SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ भगवती अङ्गसूत्रं १/-/७/८३ भवधारणिजे सरीरए अव्वावन्ने भवइ एवतियं कालं संचिठ्ठइ, अहे णं समए समए वोक्कसिज्जमाणे २ चरमकालसमयंसि वोच्छिन्ने भवइ । वृ. 'गब्भं वक्कममाणे 'त्ति, गर्भ व्युत्क्रामन् गर्भ उत्पद्यमान इत्यर्थः 'दव्विंदियाइं 'ति निर्वृत्त्युपकरणलक्षणानि तानि हीन्द्रियपर्याप्तौ सत्यां भविष्यन्तीत्यनिन्द्रिय उत्पद्यते, 'भाविंदियाई ति लब्ध्युपयोगलक्षणानि तानि च संसारिणः सर्वावस्थाभावीनीति । 'ससरीरि' त्ति सह शरीरेणेति सशरीरी, इनसमासान्तभावात्, 'असरीरि'त्ति शरीरवान् शरीरी तन्निषेधादशरीरी 'वक्कमइ' त्ति व्युत्क्रामति, उत्पद्यत इत्यर्थः, 'तप्पढमयाए 'त्ति तस्यगर्भव्युत्क्रमणस्य प्रथमता तव्प्रथमता तथा 'कि' मितित प्राकृतत्वात् कथम् ?, 'माउओय'ति 'मातुरोजः' जनन्या आर्त्तवं, शोणितमित्यर्थः, 'पिउसुक्कं' ति पितुः शुक्रम्, इह यदिति शेषः 'तं’ति आहारमिति योगः, 'तदुभयसंसिठ्ठे 'ति तयोरुभयं तदुभयंद्वयं तच्च तत् संश्लिष्टं च संसृष्टं वा-संसर्गवत्तदुभयसंश्लिष्टं तदुभयसंसृष्टं वा 'जं से' त्ति या तस्य गर्भसत्त्वस्य माता 'रसविगईओ त्ति रसरूपा विकृती:- दुग्धाद्या रसविकारास्ताः 'तदेगदेसेणं' ति तासां रसविकृतीनामेकदेशस्तदेकदेशस्तेन सह ओज आहारयतीति । ९६ ‘उच्चारेइ व’त्ति उच्चारो-विष्ठा 'इति' उपप्रदर्शने 'वा' विकल्पे खेलो-निष्ठीवनं 'सिंघाणं' ति नासिका श्लेष्मा 'केसमंसुरोमनहत्ताए' त्ति इह श्मश्रूणि कूर्चकेशाः रोमाणि कक्षादिकेशाः । 'जीवेण' मित्यादि, 'सव्वओ' त्ति सर्वात्मना 'अभिक्खणं' ति पुनः पुनः 'आहच्च' त्ति कदाचिदाहारयति कदाचिन्नाहारयति, तथास्वभावत्वात्, यतश्च सर्वत आहरयतीत्यादि ततो मुखेन न प्रभुः कावलिकमाहारमाहुर्तुमिति भावः, अथ कथं सर्वत आहारयति ? इत्याह- 'माउजीवरसहरणी'त्यादि, रसो हियते-आदीयते यया सा रसहरणी नाभिनालमित्यर्थः, मातृजीवस्य रसहरणी मातृजीवरसहरणी, किमित्याह- 'पुत्तजीवरसहरणी' पुत्रस्य रसोपादाने कारणत्वात्, कथमेवमित्याहमातृजीवस्य रसहरणी मातृजीवरसहरणी, किमित्याह 'पुत्तजीवरसहरणी' पुत्रस्य रसोपादाने कारणत्वात्, कथमेवमित्याह-मातृजीवप्रतिबद्धा सती सा यतः 'पुत्तजीवं फुड' त्ति पुत्रजीवं स्पृष्टवती, इह च प्रतिबद्धता गाढसम्बन्धः, तदंशत्वात् स्पृष्टता च सम्बन्धमात्रम्, अतदंशत्वात्, अथवा मातृजीवरसहरणी पुत्रजीवरसहरणी चेति द्वे नाड्यौ स्तः, तयोश्चाद्या मातृजीवप्रतिबद्धा पुत्रजीवस्पृष्टेति, 'तम्हे' ति यस्मादेवं तस्मान्मातृजीवप्रतिबद्धया रसहरण्या पुत्रजीवस्पर्शना- दाहारयति 'अवराविय'त्ति पुत्रजीवरसहरण्यपि च पुत्रजीवप्रतिबद्धा सती मातृजीवं स्पृष्टवती 'तम्ह' त्ति यस्मादेवं तस्माच्चिनोति शरीरम्, उक्तं च तन्त्रान्तरे 119 11 “पुत्रस्य नाभौ मातुश्च, हृदि नाडी निबध्यते । ययाऽसौ पुष्टिमाप्नोति, केदार इव कुल्यया ॥” इति गर्भाधिकारादेवेदमाह-‘कइण' मित्यादि 'माइअंग' त्ति आर्त्तवविकारबहुलानीत्यर्थः 'मत्थुलुंग 'त्ति मस्तकभेजकम्, अन्ये त्वाहुः - मेदः फिफ्फिसादि मस्तुलुङ्गमिति । 'पिइयंग 'त्ति पैतृकाङ्गानि शुक्रविकारबहुलानीत्यर्थः, 'अट्ठिमिंज 'त्ति अस्थिमध्यावयवः, केशादिकं बहुसमानरूपत्वादेकमेव, उभयव्यतिरिक्तानि तु शुक्रशोणितयोः समविकाररूपत्वात् मातापित्रोः साधारणाके - शादिकं बहुसमानरूपत्वादेकमेव, उभयव्यतिरिक्तानि तु शुक्रशोणितयोः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy