SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ९२ - भगवतीअङ्गसूत्रं १/-/६/७८ मपेक्ष्य बहुत्वमल्पत्वं चावसेयमिति, यदाह. ॥१॥ “पढमचरिमाउ सिसिरे गिम्हे अद्धं तु तासिं वज्जेत्ता। पायं ठवे सिणेहाइरक्खणठ्ठा पवेसे वा॥" लेपितपात्रंबहिर्नस्थापयेत्स्नेहादिरक्षणार्थायेति, सूक्ष्मः स्नेहकाय' इति अप्कायविशेष इत्यर्थः ‘उड्डे'त्तिऊर्ध्वलोके वर्तुलवैताढ्यादिषु 'अहे'त्तिअधोलोकग्रामेषु तिरियं'ति तिर्यग्लोके 'दीहकालं चिट्ठइत्ति तडागादिपूरणात्, 'विद्धंसमागच्छइत्ति स्वल्पत्वात्तस्येति । शतकं-१ उद्देशकः-६समाप्तः -शतकं-१ उद्देशकः-७:वृ.अथ सप्तम आरभ्यते, तस्यचैवंसम्बन्धः-विध्वंसमागच्छतीत्युक्तंप्राक् इह तुतद्विपर्यय उत्पादोऽभिधीयते, अथाव लोक्थितिप्रागुक्ता इहापि सैव, तथा नेरइए'त्ति यदुक्तं सङ्ग्रहिण्यां तच्चावसरायातमिहोच्यत इति, तत्रादिसूत्रम् मू. (७९) नेरइए णं भंते ! नेरइएसु उववजमाणे किं देसेणं देसं उववज्जइ देसेणं सव्वं उववज्जइ सव्वेणं देसं उववज्जइ सव्वेणं सव्वं उववज्जइ ?, गोयमा ! नो देसेणं देसं उववजइ नो देसेणं सव्वं उववज्जइ नो सव्वेणं देसं उववजइ सव्वेणं सव्वं उववजइ । जहा नेरइए एवं जाव वेमाणिए । वृ. 'नेरइएणंभंते! नेरइएसुउववज्जमाणे'त्ति,ननूत्पद्यमानएव कथंनारकइतिव्यपदिश्यते अनुत्पन्नत्वात्, तिर्यगादिव इति, अत्रोच्यते, उत्पद्यमान उत्पन्न एव, तदायुष्कोदयात्, अन्यथा तिर्यगाद्यायुष्काभावान्नारकायुष्कोऽदयेऽपि यदि नारको नासौ तदन्यः कोऽसौ ? इति, 'किं देसेणं देसं उववजइत्ति देशेन च देशेन च यदुत्पादनं प्रवृत्तं तद्देशेनदेशं, छान्दसत्वाचाव्ययीभावप्रतिरूपः समासः, एवमुत्तरत्रापि, तत्रजीवः किं देशेन' स्वकीयावयवेन देशेन' नारकावयविनोऽशतयोत्पद्यते अथवा देशेन देशमाश्रित्योत्पादयित्वेति शेषः, एवमन्यत्रापि । तथा 'देसेणं सव्वं ति देशेन च सर्वेण च यत् प्रवृत्तं तदेशेनसर्वं, तत्र देशेन-स्वावयवेन सर्वतः-सर्वात्मना नारकावयवितयोत्पद्यत इत्यर्थः,आहोश्चित्सर्वेण-सर्वात्मनादेशतो-नारकांशतयोत्पद्यते, अथवा 'सर्वेण' सर्वात्मना सर्वतो नारकतयेति प्रश्नः ४, अत्रोत्तरम्-न देशेनदेशतयोत्पद्यते, यतो न परिणामिकारणावयवेन कार्यावयवो निवर्तयते, तन्तुना पटाप्रतिबद्धपटप्रदेशवत्, यथा हिपटदेशभूतेन तन्तुनापटाप्रतिबद्धःपटदेशोन निर्वतयतेतथा पूर्वातयविप्रतिबद्धन तद्देशेनोत्तरावयविदेशो न निर्व्वत्यत इति भावः। तथा न देशेन सर्वतयोत्पद्यते, अपरिपूर्णकारणत्त्वात्, तन्तुना पटइवेति ।तथान सर्वेण देशतयोत्पद्यते, संपूर्णपरिणामिकारणत्त्वात्, समस्तघटकारणैर्घटैकदेशवत् । 'सव्वेणं सव्वं उववज्जई' सर्वेण तु सर्व उत्पद्यते, पूर्णकारणसमवायाद्, घटवदिति चूर्णिव्याख्या, टीकाकारस्त्वेवमाह । किमवस्थित एवजीवो देशमपनीय यत्रोत्पत्तव्यं तत्र देशत उत्पद्यते? १, अथवा देशेन सर्वत उत्पद्यते? २, अथवा सर्वात्मना यत्रोत्पत्तव्यं तस्य देशे उत्पद्यते? ३, अथवा सर्वात्मना सर्वत्र? ४इति। एतेषुपाश्चात्यभङ्गौग्राह्यो, यतः सर्वेण-सर्वात्मप्रदेशव्यापारेणेलिकागतौयत्रोत्पत्तव्यं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy