________________
शतकं - १३, वर्ग:-, उद्देशक:- ९
१२९
'एवं जन्नोवइयवत्तव्वया भाणियव्वा' इत्यनेनेदं सूचितं- 'हंता उप्पएज्जा, अनगारे णं भंते! भावियप्पा केवइयाई पभू वग्गुलिरूवाइं विउव्वित्तए ?, गोयमा ! से जहानामएजुवतिं जुवाणे हत्थेणं हत्थे गिण्हेज्जा' इत्यादि, 'जलोय'त्ति जलौका द्वीन्द्रियजीवविशेषः 'उव्विहिय'त्ति उद्बह्य २ उत्प्रेर्य्य २ इत्यर्थः ‘बीयंबीयगसउणे' त्ति बीजंबीजकाभिधानः शकुनि स्यात् 'दोवि पाए' त्ति द्वावपि पादौ 'समतुरंगेमाणे' त्ति समौ - तुल्यौ तुरङ्गस्य - अश्वस्य समोत्क्षेपणं कुर्वन् सम तुरंगयमाणः समकमुत्पाटयन्नित्यर्थः 'पक्खिविरालए' त्ति जीवविशेषः 'डेवेमाणे' त्ति अतिक्रामन्नित्यर्थः, 'बीईओ वीइं' ति कल्लोलात् कल्लोलं, 'वेरुलियं' ।
इह यावत्करणादिदं दृश्यं - 'लोहियक्खं मसारगल्लं हंसगब्धं पुलगं सोगंधियं जोईरसं अंक अंजणं रयणं जायरूवं अंजणपुलगं फलिहं' ति, 'कुमुदहत्थगं' इत्यत्र त्वेवं यावत्करणादिदं दृश्यं'नलिनहत्थगं सुभगहत्थगं सोगंधियहत्थगं पुंडरीयहत्थगं महापुंडरीयहत्थगं सयवत्तहत्थगं 'ति, 'विसं'ति विसं - मृणालम् 'अवदालिय'त्ति अवदार्य- दारयितवा 'मुणालिय' त्ति नलिनी कायम् 'उम्मजिय'त्ति कायमुन्मज्जय-उन्मग्नं कृत्वा, 'किण्हे किण्होभासे' त्ति 'कृष्णः' कृष्णवर्णोऽअनवत्स्वरूपेण कृष्ण एवावभासते -द्रष्टृणां प्रतिभातीति कृष्णावभासः ।
इह यावत्कारणादिदं दृश्यं - 'नीले नीलोभासे हरिए हरिओभासे सीए सीओभासे निद्धे निद्धोभासे तिव्वे तिव्वोभासे किण्हे किण्हच्छाए नीले नीलच्छाए हरिए हरियच्छाए सीए सीयच्छाए तिब्वे तिब्वच्छाए घणकडियकडिच्छाए रम्मे महामेहनिउरंबभूए' त्ति तत्र च 'नीले नीलोभासे' त्ति प्रदेशान्तरे ‘हरिए हरिओभासे 'त्ति प्रदेशान्तर एव मीलश्च मयूरगलवत् हरितस्तु शुकपिच्छवत्हरितालाभ इति च वृद्धाः ।
'सीए सीओभास' त्ती शीतः स्पर्शापेक्षया वल्लयाद्याक्रान्तत्वादिति च वृद्धाः 'निद्धे निद्धोभासे 'ति स्निग्धो रूक्षत्ववर्जितः 'तिब्वे तिब्वोभासे 'ति 'तीव्रः' वर्णादिगुणप्रकर्षवान् 'किण्हेकिण्हच्छाए 'त्ति इह कृष्णशब्दः कृष्णच्छाय इत्यस्य विशेषणमिति न पुनरुक्तता, तथाह - कृष्णः सन् कृष्णच्छायः, छाया चादित्यावरणजन्यो वस्तुविशेषः, एवमुत्तरपदेष्वपि ।
'घणकडियकडिच्छाए 'त्ति अन्योऽन्यं शाखानुप्रवेशाद्बहलं निरन्तरच्छा इत्यर्थः, 'अनुपुव्वसुजाय' इत्यत्र यावत्करणादेवं दृश्यम् -'अनुपुव्वसुजायवप्पगंभीरसीयलजला' अनुपूर्वेण सुजाता वप्रा यत्र गम्भीरं शीतलं च जलं यत्र सा तथेत्यादि, 'सहुन्नइयमहुरसरनाइय'त्ति इदमेवं दृश्यं - 'सुयबरहिणमयणसालकोंचकोइलकोजकभिकारककोंडलकजीवंजीवकनंदीमुह
कविलपिंग-लखगकारंडगचक्कवायकलहंससार अनेगसउणगणमिहुणविरइयसहुन्नइयमहुरसरहनाइय'त्ति तत्र शुकादीनां सारसान्तानामनेकेषां शकुनिगणानां मिथुनैर्विरचितं शब्दोन्नतिकं च-उन्नतशब्दकं मधुरस्वरं च नादितंलपितं यस्यां सा तथेति ॥
शतकं - १३ उद्देशक:- ९ समाप्तः
-: शतकं - १३ उद्देशकः - १०:
वृ. अनन्तरोद्देशके वैक्रयकरणमुक्तं तच समुद्घाते सति छद्मस्थस्य भवतीति छाद्मस्थिकसमुद्घाताभिधानार्थो दशम उद्देशकस्तस्य चेदमादिसूत्रम्
मू. (५९५) कति णं भंते ! छाउमत्थियसमुग्धाया पन्नत्ता ?, गोयमा ! छ छाउमत्थिया
5
9
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org