________________
१३०
भगवतीअङ्गसूत्रं (२) १३/-/१०/५५९ समुग्घाया पन्नत्ता, तंजहा-वेयणासमुग्घाए एवं छाउमत्थियसमुग्घाया नेयव्वा जहा पन्नवणाए जाव आहारगसमुग्धायेति । सेवं भंते ! सेवं भंतेत्ति।।
वृ. 'कइ णमित्यादि, 'छाउमत्थिय'त्ति छद्मस्थः-अकेवली तत्र भवाश्छामस्थिकाः 'समुग्घा-येति ‘हन हिंसागत्योः' हननं घातः सम्-एकीभावे उत्-प्राबल्ये ततश्चैकीभावेन प्राबल्येन चघातः समुद्घातः, अथ केन सहैकीभावगमनम्?, उच्यते, यदाऽऽत्मा वेदनादिसमुद्घातं गतस्तदा वेदनाद्यनुभवज्ञानपरिणत एव भवतीति वेदनाद्यनुभवज्ञानेन सहैकीभावः, प्राबल्येन घातः कथम्? उच्यते, यस्माद्वेदनादिसमुद्घातपरिणतो बहून् वेदनीयादिकर्मप्रदेशान् कालान्तरानुभ- वयोग्यानुदीराकरणेनाकृष्योदये प्रक्षिप्यानुभूय निर्जरयति-आत्मप्रदेशैः सह संश्लिष्टान् सातयतीत्यर्थः अतः प्राबल्येन घात इति, अयं चेह षड्विध इति बहुवचनं।
तत्र 'वेयणासमुग्धाए'त्तिएकः, एवंछाउमथिए' इत्यादिअतिदेशः, 'जहापन्नवणाए'त्ति इह षट्त्रिंशत्तमपद इति शेषः, तेच शेषाः पञ्चैवं-'कसायसमुग्घाए २ मारणंतियसमुग्घाए ३ वेउव्वियसमुग्घाए ४ तेयगसमुग्घाए ५ आहारगसमुग्धाए ६' ति।
तत्र वेदनासमुद्घातः असद्वेद्याश्रयः कषायसमुद्घातः कषायाख्यचारित्रमोहनीयकश्रियः मारणान्तिकसमुद्घातः अन्तर्मुहूर्तशेषायुष्ककर्माश्रयः वैकुर्विकतैजसाहार-कसमुद्घाताः शरीरनामकर्माश्रयाः,तत्रवेदनासमुद्घातसमुद्धत आत्मा वेदनीयकर्मपुद्गलशातं करोति, कषायसमुद्घातसमुद्धतः कषायपुद्गलशातं, मारणान्तिकसमुद्घातसमुद्धत आयुष्ककर्मपुद्गलशातंवैकुर्विकसमुद्घातसमुद्धतस्तुजीवप्रदेशान् शरीराद्वहिनिष्काश्य शरीरविष्कम्भबाहल्यमात्रमायामतश्च सङ्खयेयानि योजनानि दण्डं निसृजति निसृज्य च यथास्थूलान् वैक्रियशरीरनामकर्मपुद्गलान् प्राग्बद्धान् सातयति सूक्ष्मांश्चादत्ते, यथोक्तं ।
'वेउव्वियसमुग्धाएणंसमोहणइसमोहणित्ता संखेज्जाइंजोयणाइंदंडं निसिरइ २ अहाबायरे पोग्गले परिसाडेइ २ अहासुहुमे पोग्गले आइयइत्ति । एवं तैजसाहारकसमुद्घातावपि व्याख्येयाविति ॥
शतकं-१३ उद्देशकः-१० समाप्तः त्रयोदशस्यास्य शतस्य वृत्तिः, कृता मया पूज्यपदप्रसादात् । न ह्यन्धकारे विहितोद्यमोऽपि, दीपं विना पश्यति वस्तुजातम् ।।
शतकं-१३ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता भगवतीअगसूत्रे त्रयोदशशतस्य अभयदेवसूरि विरचिता टीका परिसमाप्ता।
(शतकं-१४) वृ.व्याख्यातं विचित्रार्थः त्रयोदशंशतम्, अथ विचित्राथमेवक्रमायातंचतुर्दशमारभ्यते, तत्र च दशोद्देशकास्तत्सङ्ग्रहगाथा चेयम्मू. (५९६)चर १ उम्माद २ सरीरे ३ पोग्गल ४ अगणी ५ तहा किमाहारे ६।
संसिट्ठ ७ मंतरे खलु ८ अणगारे ९ केवली चेव १०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org