________________
शतकं-१३, वर्गः-, उद्देशकः-४
११५ उक्तम्-'अनंत'त्ति, अद्धासमयास्तु मनुष्यलोक एव सन्ति न परतोऽतो धर्मास्तिकायप्रदेशे तेषामवगाहोऽस्ति नास्तिच, यत्रास्तितत्रानन्तानांभावनातुप्राग्वत्, एतदेवाह-'अद्धासमयेत्यादि ___'जत्थण'मित्यादीन्यधर्मास्तिकायसूत्राणि षड् धर्मास्तिकायसूत्राणीव वाच्यानि, आकाशास्तिकायसूत्रेषु 'सियओगाढा सिय नोओगाढ'त्तिलोकालोकरूपत्वादाकाशस्य लोकाकाशेऽवगाढा अलोकाकाशे तु न तदभावात् ।। जत्थणं भंते ! पोग्गलत्थिकायपएसे' त्यादि, सियो एक्को सियदोन्नित्तियदैकत्राकाशप्रदेशेद्वयणुकः स्कन्धोऽवगाढः स्यात्तदा तत्रधर्मास्तिकायप्रदेश एक एव, यदा तु द्वयोराकाशप्रदेशयोरसाववगाढः स्यात्तदा तत्र द्वा धर्मप्रदेशाववगाढौ स्यातामिति, एवमवगाहनानुसारेणाधर्मास्तिकायाकाशास्तिकाययोरपि स्यादेकः स्याद्दाविति भावनीयं, सेसं जहा धम्मत्थिकायस्स'ति शेषमित्युक्तापेक्षयाजीवास्तिकायपुद्गलास्तिकायाद्धासमयलक्षणंत्रयं यथा धर्मास्तिकायप्रदेशवक्तव्यतायामुक्तं तथा पुद्गल-प्रदेशद्वयवक्तव्यतायामपि, पुद्गलप्रदेशद्वयस्थानेतदीयाअनन्ताःप्रदेशाअवगाढा इत्यर्थः ।पुद्गलप्रदेशत्रयसूत्रेषु 'सिय इक्क'इत्यादि, यदात्रयोऽप्यणव एकत्रावगाढास्तदा तत्रैकधर्मास्ति-कायप्रदेशोऽवगाढः, यदा तु द्वयो ११२ स्तदा द्वाववगाढौ, यदा तु त्रिषु।१।११। तदा त्रय इति, एवमधर्मास्तिकायस्याकाशास्तिकायस्य च वाच्यं ।
"सेसं जहेव दोण्हंति 'शेषं' जीवपुद्गलाद्धासमयाश्रितं सूत्रत्रयं यथैव द्वयोः पुद्गलप्रदेशयोरवगाहचिन्तायामधीतंतथैव पुद्गलप्रदेशत्रयतिन्तायामप्यध्येयं, पुद्गलप्रदेशत्रयस्थानेऽनन्ता जीवप्रदेशा अवगाढा इत्येवमध्येयमित्यर्थः।।
एवं एक्केक्कोवड्ढयव्वो पएसो आइल्लेहिं तिहिं २ अत्थिकाएहिंति यथा पुद्गलप्रदेशत्रयावगाहचिन्तायां धर्मास्तिकायादिसूत्रत्रये एकैकःप्रदेशो वृद्धिं नीतः एवं पुद्गलप्रदेशचतुष्टयाद्यवगाहचिन्तायामप्येकैकस्तत्र वर्द्धनीयः, तथाहि- . _ 'जत्थणंभंते! चत्तारिपुग्गलत्थिकायप्पएसा ओगाढा तत्थ केवइया धम्मत्थिकायप्पएसा ओगाढा ?, सिय एक्को सिय दोन्नि सिय तिन्नि सिय चत्तारि' इत्यादि, भावना चास्य प्रागिव, 'सेसेहिं जहेवदोण्हं'तिशेषेषु जीवास्तिकायादिषु त्रिषुसूत्रेषुपुद्गलप्रदेशचतुष्टयचिन्तायांतथा वाच्यं यथा तेष्वेव पुद्गलप्रदेशद्वावगाहचिन्तायामुक्तं, तच्चैवं___ 'जत्थणंभंते! चत्तारिपोग्गलत्थिकायप्पएसाओगाढातत्थ केवतियाजीवत्थिकायप्पएसा ओगाढा?, अनंता' इत्यादि, 'जहा असंखेज्जा एवं अनंतावित्ति, अस्यायं भावार्थ:
'जत्थणंभंते!अनतापोग्गलत्थिकायप्पएसाओगाढातत्थ केवतियाधम्मत्थिकायप्पएसा ओगाढा ?, सिय एक्को सिय दोन्नि जाव सिय असंखेज्जा'एतदेवाध्येयं न तु 'सिय अनंत त्ति, धर्मास्तिकायाधर्मास्तिकायलोकाकाशप्रदेशानामनन्तानामभावादिति ।
अथ प्रकारान्तरेणावगाहद्वारमेवाह-'जत्थण'मित्यादि, धर्मास्तिकायशब्देन समस्ततादेशसङ्ग्रहात् प्रदेशान्तराणां चाभावादुच्यते यत्र धर्मास्तिकायोऽवगाढस्तत्र नास्त्येकोऽपि तत्प्रदेशोऽवगाढ इति, अधर्मास्तिकायाकाशास्तिकाययोरसङ्ख्येयाः प्रदेशाअवगाढा असङ्खयेयप्रदेशत्वादधर्मास्तिकायलोकाकाशयोः, जीवास्तिकायसूत्रेचानन्तास्तप्रदेशाः, अनन्तप्रदेशवाज्जीवास्तिकायस्य, पुद्गलास्तिकायसूत्राद्धासूत्रयोरप्येवं, एतदेवाह-‘एवंजाव अद्धासमय'त्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org