SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ शतकं - १३, वर्गः-, उद्देशकः-७ १२३ च सङ्घयेयानि योजनानि गत्वा शब्दपरिणामत्यागमेव कुर्वन्ति, कश्चित्तु महाप्रयत्नो भवति स खल्वादानविसर्गप्रयत्नाभ्यां भित्वैव विसृजति, तानि च सूक्ष्मत्वाद्बहुत्वाच्चानन्तगुणवृद्धया वर्द्धमानानि षट्सु दिक्षु लोकान्तमाप्नुवन्ति, अत्रच यस्यामवस्थायां शब्दपरिणामस्तस्यां भाष्यमाणताऽवसेयेति, 'नोभासासमयवीइक्कंते 'ति परित्यक्तभाषापरिणामेत्यर्थः उत्कृष्टप्रयत्नस्य तदानीं निवृत्तत्वादितिभावः । अनन्तरं भाषा निरूपिता, सा च प्रायो मनः पूर्विका भवतीति मनोनिरूपणायाह मू. (५९०) आया भंते! मणे अन्ने मणे ?, गोयमा ! नो आया मणे अन्ने मणे जहा भासा तहा मणेवि जाव नो अजीवाणं मणे, पुव्विं भंते! मणे मणिज्ज्रमाणे मणे ? एवं जहेव भासा, पुव्विं भंते! मणे भिजति मणिज्रमाणे मणे भिजति मणसमयवीतिक्कंते मणे भिजति ?, एवं जहेव भासा । कतिविहे णं भंते! मणे पन्नत्ते ?, गोयमा ! चउव्विहे मणे पन्नत्ते, तंजहा - सच्चे जाव असच्चामोसे । वृ. 'आया भंते ! मणे' इत्यादि, एतत्सूत्राणि च भाषासूत्रवत्रेयानि, केवलमिह मनोद्रव्यसमुदयो मननोपकारी मनः - पर्याप्तिनामकर्मोदयसम्पाद्यो, भेदश्च तेषां विदलनमात्रमिति अनन्तरं मनो निरूपितं तच्च काये सत्येव भवतीति काय निरूपणायाह मू. (५९१) आया भंते! काये अन्ने काये ?, गोयमा ! आयावि काये अन्नेवि काये, रूविं भंते! काये अरूविकाये ?, पुच्छा, गोयमा ! रूविंपि काये अरूविंपि काए, एवं एक्कक्क पुच्छा, गोयमा ! सच्चित्तेवि काये अचित्तेवि काए, जीवेवि काएं अजीवेवि काए, जीवाणवि काए अजीवाणवि काए । पुव्विं भंते! काये पुच्छा, गोयमा ! पुव्विंपि काए कांयिज्जमाणेवि काए कायसमयवीतिक्कतेवि काये, पुव्विं भंते! काये भिज्जति पुच्छा, गोयमा ! पुव्विंपि काए कायिज्जमाणेवि काए कायसमयवीतिक्कंतेवि काये, पुव्विं भंते! काये पन्नत्ते ?, गोयमा ! सत्तविहे काये पन्नत्ते, तंजहा - ओराले ओरालियमीसए वेउव्विए वेउव्वियमीसए आहारए आहारगमीसए कम्मए ॥ वृ. ‘आया भंते ! काये’इत्यादि, आत्मा कायः कायेन कृतस्यानुभवनातू, न ह्यन्येन कृतमन्योऽनुभवति अकृतागमप्रसङ्गात्, अथान्य आत्मनः कायः कायैकदेशच्छेऽपि संवेदनस्य सम्पूर्णत्वेनाभ्युपगमादिति प्रश्नः, उत्तरं त्वात्माऽपि कायः कथञ्चित्तदव्यतिरेकात् क्षीरनीरवत् अग्न्ययस्पिण्डवत् काञ्चनोपलवद्वा, अत एव कायस्पर्शे सत्यात्मनः संवेदनं भवति, अत एव च कायेन कृतमात्मना भवान्तरे वेद्यते, अत्यन्तभेदे चाकृतगमप्रसङ्ग इति । ‘अन्नेवि कार्ये’त्ति अत्यन्ताभेदे हि शरीरांशच्छेदे जीवांशच्छेदप्रसङ्गः, तता च संवेदनासम्पूर्णता स्यात्, तथा शरीरस्य दाहे आत्मनोऽपि दाहप्रसङ्गेन परलोकाभावप्रसङ्ग इत्यतः कथञ्चिदात्मनोऽन्योऽपि काय इति, अन्यैस्तु कार्म्मणकायमाश्रित्यात्मा काय इति व्याख्यातं, कार्मणकायस्य संसार्यात्मनश्च परस्पराव्यभिचरितत्वेनैकस्वरूपत्वात्, 'अन्नेवि काए 'त्ति औदारिकादिकायापेक्षया जीवादन्यः कायस्तद्विमोचनेन तद्भेदसिद्धिरिति, 'रूविंपि काए' त्ति रूप्यपि कायः औदारिकादिकायस्थूलरूपापेक्षया, अरूप्यपि कायः कार्म्मणकायस्यातिसूक्ष्मरूपित्वेनारूपित्व-विवक्षणात् 'एवं एक्केक्के पुच्छ' त्ति पूर्वोक्तप्रकारेणैकैकसूत्रे पृच्छा विधेया, तद्यथा-'सचित्ते भंते ! Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003310
Book TitleAgam Suttani Satikam Part 06 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy