SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ शतकं - १३, वर्ग:-, उद्देशकः - ४ ११३ तस्य षट्सु दिक्ष्विति सप्तेति, जीवास्तिकायप्रदेशैश्चानन्तैरेकप्रदेशेऽपि तेशामनन्तत्वात्, 'एवं जाव अद्धासमएहिं'ति । इहयावत्करणादिदं सूचितम् - एकोऽद्धासमयोऽनन्तैः पुद्गलास्तिकायप्रदेशैरद्धासमयैश्च स्पृष्ट इति, भावना चास्यैवम् - अद्धासमयविशिष्टमणुद्रव्यमद्धासमयः, स चैकः पुद्गलास्तिकायप्रदेशैरनन्तैः स्पृश्यते, एकद्रव्यस्य स्थाने पार्श्वतश्चानन्तानां पुद्गलानां सद्भावात्, तथाऽद्धासमयैरनन्तैरसी स्पृश्यते अद्धासमयविशिष्टानमनन्तानामप्यणुद्रव्याणामद्धासमयत्वेन विवक्षितत्वात् तेषां च तस्य स्थाने तत्पार्श्वतश्च सद्भावादिति । धर्मास्तिकायादीनां प्रदेशतः स्पर्शनोक्ताऽथ द्रव्यतस्तामाह - 'धम्मत्थिकाएण' मित्यादि, 'नत्थि एगेणवि 'त्ति सकलस्य धर्मास्तिकायद्रव्यस्य प्रश्नितत्वात् तद्वयतिरिक्यस्य च धर्मास्तिकायप्रदेशस्याभावादुक्तं नास्ति - न विद्यतेऽयं पक्षो यदुत एकेनापि धर्मास्तिकायप्रदेशेनासौ धर्मास्तिकायः स्पृष्टइति, तथा धर्मास्तिकायोऽधर्मास्तिकायप्रदेशैरसङ्घयेयैः स्पृष्टथे, धर्मास्तिकायप्रदेशानन्तर एव व्यवस्थितत्वादधर्मास्तिकायसम्बन्धिनामसङ्ख्यातानामपि प्रदेशानामिति, आकाशास्तिकायप्रदेशैरप्यसङ्घयेयैः, असङ्खयेयप्रदेशस्वरूपलोकाकाशप्रमाणत्वाद्धर्मास्तिकायस्य, जीवपुद्गलप्रदेशैस्तु धर्मास्तिकायोऽनन्तैः स्पृष्टः, तद्वयाप्तया धर्मास्तिकायस्यावस्थितत्वात्तेषां चानन्तत्वात्, अद्धासमयैः पुनरसौ स्पृष्टश्चास्पृष्टश्च तत्र यः स्पृष्टः सोऽनन्तैरिति । एवमधर्मास्तिकायस्य ६ आकाशास्तिकायस्य ६ जीवास्तिकायस्य ६ पुद्लास्तिकायस्य ६ अद्धासमयस्य च ६ सूत्राणि वाच्यानि, केवलं यत्र धर्मास्तिकायादिस्तत्प्रदेशैरेव चिन्त्यते तत्स्वस्थानमितरच्च परस्थानं, तत्र स्वस्थाने 'नत्थि एगेणवि पट्टे' इति निर्वचनं वाच्यं परस्थाने चधर्मास्तिकायादित्रयसूत्रेषु ३ असङ्खयेयैः स्पृष्ट इति वाच्यं, असङ्ख्यातप्रदेशत्वाद्धर्माधर्मास्तिकाययोस्तत्संस्पृष्टथकाशस्य च, जीवादित्रयसूत्रेषु चानन्तैः प्रदेशैः स्पृष्ट इति वाच्यं, अनन्तप्रदेशत्वात्तेषामिति, एतदेव दर्शयन्नाह 'एवं एएणं गमएण' मित्यादि, इह चाकाशसूत्रेऽयिं विशेषो द्रष्टव्यः - आकाशास्तिकायो धर्मास्तिकायादिप्रदेशैः स्पृष्टश्चास्पृष्टश्च तत्र यः स्पृष्ट सोऽसङ्ख्येयैर्धर्माधर्मास्तिकाययोः प्रदेशैर्जीवास्तिकायादीनां त्वनन्तैरिति, 'जाव अद्धासमओ' त्ति अद्धासमयसूत्रं यावत् सूत्राणी वाच्यानीत्यर्थः, 'जाव केवइएहिं' इत्यादी यावत्करणादद्धासमयसूत्रे आद्यं पदपञ्चं सूचितं षष्ठं तु लिखितमेवास्ते, तत्र तु 'नत्थि एक्केणवि' त्ति निरुपचरितस्याद्धासमयस्यैकस्यैव भावात्, अतीतानागतसमययोश्च विनष्टानुत्पन्नत्वेनासत्त्वान्न समयान्तरेण स्पृष्टताऽस्तीति । अथावगाहद्वारं, तत्र - मू. (५८०) जत्थ णं भंते! एगे धम्मत्थिकायपएसे ओगाढे तत्थ केवतिया धम्मत्थिकायप्पएसा ओगाढा ?, नत्थि एक्कोवि, केवतिया अहम्मत्थिकायप्पएसा ओगाढा ?, एक्को, केवतिया आगासत्थिकाय ० ?, एक्को, केवतिया जीवत्थि० ? अनंता, केवतिया पोग्गलत्थि० ?, अनंता, केवतिया अद्धासमया ?, सिय ओगाढा सिय नो ओगाढा जइ ओगाढा अनंता । जत्थ णं भंते ! एगे अहम्मत्थिकायपएसे ओगाढे तत्थ केवतिया धम्मत्थि० ?, एक्को, केवतिया अहम्मत्थि० ?, नत्थि एक्कवि, सेसं जहा धम्मत्थिकायस्स 68 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003310
Book TitleAgam Suttani Satikam Part 06 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy