SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ शतकं-१, वर्गः-, . उद्देशकः-६ तोऽनन्तरं द्वितीये स्थानेऽलोकान्त इत्येवमस्थानतया स्पृशति, अन्यथा तु स्पर्शनैव न स्यात्, तं च षट्सु दिक्षु स्पृशति, लोकान्तस्य पार्श्वतः सर्वतोऽलोकान्तस्य भावात्, इह च विदिक्षु स्पर्शना नास्ति, दिशां लोकविष्कम्भप्रमाणत्वाद् विदिशां च तत्परिहारेण भावादिति । एवं द्वीपान्तसारगान्तादिसूत्रेषु स्पृष्टादिपदभावना कार्या, नवरं द्वीपान्तसागरान्तादिसूत्रे 'छद्दिंसिं' इत्यस्यैवं भावना - योजनसहस्रावगाढा द्वीपाश्च समुद्राश्च भवन्ति, ततश्चोपरितनानधस्तनांश्च द्वीपसमुद्रप्रदेशानाश्रित्य ऊर्ध्वाधोदिग्द्वयस्य स्पर्शना वाच्या, पूर्वादिदिशां तु प्रतीतैव, समन्ततस्तेषामवस्थानात् ॥ 'उदयंते पोयंतं 'ति नद्याद्युदकान्तः 'पोतान्तं' नौपर्यवसानम्, इहाप्युच्छ्रयापेक्षया उर्द्धदिक्- स्पर्शना वाच्या जलनिमज्जेन वेति । 'छिद्दंते दूसंत' न्ति छिद्रान्तः 'दूष्यान्तं' वस्त्रान्तं स्पृशति, इहापि षड्दिक्स्पर्शनाभावना वस्त्रेच्छ्रयापेक्षया, अथवा कम्बलरूपवस्त्रपोट्टलिकायां तन्मध्योत्पन्नजीवभक्षणेन तन्मध्यरन्ध्रापेक्षया लोकान्तसूत्रवत् षड्दिक्स्पर्शना भावयितव्या । ८७ ‘छायंते आयवंतं’ति इह छायाभेदेन षडूदिग्भावनैवम् आतपे व्योमवर्त्तिपक्षिप्रभृतिद्रव्यस्य या छाया तदन्त आतपान्तं चतसृषु दिक्षु स्पृशति तथा तस्या एव छायाया भूमेः सकाशात्तद्रव्यं यावदुच्छ्रयोऽस्ति, ततश्च छायान्त आतपान्तमूर्ध्वमधश्च स्पृशति, अथवा प्रासादवरण्डिकादेर्या छाया तस्या भित्तेरवतरन्त्या आरोहन्त्या वाऽन्त आतापान्तमूर्ध्वमधश्च स्पृशतीति भावनीयम्, अथवा तयोरेव छायाऽऽतपयोः पुद्गलानामसङ्ख्येयप्रदेशावगाहित्वादुच्छ्रयसद्भावः, तत्सद्भावाच्चोर्ध्वाधोविभागः, ततश्च छायान्त आतपान्तमूर्ध्वमधश्च स्पृशतीति । स्पर्शनाऽधिकारादेव च प्राणातिपातादिपापस्थानप्रभवकर्मस्पर्शनामधिकृत्याह मू. (७१) अत्थि णं भंते! जीवाणं पाणाइवाएणं किरिया कज्जइ ?, हंता अत्थि । सा भंते ! किं पुट्ठा कज्जइ अपुठ्ठा कजइ ?, जाव निव्वाधाएणं छद्दिसिं वाघायं पडुच्च सिय तिदिसिं सिय चउदिसिं सिय पंचदिसिं । सा भंते ! किं कडा कज्जइ अकडा कज्जइ ?, गोयमा ! कडा कज्जइ नो अकडा कज्जइ । सा भंते ! किं अत्तकडा कज्जइ परकडा कज्जइ तदुभयकडा कजइ ?, गोयमा ! अत्तकडा कज्जइ नो परकडा कज्जइ नो तदुभयकडा कज्जइ । सा भंते! किं आनुपुव्विं कडा कज़इ अनानुपुव्विं कडा कज्जइ ?, गोयमा ! आनुपुव्विं कडा कज्जइ नो अनानुपुव्विं कडा कज्जइ, जाय कडा जा य कज्जइ जा य कज्जिस्सइ सव्वा सा आनुपुव्विं कडा नो अनानुपुव्विं कडत्ति वत्तव्वं सिया । अत्थि णं भंते! नेरइयाणं पाणाइवायकिरिया कज्जइ ?, हंता अत्थि । सा भंते! किं पुट्ठा कज अपुठ्ठाकजइ जाव नियमा छद्दिसिं कज्जइ, सा भंते! किं कड़ा कज्जइ अकडा कज्जइ ?, तं चैव जाव नो अणनानुपुव्विं कडत्ति वत्तव्वं सिया, जहा नेरइया तहा एगिदियवज्जा भाणियव्वा, जाव वेमाणिया, एगिंदिया जहा जीवा तहा भाणियव्वा । जहा पाणाइवाए तहा मुसावाए तहा अदिन्नादाणे मेहुणे परिग्गहे कोहे जाव मिच्छादंसणसल्ले, एवं एए अट्ठारस चउवीसं दंडगा भाणियव्वा । सेवं भंते! सेवं भंते! त्ति भंगवं गोयमे समणं भगवं जाव विहरति । वृ. 'अत्थि' त्ति अस्त्ययं पक्ष :- 'किरिया कज्जइ 'त्ति, क्रियत इति क्रिया-कर्म सा क्रियतेभवति, 'पुट्टे' इत्यादेव्याखया पूर्ववत् । 'कडा कज्जइ' त्ति कृता भवति, अकृतस्य कर्मणोऽभावात्, For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy