________________
१२२
भगवती अङ्गसूत्रं (२) १३/-/७/५८९
आया भासा अन्ना भासा, रुविं भंते! भासा अरूविं भासा ?, गोयमा ! रूविं भासा नो अरूविं भासा, सच्चित्ता भंते! भासा अचित्ता भासा ?, गोयमा ! नो सचित्ता भासा अचित्ता भासा । जीवा भंते! भासा अजीवा भासा ?, गोयमा ! नो जीवा भासा अजीवा भासा । जीवाणं भंते! भासा अजीवाणं भासा ?, गोयमा ! जीवाणं भासा नो अजीवाणं भासा ।
पुव्विं भंते ! भासा भासिज्रमाणी भासा भासासमयवीतिक्कंता भासा ?, गोयमा ! नो पुव्विं भासा भासिज्रमाणी भासा नो भासासमयवीतिक्कंता भासा ।
पुव्वि भंते ! भासा भिजति भासिज्रमाणी भासा भिजति भासासमयवीतिक्कंता भासा भिज्जति ?, गोयमा ! नो पुव्विं भासा भिज्जति भासिज्जमाणी भासा भिज्जइ नो भासासमयवीतिक्कंता भासा भिज्जति ।
कतिविहा णं भंते ! भासा पन्नत्ता ?, गोयमा ! चउव्विहा भासा पन्नत्ता, तंजहा - सच्चा मोसा सच्चामोसा असच्चामोसा ॥
वृ. ‘रायगिहे’इत्यादि, ‘आया भंते! भास' त्ति काकाऽध्येयं आत्मा - जीवो भाषा जीवस्वभावा भाषेत्यर्थः यतो जीवेन व्यापार्यते जीवस्य च बन्धमोक्षार्था भवति ततो जीवधर्मत्वाजीव इति व्यपदेशार्हा ज्ञानवदिति, अथान्या भाषा - न जीवस्वरूपा श्रोत्रेन्द्रिग्राह्यत्वेन मूर्ततयाऽऽत्मना चनिसृज्यमानत्वात्तथाविधलोष्ठादिवत् अचेतनत्वाच्चाकाशवत् यच्चोक्तं- जीवेन व्यापार्यमाणत्वाज्जीवः स्याज्ज्ञानवत्तदनैकान्तिकं, जीवव्यापारस्य जीवादत्यन्तं भिन्नस्वरूपेऽपि दात्रादौ दर्शनादिति । ‘रूविं भंते ! भास'त्ति रूपिणी भदन्त ! भाषा श्रोत्रस्यानुग्रहोपघातकारित्वात्तथाविधकर्णाभरणादिवत्, अथारूपिणी भाषा चक्षुषाऽनुपलभ्यत्वाद्धर्मास्तिकायादिवदिति शङ्का अतः प्रश्नः, उत्तरं तु रूपिणी भाषा, यच्च चक्षुरग्राह्यत्वमरूपित्वसाधनायोक्तं तदनैकान्तिकं, परमाणुवायुपिशाचादीनां रूपवतामपि चक्षुरग्राह्यत्वेनाभिमतत्वादिति ।
अनात्मरूपाऽपि सचित्तासौ भविष्यति जीवच्छरीरवदिति पृच्छन्नाह - ' सचित्ते 'त्यादि, उत्तरं तु नो सचित्ता जीवनिसृष्टपुद्गलसंहतिरूपत्वात्तथाविधलेष्टुवत्, तथा 'जीवा भंते! ' इत्यादि, जीवतीति जीवा - प्राणधारणस्वरूपा भाषा उतैतद्विलक्षणेति प्रश्नः, अत्रोत्तरं नो जीवा, उच्छ्रवासादिप्राणानां तस्या अभावादिति । इह कैश्चिदभ्युपगम्यते अपौरुषेयी वेदभाषा, तन्मतं मनस्याधायाह-‘जीवाण’मित्यादि, उत्तरं तु जीवानां भाषा, वर्णानां ताल्वादिव्यापारजन्यत्वात् ताल्वादिव्यापरस्य च जीवाश्रितत्वात्, यद्यपि चाजीवेभ्यः शब्द उत्पद्यते तथाऽपि नासौ भाषा, भाषापर्याप्तिजन्यस्यैव शब्दस्य भाषात्वेनाभिमतत्वादिति ।
तथा 'पुव्वि'मित्यादि, अत्रोत्तरं - नो पूर्वं भाषणाद् भाषा भवति मृत्पिण्डावस्थायां घट इव, भाष्यमाणा - निसर्गावस्थायां वर्त्तमाना भाषा घटावस्थायां धटस्वरूपमिव, 'नो' नैव भाषासम्यव्यतिक्रन्तिा-भाषासमयो-- निसृज्यमानावस्थातो यावद्भाषापरिणामसमयस्तं व्यतिक्रिन्ता या सातथा भाषा भवति, घटसमयातिक्रिन्तघटवत् कपालावस्थ इत्यर्थः ।
'पुव्विं भंते!' इत्यादि, अत्रोत्तरं - 'नो' नैव पूर्वं निसर्गसमयाभाषाद्रव्यभेदेन भाषा भिद्यते, भाष्यमाणा भिद्यते, अयमत्राभिप्रायः - इह कश्चिन्मन्दप्रयत्नो वक्ता भवति स चाभिन्नान्येव शब्दद्रव्याणि निसृजति, तानिच निसृष्टान्यसङ्घयेयात्मकत्वात् परिस्थूरत्वाच्च विभिद्यन्ते, विभिद्यमानानि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org