________________
शतकं - १४, वर्गः, उद्देशकः - ४
त्वसम्भवादिति ।
अनन्तरं पुद्गलस्वरूपं निरूपितं, पुद्गलश्च स्कन्धोऽपि भवतीति पुद्गलभेदभूतस्य स्कन्धस्य स्वरूपं निरूपयन्नाह - 'एस णं भंते! खंधे' इत्यादि ॥ स्कन्धश्च स्वप्रदेशापेक्षया जीवोऽपि स्यादितीत्थमेव जीवस्वरूपं निरूपयन्नाह
१४१
मू. (६०८) एस णं भंते! जीवे तीतमनंतं सासयं समयं दुक्खी समयं अदुक्खी समयं दुक्खी वा अदुक्खी वा ? पुव्विं च करणेणं अनेगभूयं परिणामं परिणमइ अह से वेयणिज्जे निज्जिन्ने भवति तओ पच्छा एगभावे एगभूए सिया ?, हंता गोयमा ! एसणं जीवे जाव एगभूए सिया, एवं पडुप्पन्नं सासयं समयं, एवं अनागयमनंतं सासयं समयं ॥
वृ. 'एसणं भंते! जीवे' इतयादि, 'एषः ' प्रत्यक्षो जीवोऽतीतेऽनन्ते शाश्वते समये समयमेकं दुःखी दुःखहेतुयोगात् समयं चादुःखी सुखहेतुयोगाद्बभूव समयमेव च दुःखी वाऽदुःखी वा, वाशब्दयोः समुच्चर्यार्थःत्वाद् दुःखी च सुखी च तद्धेतुयोगात्, न पुनरेकदा सुखदुःखवेदनमस्ति एकोपयोगत्वा जीवस्येति, एवंरूपश्च सन्नसौ स्वहेतुतः किमनेकभावं परिणामं परिणमति पुनश्चैकभावपरिणामः स्यात् ? इति पृच्छन्नाह
'पुव्विं च करणेणं अनेगभावं अनेगभूयं परिणामं परिणमइ' 'पूर्वं च ' एकभावपरिणामाठ्प्रागेव करमेन कालस्वभावादिकारणसंवलिततया शुभाशुभकर्मवन्धहेतुभूतयाक्रिययाऽनेको भावः - पर्यायो दुःखित्वादिरूपो यस्मिन् स तथा तमनेकभावं परिणाममिति योगः 'अनेगभूयं' ति अनेकभावत्वादेवानेकरूपं 'परिणामं' स्वभावं 'परिणमइ'त्ति अतीतकालविषयत्वादस्य 'परिण - तवान्' प्राप्तवानिति ।
'अह से 'त्ति अथ 'तत्' दुःखितत्वाद्यनेकभावहेतुभूतं 'वेयणिज्जे' त्ति वेदनीयं कर्म्म उपलक्षणत्वाच्चास्य ज्ञानावरणीयादि च 'निर्जीर्णं' क्षीणं भवति ततः पश्चात् 'एगभावे' त्ति एको भावः सांसारिकसुखविपर्ययात् स्वाभाविकसुखरूपो यस्यासावेकभावोऽत एव 'एकभूतः ' एकत्वं प्राप्तः 'सि' त्ति बभूव कर्म्मकृतधर्म्मान्तरविरहादिति प्रश्नः, इहोत्तरमेतदेव ।
एवं प्रत्युत्पन्नानागतसूत्रे अपीति । पूर्वं स्कन्ध उक्तः, स च स्कन्धरूपत्यागाद्विनाशी भवति, एवं परमाणुरपि स्यान्न वा ? इत्याशङ्कायामाह -
मू. (६०९) परमाणुपोग्गले णं भंते! किं सासए असासए ?, गोयमा ! सिय सासए सिय असासए, सेकेणणं भंते! एवं वुच्चइ सिय सासए सिय असासए ?, गोयमा ! दव्वट्टयाए सासए वन्नपज्जवेहिं जाव फासपज्जवेहिं असासए से तेणद्वेणं जाव सिय सासए सिंय असासए ।
वृ. 'परमाणुपोग्गले णं' ति पुद्गलः स्कन्धोऽपि स्यादतः परमाणुग्रहणं 'सासए 'त्तिशश्वद्भवनात् 'शाश्वतः’ नित्यः अशाश्वतस्त्वनित्यः 'सिय सासए' त्ति कथञ्चिच्छाश्वतः 'दव्वट्टयाए' ति द्रव्यं - उपेक्षितपर्यायं वस्तु तदेवार्थो द्रव्यार्थः स्तद्भावस्तत्ता तया द्रव्यार्थः तया शाश्वतः स्कन्धान्तर्भावेऽपि परमाणुत्वस्याविनष्टत्वात् प्रदेशलक्षणव्यपदेशान्तरव्यपदेश्यत्वात् ।
'वन्नपज्जवेहिं'ति परि-सामस्त्येनावन्ति - गच्छन्ति ये ते पर्यवा विशेषा धर्म्मा इत्यनर्थान्तरं तेच वर्णादिभेदादनेकध्येत्यतो विशेष्यते-वर्णस्य पर्यवा वर्णपर्यवा अतस्तैः, 'असासए' त्ति विनाशी, पर्यवाणां पर्यवत्वेनैव विनश्वरत्वादिति ।। परमाण्वधिकारादेवेदमाह ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org