________________
शतकं-१, वर्गः-, उद्देशकः-५ ___मणुस्साणविजेहिं ठाणेहिं नेरइयाणं असीतिभंगा तेहिं ठाणेहिं मणुस्साणवि असीतिभंगा भाणियव्वा, जेसु ठाणेसु सत्तावीसा तेसु अभंगयं, नवरं मणुस्साणं अब्भहियं जहनिया ठिई आहारए य असीति भंगा।
वाणमंतरजोइसवेमाणिया जहा भवणवासी, नवरं नाणत्तं जाणियव्वं जं जस्स, जाव अनुत्तरा, सेवं भंते ! सेवं भंते! ति।
वृ. 'बेइंदिए'त्यादावेवमक्षरघटना-'जेहि ठाणेहिं नेरइयाणं असीइभंगा तेहिं ठाणेहिं बेइंदियतेइंदियचउरिंदियाणं असीइं चेव'त्ति, तत्रैकादिसङ्ख्यातान्तसमयाधिकायांजघन्यस्थिती १ तथाजघन्यायामगाहनायांच २ तत्रैवच सद्धेययान्तप्रदेशवृद्धायां ३ मिश्रदृष्टौ च नारकाणामशीतिभङ्गका उक्ताः, विकलेन्द्रियाणामप्येतेषुस्थानेषु मिश्रष्टिवर्जेष्वशीतिरेव, अल्पत्वात्तेषाम् एकैकस्यापिक्रोधाधुपयुक्तस्य सम्भवात्, मिश्रद्दष्टिस्तु विकलेन्द्रियेष्वेकेन्द्रियेषुचन संभवतीति न विकलेन्द्रियाणां तत्राशीतिभङ्गकसम्भव इति, वृद्धैस्त्विह सूत्रे कुतोऽपि वाचनाविशेषाद् यत्राशीतिस्तत्राप्यभङ्गकमिति व्याख्यातमिति।
इहैव विशेषाभिधानायाह-नवरमित्यादि, अयमर्थः-दृष्टिद्वारे ज्ञानद्वारे च नारकाणां सप्तविंशतिरुक्ता, विकलेन्द्रियाणांतु अब्भहिय'त्तिअभ्यधिकाऽन्याऽशीतिभङ्गकानां भवति, क्व ?, इत्याह-सम्यक्त्वे, अल्पीयसां हि विकलेन्द्रियाणां सास्वादनभावेन सम्यक्त्वं भवति, अल्पत्वाच्चैतेषामेकत्वस्यापि सम्भवेनाशीतिभङ्गकानां भवति, एवमाभिनिबोधिके श्रुते चेति।
तथा 'जेही' त्यादि, येषु स्थानकेषु नैरयिकाणां सप्तविंशतिर्भङ्गकास्तेषु स्थानेषु द्वि त्रि चतुरिन्द्रियाणां भङ्गकाभावः, तानि च प्रागुक्ताशीतिभङ्गकस्थानविशिष्टानि मन्तव्यानि, भङ्गकाभावश्च क्रोधाधुपयुक्तानामेकदैव बहूनां भावादिति।
विकलेन्द्रियसूत्राणिचपृथिवीकायिकसूत्राणीवाध्येयानि, नवरमिह लेश्याद्वारे-तेजोलेश्या नाध्येतव्या, दृष्टिद्वारे च 'बेइंदिया णं भंते ! किं सम्मद्दिठी मिच्छादिछी सम्मामिच्छादिठी ?, गोयमा ! सम्मद्दिट्टीवि मिच्छद्दिट्ठीवि नो सम्मामिच्छादिछी, सम्मइंसणे वट्टमाणा बेइंदिया किं कोहोवउत्ता?' इत्यादि प्रश्नोत्तरमशीतिर्भङ्गकाः। तथा ज्ञानद्वारे-'बेइंदिया णं भंते ! किं नाणी अन्नाणी ?, गोयमा ! नाणीवि अन्नाणीवि, जइ णनभी दुन्नाणी मइनाणी सुयनाणी य' शेषं तथैवाशीतिश्च भङ्गा इति । योगद्वारे 'बेइंदिया णं भंते ! किं मणजोगी वइजोगी कायजोगी?, गोयमा ! नो मणजोगी वइजोगी कायजोगी य' शेषं तथैव ।
एवं त्रीन्द्रियचतुरिन्द्रियसूत्राण्यपि।
'पंचेदिये'त्यादि जहिंसत्तावीसंभंग'त्ति, यत्र नारकाणांसप्तविंशतिर्भङ्गकास्तत्र पञ्चेन्द्रियतिरश्चामभङ्गकं, तच्च जघन्यस्थित्यादिकं पूर्वं दर्शितमेव, भङ्गकाभावश्च क्रोधाधुपयुक्तानां बहूनामेकदैवतेषु भावादिति, सूत्राणि चेह नारकसूत्रवदध्येयानि, नवरं शरीरद्वारेऽयं विशेषः'असंखेज्जेसु णं भंते ! पंचिंदयतिरिक्खजोणियावासेसु पंचिंदियतिरिक्खजोणियाणं केवइया सरीरापन्नत्ता?,गोयमा? चत्तारि, तंजहा-ओरालिए वेउब्विएतेयएकम्मए' सर्वत्र चाभङ्गकमिति तथा संहननद्वारे 'पंचिंदियतिरिक्खजोणियाणं केवइया संघयणापन्नत्ता?,गोयमा!छ संघयणा पं०, तंजहा-वइरोसहनारायं जाव छेवट्ठति । एवं संस्थानद्वारेऽपि छ संठाणा पन्नत्ता, तंजहा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org