________________
भगवती अङ्गसूत्रं १/-/५/६८
समचउरंसे ६ । एवं लेश्याद्वारे - 'कइ लेसाओ पन्नत्ताओ ?, गोयमा ! छ लेस्सा प०, तंजहाकिण्हलेस्सा' ६ ।
'मणुस्साणवि 'त्ति, यथा नैरयिका दशसु द्वारेष्वभिहितास्तथा मनुष्या अपि भणितव्या इति प्रक्रमः, तदेवाह - 'जेही' त्यादि, तत्र नारकाणां जघन्यस्थितावेकादिसङ्ख्यातान्तसमयाधिकायां १ तता जघन्यावगाहनायां २ तस्यामेव सङ्ख्यातान्तप्रदेशाधिकायां ३ मिश्रे च ४ अशीतिर्भङ्गका उक्ताः, मनुष्याणामप्येतेष्वशीतिरेव, तत्कारणं च तदल्पत्वमेवेति ।
८४
नारकाणां मनुष्याणां च सर्वथा साम्यपरिहारायाह - 'जेसु सत्तावीसा' इत्यादि, सप्तविंशतिर्भङ्गकस्थानानि च नारकाणां जघन्यस्थित्यसङ्ख्यातसमयाधिकजघन्यस्थितिप्रभृतीनि, तेषु च जघन्यस्थितौ विशेषस्य वक्ष्यमाणत्वेन तद्वर्जेषु मनुष्याणामभङ्गकं यतो नारकाणां बाहुल्येन क्रोधोदय एव भवति तेन तेषां सप्तविंशतिर्भङ्कका उक्तस्थानेषु युज्यन्ते, मनुष्याणां तु प्रत्येकं क्रोधाद्युपयोगवतां बहूनां भावान्न कषायोदये विशेषोऽस्ति, तेन तेषां तेषु स्थानेषु भङ्गकाभाव इति । इहैव विशेषाभिधानायाह-नवरमित्यादि, येषु स्थानेषु नारकाणामशीतिस्तेषु मनुष्याणामप्यशीति तथा 'जेसु सत्तावीसा तेसु अभंगय' मित्युक्तं, केवलं मनुष्याणामिदमभ्यधिकं यदुत जघन्यस्थितौ तेषामशीतिर्न तु नारकाणां तत्र सप्तविंशतिरुक्तेत्यभङ्गकम् । तथाऽऽहारकशरीरे अशीतिराहारकशरीरवतां मनुष्याणामल्पत्वान्नारकाणां तन्नास्त्येवेत्येतदप्यभ्यधिकं मनुष्याणामिति, इह च नारकसूत्राणां मनुष्यसूत्राणां च प्रायः शरीरादिषु चतुर्षु ज्ञानद्वार एव च विशेषः, तथाहि'असंखेजेसु णं भंते' ! मणुस्सावासेसु मणुस्साणं कइ सरीरा पन्नत्ता ?, गोयमा ! पंच, तंजहाओरा लिए वेउव्विए आहारए तेयए कम्मए, असंखेज्जेसु णं जाव ओरालियसरीरे वट्टमाणा मणुस्सा किं कोहोवउत्ता ४, गो० ! कोहोवउत्तावि ४, एवं सर्वशरीरकेषु नवरमाहारकेऽशीतिर्भङ्गकानां वाच्या । एवं संहननद्वारेऽपि नवरं 'मणुस्साणं भंते! कइ संघयणा पन्नत्ता ?, गोयमा ! छस्संघयणा पन्नत्ता, तंजहा- वइरोसहनाराए जाव छेवठ्ठे' । संस्थानद्वारे 'छ संठाणा पन्नत्ता, तंजहा - समचउरंसे जाव हुंडे' । लेश्याद्वारे 'छ लेसाओ, तंजहा - किण्हलेस्सा जाव सुक्कलेसा' । ज्ञानद्वारे 'मणुस्साणं भंते ! कइ नाणाणि ? गोयमा ! पंच, तंजहा - आभिनिबोहियणाणं जाव केवलनाणं' । एतेषु च केवलवर्जेष्वभङ्गकं, केवलेतु कषायोदय एव नास्तीति ।
‘वाणमंतरे’त्यादि, व्यन्तरादयो दशस्वपि स्थानेषु यथा भवनवासिनस्तथा वाच्याः, यत्रा सुरादीनामशीतिर्भङ्ककाः यत्र च सप्तविंशतिस्तत्र च व्यन्तरादीनामपि ते तथैव वाच्याः, भङ्गकास्तु लोभमादौ विधायाध्येतव्याः, तत्र भवनवासिभिः सह व्यन्तराणां साम्यमेव, ज्योतिष्कादीनां तु न तथैव वाच्याः, भङ्गकास्तु लोभमादौ विधायाध्येतव्याः, तत्र भवनवासिभिः सह व्यन्तराणां साम्यमेव, ज्योतिष्कादीनां तु न तथेति तैस्तेषां सर्वथा साम्यपरिहारसूचनायाह- 'नवरं नाणत्तं जाणियव्वं जं जस्स’त्ति, ‘यत्' लेश्यादिगतं 'यस्य' ज्योतिष्कादेः 'नानात्वम्' इतरापेक्षया भेदस्तदज्ञातव्यमिति, परस्परतो विशेषं ज्ञात्वैतेषां सूत्राण्यध्येयानीतिभावः ।
तत्र लेश्याद्वारे - ज्योतिष्काणामेकैव तेजोलेश्या वाच्या, ज्ञानद्वारे त्रीणि ज्ञानानि, अज्ञानान्यपि त्रीण्येव, असञ्ज्ञिनां तत्रोपपाताभावेन विभङ्गस्यापर्याप्तकावस्थायामपि भावात् । तथा वैमानिकानां लेश्याद्वारे तेजोलेश्यादयस्तिनो लेश्या वाच्याः । ज्ञानद्वारे च त्रीणि ज्ञानान्यज्ञानानि
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International