SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ १२४ भगवती अङ्गसूत्रं (२) १३/-/७/५९१ काये अचित्ते काये ?' इत्यादि, अत्रोत्तरं - ' सचित्तेविकाए' जीवदवस्थायां चैतन्यसमन्वितत्वात्, ‘अचित्तेवि काए’ मृतावस्थायां चैतन्यस्याभावात्, 'जीवेवि काये 'त्ति जीवोऽपि विवक्षितोच्छासादिप्राणयुक्तोऽपि भवति कायः औदारिकादिशरीरमपेक्ष्य, 'अजीवेवि काये' त्ति अजीवोऽपि उच्छ्वासादिरहितोऽपि भवति कायः कार्म्मणशरीरमपेक्ष्य, 'जीवाणवि काये' त्ति जीवानां सम्बन्धी 'कायः शरीरं भवति, 'अजीवाणवि काये' त्ति अजीवानामपि स्थापनार्हदादीनां 'कायः शरीरं भवति शरीराकार इत्यर्थः । 'पुव्विपि काए 'त्ति जीवसम्बन्धकालात्पूर्वमपि कायो भवति यथा भविष्यज्जीवसम्बन्धं मृतदर्दुरशरीरं 'काइजमाणेवि काए त्ति जीवेन चीयमानोऽपि कायो भवति यथा जीवच्छरीरं, 'कायसमयवीतिक्कंतेवि काए' त्ति कायसमयो - जीवेन कायस्य कायताकरणलक्षणस्तं व्यतिक्रान्तो यः स तथा सोऽपि काय एव मृतकडेवरवत्, 'पुव्विपि काए भिजइ' त्ति जीवेन कायतया ग्रहणसमयात्पूर्वमपि कायो मघुघटादिन्यायेन द्रव्यकायो भिद्यते प्रतिक्षणं पुद्गलचयापचयभावात्, 'काइजमाणेविकाए भिजइत्ति जीवन कायीक्रियमाणोऽपि कायो भिद्यते, सिकताकणकलापमुष्टिग्रहणवत् पुद्गलानामनुक्षणं परिशाटनभावात्, 'कायसमयवीतिक्कंतेऽवि काये भिज्जइ'त्तिकायसमयव्यतिक्रनन्स्य च कायता भूतभावतया घृतकुम्भादिन्यायेन, भेदश्च पुद्गलानां तत्स्वभावतयेति, चूर्णिकारेण पुनः कायसूत्राणि कायशब्दस्य केवलशरीरार्थः त्यागेन चयमात्रवाचकत्वमङ्गीकृत्य व्याख्यातानि, यदाह 'कायसद्दो सव्वभावसामन्नसरीरवाई' कायशब्दः सर्वभावानां सामान्यं यच्छरीरं चयमात्रं तद्वाचक इत्यर्थः, एवं च ‘आयावि काए सेसदव्वाणिविकाये' त्ति, इदमुक्तं भवति - आत्माऽपि कायः प्रदेशसञ्चय इत्यर्थः तदन्योऽप्यर्थः कायप्रदेशसञ्चयरूपत्वादिति, रूपी कायः पुद्गलस्कन्धापेक्षया, अरूपी कायो जीवधर्मास्तिकायाद्यपेक्षया, सचित्तः कायो जीवच्छरीरापेक्षया, अचित्तः कायोऽचेतनसञ्चयापेक्षया, जीवः कायः - उच्छ्वासादियुक्तावयवसञ्चयरूपः, अजीवः कायः तद्विलक्षणः, जीवानां कायो - जीवराशि, अजीवानां कायः - परमाण्वादिराशिरिति, एवं शेषाण्यपि अथ कायस्यैव भेदानाह- 'कइविहे ण 'मित्यादि, अयं च सप्तविधोऽपि प्राग् विस्तरेण व्याख्यातः इह तु स्थानाशून्यार्थं लेशतो व्याख्यायते, तत्र च 'ओरालिए' त्ति औदारिकशरीरमेव पुद्गलस्कन्धरूपत्वादुपचीयमानत्वात्काय औदारिककायः, अयं च पर्याप्तकस्यैवेति, 'ओरालियमीसए' त्ति औदारिकश्चासौ मिश्रश्च कार्ममेनेत्यौदारिकमिश्रः, अयं चापर्याप्तकस्य, 'वेउब्विय'त्ति वैक्रियः पर्याप्तकस्य देवादेः, 'वेउव्वियमीसए' त्ति वैक्रियश्चासौ मिश्रश्च कार्म्मणेनेति वैक्रियमिश्रः, अयं चाप्रतिपूर्णवैक्रियशरीरस्य देवादेः, 'आहारए' त्ति आहारकः आहारकशरीरनिर्वृत्ती, 'आहारगमीसए'त्ति आहारकपरित्यागेनौदारिकग्रहणायोद्यतस्याहारकमिश्रो भवति मिश्रता पुनरौदारिकेणेति, ‘कम्मए’त्ति विग्रहगतौ केवलिसमुद्घाते वा कार्म्मणः स्यादिति । अनन्तरं काय उक्तस्तत्यागे च मरणं भवतीति तदाह मू. (५९२) कतिविहे णं भंते! मरणे पन्नत्ते ?, गोयमा ! पंचविहे मरणे पन्नत्ते, तंजहाआवीचियमरणे ओहिमरणे आदिंतियमरणे बालमरणे पंडियमरणे । आवीचियमरणे णं भंते! कतिविहे पन्नत्ते ?, गोयमा ! पंचविहे पन्नत्ते, तंजहा - दव्वावी - For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003310
Book TitleAgam Suttani Satikam Part 06 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy