SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ १४० भगवती अङ्गसूत्रं (२) १४/-/४/६०७ -: शतकं-१४ उद्देशकः-४: वृ. तृतीयोद्देशके नारकाणां पुद्गलपरिणाम उक्त इति, चतुर्थोद्देशकेऽप पुद्गलपरिणामविशेष एवोच्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् - मू. (६०७) एस णं भंते! पोग्गले तीतमनंतं सासयं समयं लुक्खी समयं अलुक्खी समयं लुक्खी वा अलुक्खी वा ? पुव्विं च णं करणेणं अनेगवन्नं अनेगरूवं परिणामं परिणमति ?, अह से परिणामे निज्जिन्ने भवति तओ पच्छा एगवन्ने एगरूवे सिया ?, हंता गोयमा ! एस णं पोग्गले तीते तं चेव जाव एगरूवे सिया । एस णं भंते! पोग्गले पडुप्पन्नं सासयं समयं ? एवं चेव, एवं अनागयमनंतंपि ॥ एस णं भंते! खंधे तीतमनंतं ? एवं चेव खंधेवि जहा पोग्गले ॥ 119 11 वृ. 'एस णं भंते!' इत्यादि, इह पुनरुद्देशकार्थः सङ्ग्रहगाथा क्वचिद् दृश्यते, सा चेयं“पोग्गल १ खंधे २ जीवे ३ परमाणू ४ सासए य ५ चरमे य । दुविहे खलु परिणामे अजीवाणं च जीवाणं ६ ॥” अस्याश्चार्थः उद्देशकार्थाधिगमावगम्य एवेति, पुग्गले' त्ति पुद्गलः परमाणुः स्कन्धरूपश्च ‘तीतमनंतं सासयं समयं’ति विभक्तिपरिणामादतीते अनन्ते अपरिमाणत्वात् शाश्वते अक्षयत्वात् 'समये' काले 'समयं लुक्खी'ति समयमेकं यावद्रूक्षस्पर्शसद्भावाद्र्क्षी । तथा 'समयं अलुक्खी' त्ति समयमेकं यावदरूक्षस्पर्शसद्भावाद् 'अरूक्षी' स्निग्धस्पर्शवान् बभूव, इदं च पदद्वयं परमाणौ स्कन्धे च संभवति, तथा 'समयं लुक्खी वा अलुक्खी व 'त्ति समयमेव रूक्षश्चारूक्षश्च रूक्षस्निग्धलक्षणस्पर्शद्वयोपेतो बभूव, इदं च स्कन्धापेक्षं यतो द्वयणुकादिस्कन्धे देशो रूक्षो देशश्चारूक्षो भवतीत्येवं युगपद्रूक्षस्निग्धस्पर्शसम्भवः, वाशब्दौ चेह समुच्चयार्थी, एवंरूपश्च सन्नसौ किमनेकवर्णादिपरिणामं परिणमति पुनश्चैकवर्णादिपरिणामः स्यात् ? इति पृच्छन्नाह 'पुव्विं च णं करणेणं अनेगवन्नं अनेगरूवं परिणामं परिणमइ' इत्यादि, 'पूरुवं च' एकवर्णादिपरिणामाप्रागेव 'करणेन' प्रयोगकरणेन विश्रसाकरणेन वा 'अनेकवर्णं' कालनीलादिवर्णभेदेनानेकरूपं गन्धरसस्पर्शसंस्थानभेदेन 'परिणाम' पर्यायं परिणमति अतीकालविषयत्वादस्य परिणतवानिति द्रष्टव्यं पुद्गल इति प्रकृतं, सच यदि परमाणुस्तदा समयभेदेनानेकवर्णादित्वं परिणतवान्, यदि च स्कन्धस्तदा यौगपद्येनापीति । 'अह से 'त्ति 'अथ' अनन्तरं सः - एष परमाणोः स्कन्धस्य चानेकवर्णादिपरिणामो 'निर्जीर्ण' क्षीणो भवति परिणामान्तराधायककारणोपनिपातवशात् 'ततः पश्चात्' निर्जरणानन्तरम् 'एकवर्ण' अपेतवर्णान्तरत्वादेकरूपो विवक्षितगन्धादिपर्यायापेक्षयाऽपरपर्यायाणामपेतत्वात् 'सिय'त्ति बभूव अतीतकालविषयत्वादस्येति प्रश्नः, इहोत्तरमेतदेवेति, अनेन च परिणामिता पुद्गलद्रव्यस्य प्रतिपादितेति । ‘एसण’मित्यादि वर्त्तमानकालसूत्रं, तत्र च 'पडुप्पन्नं' ति विभक्तिपरिणामात् 'प्रत्युत्पन्ने' वर्त्तमाने 'शाश्वते' सदैव तस्य भावात् 'समये' कालमात्रे 'एवं चेव' त्ति करणात्पूर्वसूत्रोक्तमिदं दृश्यं-'समयं लुक्खी समयं अलुक्खी समयं लुक्खी वा अलुक्खी वा' इत्यादि, यच्चेहानन्तमिति नाधीतं तद्वर्त्तमानसमयस्यानन्तत्वासम्भवात्, अतीतानागतसूत्रयास्त्वनन्तामत्यघीत तयोरनन्त For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003310
Book TitleAgam Suttani Satikam Part 06 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy