SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ शतकं-१४, वर्गः-, उद्देशक: वृ. ‘चरउम्माद सरीरे’इत्यादि, तत्र 'चर' त्ति सूचामात्रत्वादस्य चरमशब्दोपलक्षितोऽपि चरमः प्रथम उद्देशकः, 'उम्माय' त्ति उन्मादार्थाभिधायकत्वादुन्मादोद्वितीयः, 'सरीरे' त्तिशरीरशब्दोपलक्षित्वाच्छरीरस्तृतीयः, ‘पुग्गल 'त्ति पुद्गलार्थाभिधायकत्वात्पुद्गलश्चतुर्थः । 'अगणी 'ति अग्निशब्दोपलक्षितत्वादग्नि पञ्चमः, किमाहारे' त्ति किमाहार इत्येवंविधप्रश्नोपलक्षितत्वात्किमाहारः षष्ठः, 'संसिट्ठ' त्ति 'चिरसंसिट्ठोऽसि गोयम' त्ति इत्यत्र पदे यः संश्लिष्टशब्दस्तदुपलक्षितत्वात् संश्लिष्टोद्देशकः सप्तमः, 'अंतरे' त्ति पृथिवीनामन्तराभिधायकत्वादन्तरोद्देशकोऽष्टमः, 'अनगारे 'त्ति अनगारेति पूर्वदत्वादनगारोद्देशको नवमः, 'केवलि' त्ति केवलीति प्रथमपदत्वात्केवली दशमोद्देशक इति । १३१ -: शतकं १४ उद्देशकः -१ : मू. (५९७) रायगिहे जाव एवं वयासी - अणगारे णं भंते ! भावियप्पा चरमं देवावासं वीतिक्कंते परमं देवावासमसंपत्ते एत्थ णं अंतरा कालं करेज्जा तस्स णं भंते ! कहिं गती कहिं उववाए पन्नत्ते ?, गोयमा ! जे से तत्थ परियस्सओ तल्लेसा देवावासा तहिं तस्स उववाए पन्नत्ते । सेय तत्थ गए विराहेजा कम्मलेस्सामेव पडिमडइ, से य तत्थ गए नो विराहेज्जा एयामेव लेस्सं उवसंपजित्ताणं विहरति । अनगारे णं भंते! भावियप्पा चरमं असुरकुमारावासं वीतिक्कंते परमअसुरकुमारा० एवं चेव एवं जाव थणियकुमारावासं जोइसियावासं एवं वेमाणियावासं जाव विहरइ ।। वृ. तत्र प्रथमोद्देशके किञ्चिल्लिख्यते- 'चरमं देवावासं वीतिक्कंते परमं देवावासं असंपत्ते' त्ति, 'चरमम्' अर्वाग्भागवर्तिनं स्थित्यादिभि 'देवावासं' सौधर्मादिदेवलोकं 'व्यतिक्रान्तः' लङ्घितस्तदुपपातहेतुभूतलेश्यापरिणामापेक्षया 'परमं' परभागवर्त्तिनं स्थित्यादिभिरेव 'देवावासं' सनत्कुमारादिदेवलोकं 'असम्प्राप्तः' तदुपपातहेतुभूतलेश्यापरिणामापेक्षयैव । इदमुक्तं भवति - प्रशस्तेष्वध्यवसायस्थानेषूत्तरोत्तरेषु वर्त्तमान आराद्भागस्थितसौधर्मादिगतदेवस्थित्यादिबन्धयोग्यतामतिक्रन्तः परभागवर्त्तिसनत्कुमारादिगतदेवस्थित्यादिबन्धयोग्यतां चाप्राप्तः 'एत्थ णं अंतर'त्ति इहावसरे 'कालं करेज्ज' त्ति म्रियते यस्तस्य कोत्पादः इति प्रश्नः, उत्तरं तु 'जे से तत्थ' त्ति अथ ये तत्रेति तयोः चरमदेवावासपरमदेवावासयोः 'परिपार्श्वतः' समीपे सौधमदिरासन्नाः सनत्कुमारादेर्वाऽऽ सन्नास्तयोर्मध्यभागे ईशानादावित्यर्थः 'तल्लेसा देवावास' त्ति यस्यां लेश्यायां वर्त्तमानः साधुर्मृतः सा लेश्या येषु ते तल्लेश्या देवावासाः 'तहिं' ति तेषु देवावासेषु तस्यानगारस्य गतिर्भवतीति । यत उच्यते-- "जल्ले से मरइ जीवे तल्लेसे चेव उववज्जइ "त्ति 'से य'त्ति स पुनरनगारस्तत्र मध्यमभागवर्त्तिनि देवावासे गतः 'विराहिज्ज 'त्ति येन लेश्यापरिणामेन तत्रोत्पन्नस्तं परिणामं यदि विराधयेत्तदा । 'कम्मलेस्सामेव 'त्ति कर्म्मणः सकाशाद्या लेश्या - जीवपरिणति सा कर्मेलेश्या भावलेश्येत्यर्थः ‘तामेव प्रतिपतति' तस्या एव प्रतिपतति अशुभतरतां याति न तु द्रव्यलेश्यायाः प्रतिपतति सा हि प्राक्तन्येवास्ते द्रव्यतोऽवस्थितलेश्यत्वाद्देवानामिति । पक्षान्तरमाह-' से य तत्थे'त्यादि, 'सः' अनगारः 'तत्र' मध्यमदेवावासे गतः सन् यदि न विराधयेत्तं परिणामं तदा तामेव च लेश्या ययोत्पन्नः 'उपसम्पद्य' आश्रित्य 'विहरति' आस्त इति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003310
Book TitleAgam Suttani Satikam Part 06 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy