‘नो खलु तत्थ सत्थंकमइत्ति वैक्रियादिलब्धिमतिपञ्चेन्द्रियतिरश्चि नाग्न्यादिकं शस्त्रं क्रमत इति ।। अथ दश स्थानानीति द्वारमभिधातुमाह मू. (६१३) नेरतिया दस ठाणाइंपञ्चणुब्भवमाणा विहरंति, तंजहा-अनिट्ठा सद्दा अनिट्ठा रूवा अनिट्ठा गंधा अनिट्ठा रसा अनिट्ठा फासा अनिट्ठा गती अनिट्ठा ठिती अनिटे लावन्ने अनिटे जसे कित्ती अनिटे उट्ठाणकम्मबलवीरियपुरिसक्कारपरक्कमे। असुरकुमारा दस ठाणाई पच्छणुब्भवमाणा विहरंति, तंजहा-इट्ठा सद्दा इट्ठा रूवा जाव इढे उहाणकम्मबलवीरियपुरिसक्कारपरक्कमे एवं जाव थणियकुमारा । पुढविक्काइयाछट्ठाणाई पच्चणुब्भवमाणा वि०, तं०-इट्ठानिट्ठा फासा इट्ठानिट्ठा गती एवं जाव परक्कमे, एवं जाव वणस्सइकाइया। बेइंदिया सत्तहाणाइंपच्चणुब्भवमाणाविहरंति, तंजहा-इट्ठानिट्ठा रसासेसंजहा एगिदियाणं, तेदिया णं अट्ठाणाइं पचणुभवमाणा वि०, तं०-इट्ठानिट्ठा गंधा सेसंजहा बेदियाणं चउरिदिया नवट्ठाणाई पच्चणुब्भवमाणा विहरंति, तं०-इट्ठानिट्ठा रूवा 'सेसं जहा तेंदियाणं । पंचिंदियतिरिक्खजोणिया दसठाणाई पच्चणुब्भवमाणा विहरंति, तंजहा-हानिहा सद्दा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003310
Book TitleAgam Suttani Satikam Part 06 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy