________________
भगवती अङ्गसूत्रं १/-/५/६४
ज्ञानद्वारे 'तिन्नि नाणाइं नियम' त्ति ये ससम्यक्त्वा नरकेषूत्पद्यन्ते तेषां प्रथमसमयादारभ्य भवप्रत्ययस्यावधिज्ञानस्य भावात् त्रिज्ञानिन एव ते, ये तु मिथ्यादृष्टयस्ते सञ्ज्ञिभ्योऽ सञ्ज्ञिभ्यश्वोत्पद्यन्ते तत्र ये सञ्ज्ञिभ्यस्ते भवप्रत्ययादेव विभङ्गस्य भावात् त्र्यज्ञानिनः, ये त्वसञ्ज्ञिभ्यस्तेषामाद्यादन्तर्मुहूर्तात्परतो विभङ्गस्योत्पत्तिरिति तेषां पूर्वमज्ञानद्वयं
८०
119 11
पश्चाद्विभङ्गोत्पत्तावज्ञानत्रयमित्यत उच्यते - ' तिन्नि अन्नाणाई भयणाए 'त्ति 'भजनया' विकल्पनया कदाचिद्दध्वे कदाचित्स्त्रीणात्यर्थः, अत्रार्थे गाथे स्याताम्“सन्नी नेरइएसुं उरलपरच्चायणंतरे समए । विभंग ओहिं वा अविग्गहे विग्गहे लहइ ॥ अस्सन्नी नरएसुं पज्जत्तो जेण लहइ विब्भंगं । नाणा तिन्नेव तओ अन्नाणा दोन्नि तिन्नेव ॥
॥२॥
एवं तिन्त्रिणाणे त्यादि, आभिनिबोधिकज्ञानवत् सप्तविंशतिभङ्गकोपेतानि आद्यानि त्रीणि ज्ञानानि अज्ञनानि चेति, इह च त्रीणि ज्ञानानीति यदुक्तं तदाभिनिबोधिकस्य पुनर्गणनेनान्यथा द्वे एव ते वाच्ये स्यातामिति । 'तिन्नि अन्नाणाई' इत्यत्र यदि मत्यज्ञानश्रुताज्ञाने विभङ्गात्पूर्वकालभाविनी ववक्ष्येते तदाऽशीतिर्भङ्गा लभ्यन्ते, अल्पत्वात्तेषां, किन्तु जघन्यावगाहनास्ते ततो जघन्यावगाहनाश्रयेणैवाशीतिर्भङ्गकासेतषामवसेया इति ।
योगद्वारे 'एवं कायजोए 'त्ति, इह यद्यपि केवलकार्मणकाययोगेऽशीतिर्भङ्गाः संभवन्ति तथाऽपि तस्याविवक्षणात् सामान्याकाययोगाश्रयणाच्च सप्तविंशतिरुक्तेति ।
उपयोगद्वारे 'सागरोवउत्त'त्ति, आकारो- विशेषांशग्रहणशक्तिस्तेन सहेति साकारः, तद्विकलोऽनाकारः सामान्यग्राहीत्यर्थः ।
'नाणत्तं लेसासु' त्ति, रत्नप्रभापृथिवीप्रकरणवच्छेषपृथिवीप्रकरणान्यध्येयानि, केवलं लेश्यासु विशेषः, तासां भिन्नत्वाद्, अत एव तद्दर्शनाय गाथामू. (६५) काऊ य दोसु तइयाए मीसिया नीलिया चउत्थीए ।
पंचमियाए मीसा कण्हा तत्तो परमकण्हा ।
वृ. 'काऊ' इत्यादि, तत्र 'तइयाए मीसिय'त्ति वालुकाप्रभाप्रकरणे उपरितननरकेषु कापोती अधस्तनेषु तु नीली भवतीति ते यथासम्भवं प्रश्नसूत्रे उत्तरसूत्रे चाध्येतव्य इत्यर्थः, यच्च सूत्राभिलापेषु नरकावाससङ्ख्यानानात्वं तत् 'तीसा य पन्नवीसा' इत्यादिना पूर्वप्रदर्शितेन समयवेयमिति, एवं सूत्राभिलापः कार्यः
'सक्करप्पभाए णं भंते ! पुढवीए पणवीसाए निरयावाससयसहस्सेसु एकमेक्कंसि निरयावासंसि कइ लेस्साओ पन्नत्ताओ ?, गोयमा ! एगा काउलेस्सा पन्नत्ता । सक्करप्पभाए णं भंते ! जाव काउलेसाए वट्टमाणा नेरइया किं कोहोवउत्ता ?' इत्यादि 'जाव सत्तावीसं भंगा' । एवं सर्वपृथिवीषु गाथाऽनुसारेण वाच्याः ॥
मू. (६६) चउसट्ठीए णं भंते ! असुरकुमारावाससयसहस्सेसु एगमेगंसि असुरकुमारावासंसि असुरकुमाराणं केवइया ठिइठाणा पन्नतता ?, गोयमा ! असंखेज्जा ठितिठाणा पन्नत्ता, जहन्निया ठिई जहा नेरइया तहा ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org