________________
१३२
भगवतीअङ्गसूत्रं (२) १४/-/१/५९७ इदं सामान्यं देवावांसमाश्रित्योक्तं । अथ विशेषितं तमेवाश्रित्याह- 'अनगारे णमित्यादि, ननु योभावितात्माऽनगारःस कथमसुरकुमारेषूत्पत्स्यते विराधितसंयमानांतत्रोत्पादादिति, उच्यते, पूर्वकालापेक्षया भावितात्मत्वम्, अन्तकाले च संयमविराधनासद्भावादसुरकुमारादितयोपपात इति न दोषः, बालतपस्वी वाऽयं भावितात्मा द्रष्टव्य इति।
अनन्तरं देवगतिरुक्तेति गत्यधिकारान्नारकगतिमाश्रित्याह-'नेरइयाण' मित्यादि, कहं सीहा गइ'त्ति 'कथं' केन प्रकारेण कीदृशीत्यर्थः शीघ्रा गतिः, नारकाणामुत्पद्यमानानां शीघ्रा गतिर्भव-तीति प्रतीतं, याशेन च शीघ्रत्वेन शीघ्राऽसाविति च न प्रतीतमित्यतः प्रश्नः कृतः।
_ 'कहंसीहेगइविसए'त्तिकथमितिकीशः 'सीहे त्तिशीघ्रगतिहेतुत्वाच्छीघ्रोगतिविषयोगतिगोचरस्तद्धेतुत्वात्काल इत्यर्थः, कीशी शीघ्रा गति? कीशश्च तत्कालः? इति तात्पर्यं, 'तरुणे'त्ति प्रवर्द्धमानवः, स च दुर्बलोऽपि स्यादत आह-'बलवं'ति.शारीरप्राणवान्, बलं च कालविशेषाद्विशिष्टं भवतीत्यत आह
'जुगवंतियुगं-सुषमदुष्षमादि कालविशेषस्तत्प्रशस्तं विशिष्टबलहेतुभूतं यस्यास्त्यसौ युगवान्, यावत्करणादिदं दृश्यं–'जुवाणे' वयःप्राप्तः ‘अप्पायंके' अल्पशब्दस्याभावार्थःत्वादनातको-नीरोगः 'थिरग्गहत्थे स्थिराग्रहस्तः सुलेखकवत् 'दढपाणिपायपासपिटुंतरोरुपरिणए' दृढं पाणिपादं यस्य पाश्र्वी पृष्ठन्तरेच ऊरूच परिणते-परिनिष्ठिततां गते यस्य स तथा उत्तमसंहनन इत्यर्थः, 'तलजमलजुयलपरिधनिभबाहू तलौ-तालवृक्षौ तयोर्यमलं-समश्रेणीकं यद् युगलं-द्वयं परिघश्च–अर्गला तन्निभौ-तत्सदृशौ दीर्घसरलपीनत्वादिना बाहू यस्य स तथा।
_ 'चम्मेठ्ठदुहणमुट्ठियसमाहयनिचियगायकाए' चर्मेष्टया द्रुघणेन मुष्टिकेन च समाहतानि अभ्यासप्रवृत्तस्य निचितानि गात्राणि यत्र स तथाविधःकायो यस्यसतथा, चर्मेष्टादयश्च लोकप्रतीताः, ओरसबलसमन्नागए' आन्तरबलयुक्तः 'लंघणपवणजइणवायामसमत्थे' जविनशब्दःशीघ्रवचनः 'छेए' प्रयोगज्ञः 'दक्खे' शीघ्रकारी ‘पत्तट्टे' अधिकृतकम्मणि निष्ठां गतः 'कुसले' आलोचितकारी 'मेहावी' सकृतश्रुतदृष्टकर्मज्ञः 'निउणे' उपायारम्भकः, एवंविधस्यहि पुरुषस्य शीघ्रं गत्यादिकं भवतीत्यतो बहुविशेषणोपादानमिति।।
___ 'आउंटियंति सङ्कोचितं 'विक्खिन्न'ति 'विकीर्णां प्रसारितां 'साहरेजत्ति “साहरेत्' सङ्कोचयेत् 'विक्खिरेज्जत्ति विकिरेत्-प्रसारयेत् ‘उम्मिसिय'ति 'उन्मिषितम्' उन्मीलितं 'निमिसेज'त्ति निमीलयेत्, 'भवेयारूवे'त्ति काक्वाध्येयं, काकुपाठे चायमर्थः स्यात् यदुतैवं मन्यसेत्वं गौतम! भवेत्तद्रूपं भवेत्स स्वभावःशीघ्रतायां नरकगतेस्तद्विषस्य च यदुक्तं विशेषणपुरुष- बाहुप्रसारणादेरिति, एवं गौतममतमाशङ्कय भगवानाह-नायमर्थः समर्थं, अथ कस्मादेवमित्याह
मू. (५९८) नेरइयाणं भंते ! कहं सीहा गति कहं सीहे गतिविसए पन्नत्ते?
गोयमा! से जहानामए-केइपुरिसे तरुणेबलवंजुगवंजाव निउणसिप्पोवगए आउट्टियं बाहं पसारेज्जापसारियंवा बाहं आउंटेजा विक्खिण्णं वा मुहिँसाहरेजा साहरियंवा मुढि विक्खिरेज्जा उन्निमिसियं वा अछिं निम्मिसेज्जा निम्मिसियं वा अच्छि उम्मिसेज्जा, भवे एयासवे?, नोतिणद्वे समढे, नेरइया णं एगसमएण वा दुसमएण वा विसमएण वा विग्गहेणं उववजंति । Jain Education International
For Private & Personal Use Only
www.jainelibrary.org