________________
भगवती अङ्गसूत्रं (२) १३/-/४/५७९
ययोः प्रदेशयोर्मध्ये परमाणू स्थाप्येते तयोरग्रेतनाभ्यां प्रदेशाभ्या तौ स्पृष्टौ एकेनैको द्वितीयेन च द्वितीय इति चत्वारो द्वौ चावगाढत्वादेव स्पृष्टावित्येवं षट् । 'उक्कोसपए बारसहिं' ति, कथं ?, परमाणुयेन द्विप्रदेशावगाढत्वात्स्पृष्टौ द्वौ चाधस्तनौ उपरितनौ उपरितनौ च द्वौ पूर्वापरपार्श्वयोश्च २ दक्षिणोत्तरपार्श्वयोश्चैकैक इत्येवमेते द्वाशेति १ । एवमधर्मास्तिकायप्रदेशैरपि २ ।
'केवतिएहिं आगासत्थिकायप्पएसेहिं ?, 'बारसहिं'ति इह जघन्यपदं नास्ति लोकान्तेऽप्याकाशप्रदेशानां विद्यमानत्वादिति द्वादशमिरित्युक्तं ३, 'सेसं जहा धम्मत्थिकायस्स'त्ति, अयमर्थः'दो भंते! पोग्गलत्थिकायप्पएसा केवतिएहिं जीवस्थिकायप्पएसेहिं पुट्ठा ?, गो० अणंतेहिं ४ । एवं पुद्गलास्तिकायप्रदेशैरपि ५, अद्धासमयैः स्यात् स्पृष्टौ स्यान, यदि स्पृष्टौ तदा नियमादनन्तैरिति ६ ।
‘तिन्निभंते!' इत्यादि, 'जहन्नपए अट्ठहिं' ति, कथं ?, पूर्वोक्तनयमतनावगाढप्रदेशस्त्रिधा अधस्तनोऽप्युरितनोऽपि वा त्रिधा द्वौ पार्श्वत इत्येवमष्टी, 'उक्कोसपए सत्तरसहिं' ति प्राग्वद्भावनीयं, इह च सर्वत्र जघन्यपदे विवक्षितपरमाणुभ्यो द्विगुणा द्विरूपाधिकाश्च स्पर्शकाः प्रदेशा भवन्ति, उत्कृष्टपदे त विवक्षितपरमाणुभ्यः पञ्चगुणा द्विरूपाधिकाश्च ते भवन्ति, तत्र काणोद्विगुणत्वे द्वौ द्वयसहित्वे च चत्वारो जघन्यपदे स्पर्शकाः प्रदेशाः, उत्कृष्टपदे त्वेकाणोः पञ्चगुणत्वे द्विकसहित्वे च सप्त स्पर्शकाः प्रदेशा भवन्ति, एवं द्वयणुकत्र्यणुकादिष्वपि ।
एतदेवाह--'एवं एएणं गमएण' मित्यादि, 'आगासत्थिकायस्स सव्वत्थ उक्कोसपयं भाणियव्वं’ति‘सर्वत्र’ एकप्रदेशिकाद्यनन्तप्रदेशिकान्ते सूत्रगणे उत्कृष्टपदमेव न जघन्यकमित्यर्थः आकाशस्य सर्वत्र विद्यमानत्वादिति ।
११२
'संखेज्जा भंते!' इत्यादि, 'तेणेव 'त्ति यत् सङ्घयेयकमयः स्कन्धस्तेनैव प्रदेशसङ्घयेयकेन द्विगुणेन द्विरूपाधिकेन स्पृष्टः इह भावा - विंशतिप्रदेशिकः स्कन्धो लोकान् एकप्रदेशे स्थितः स चनयमतेन विंसत्याऽवगाढप्रदेशैः विंशत्यैव च नयमतेनैवाधस्तनैरुपरितनैर्वा प्रदेशैः द्वाभ्यांच पार्श्वप्रदेशाभ्यां स्पृश्यत इति, उत्कृष्टपदे तु विंशत्या निरुपचरितैरवगाढप्रदेशैः, एवमधस्तनै २० रुपरितनैः २० पूर्वापरपार्श्वयोश्च विंशत्या २० द्वाभ्यां च दक्षिणोत्तरपार्श्वस्थिताभ्यां स्पृष्टस्ततश्च विंशतिरूपः सङ्घयाताणुकः स्कन्धः पञ्चगुणया विंशत्या प्रदेशानां प्रदेशद्वयेन च स्पृष्ट इति, अत एव चोक्तम् 'उक्कोसपए तेणेव संखेज्जएणं पंचगुणेणं दुरूवाहिएणं'ति ।
'असंखेज्जा' इत्यादौ षटसूत्री तथैव । 'अनंता भंते!' इत्यादिरपि षटसूत्री तथैव, नवरमिह यथा जघन्यपदे औपचारिका अवगा - हप्रदेशा अघरतना उपरितना वा तथोत्कृष्टपदेऽपि न हि निरुपचरिता अनन्ता आकाशप्रदेशा अवगाहतः सन्ति, लोकस्याप्यसङ्ख्यातप्रदेशात्मकत्वादिति इह च प्रकरणे इमे वृद्धोक्तगाथे भवतः
119 11
“धम्माइपएसेहिं दुपएसाई जहन्नयपयम्मि ।
दुगुणदुरूवहिणं तेणेव कहं नु हु फुसेज्जा ।।
‘एगे भंते! अद्धासमए' इत्यदि, इह वर्त्तमानसमयविशिष्टः समयक्षेत्रमध्यवर्ती परमाणुरद्धासमयो ग्राह्यः, अन्यथा तस्य धर्मास्तिकायादिप्रदेशैः सप्तभिः स्पर्शना न स्यात्, इह च जघन्यपदं नास्ति, मनुष्यक्षेत्रमध्यवर्त्तित्वादद्धासयमस्य जघन्यपदस्य च लोकान्त एव सम्भवादिति, तत्र सप्तभिरिति, कथम्?, अद्धासमयविशिष्टं परमाणुद्रव्यमेकत्रधर्मास्तिकायप्रदेशेऽवगाढमन्ये च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org