SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ शतकं-१, वर्गः-, उद्देशकः-५ ७९ या स्थित्याश्रया अवगाहनाश्रया च भङ्गकप्ररूपणा सा तथैव दृश्या, निरवकाशत्वात्तस्याः, शरीराश्रयायाश्च सावकाशत्वात्, एवमन्यत्रापि विमर्शनीयमिति । 'एएणं गमेणं तिन्नि सरीरया भाणियव्वत्ति, वैक्रियशरीरसूत्रपाठेन त्रीणि शरीरकाणि वैक्रियतैसजकार्मणानि भणितव्यानि, त्रिष्वपि भङ्गकाः सप्तविंशतिर्वाच्येत्यर्थः, ननु विग्रहगतौ केवले ये तैजसकार्मणशरीरे स्यातां तयोरल्पत्वेना-शीतिरपि भङ्गकानांसंभवतीति कथमुच्यते? तयोः सप्तविंशतिरेवेति, अत्रोच्यते, सत्यमेतत् केवलंवैक्रियशरीरानुगतयोस्ययोरिहाश्रयणं केवलयोश्चानाश्रयणमितिसप्तविंशतिरेवेति, यच्च द्वयोरेवादिदेश्यत्वे त्रीणीत्युक्तं तच त्रयाणामपि गमस्यात्यन्तसाम्योपदर्शनार्थमिति॥ संहननद्वारे 'छण्हं संघयणाणं असंघयणि त्ति, षण्णां संहननानां-वज्रर्षभनाराचादीनां मध्यादेकतरेणापि संहननेनासंहननानीति, कस्मादेवमित्यत् आह-'नेवट्ठी'त्यादि, नैवास्थ्यादीनि तेषांसन्ति अस्थिसञ्चयरूपंच संहननमुच्यत इति, 'अनिट्ठ'त्तिइष्यन्ते स्मेतीष्टास्तनिषेधादनिष्टाः, अनिष्टमपि किञ्चित्कमनीयं भवतीत्यत उच्यते-अकान्ताः, अकान्तमपि किञ्चित्कारणवशात् प्रीतये भवतीत्याह- 'अप्पिया' अप्रीतिहेतवः, अप्रियत्वंतेषां कुतः?, यतः ‘असुभ'त्तिअशुभस्वभावाः, ते च सामान्या अपि भवन्तीत्यतो विशेष्यते-'अमणुण्ण'त्ति न मनसा-अन्तःसंवेदनेन शुभतया ज्ञायन्त इत्यमनोज्ञाः, अमनोज्ञता चैकदाऽपि स्यादत आह-'अमणाम'त्ति न मनसा अभ्यन्ते-गम्यन्ते पुनः पुनः स्मरणतो ये ते अमनोऽमाः, एकार्थिका वैते शब्दाः अनिष्टताप्रकर्षप्रतिपादनार्था इति । एतेसिं सरीरसंघायत्ताए'त्ति सङ्घाततया, शरीरपूपसञ्चयतयेत्यर्थः । संस्थानद्वारे 'किंसंठिय'त्तिकिंसंस्थितं-संस्थानंयेषांतानि किंसंस्थितानि, भवधारणिज्जत्ति भवधारणं-निजजन्मातिवाहनं प्रयोजनं येषांतानि भवधारणीयानि, आजन्मधारणीयानीत्यर्थः, 'उत्तरवेउब्विय'त्ति पूर्ववैक्रियापेक्षयोत्तराणि-उत्तरकालभावीनि वैक्रियाणि उत्तरवैक्रियाणि, 'हुंडसंठिय'त्ति सर्वत्रासंस्थितानि॥ मू. (६४) इमीसेणंजाव किं सम्मद्दिट्ठी मिच्छदिट्ठी सम्मामिच्छदिट्ठी?, तिन्निवि । इमीसे णं जाव सम्मइंसणे वट्टमाणा नेरइया सत्तावीसं भंगा, एवं मिच्छदसणेवि, सम्मामिच्छदसणे असीति भंगा। इमीसे णं भंते ! जाव किं नाणी अन्नाणी?, गोयमा! नाणीवि अन्नाणीवि, तिन्नि नाणाई नियमा, तिन्नि अन्नाणाइंभयणाए। इमीसेणंभंते! जाव आभिनिबोहियनाणे वट्टमाणासत्तावीसं भंगा, एवं तिनि नाणाइं तिन्नि अन्नाणाइंभाणियव्वाइं। इमीसे गंजाव किंमणजोगी वइजोगी कायजोगी,? तिन्निवि । इमीसेणंजाव मणजोए वट्टमाणा कोहोवउत्ता?, सत्तावीसं भंगा । एवं वइजोए एवं कायजोए। इमीसेणंजाव नेरइया किं सागारोवउत्ताअनागारोवउत्ता?, गोयमा! सागरोवउत्तावि अनागारोवउत्तावि । इमीसे मं जाव सागारोवओगे वट्टमाणा किं कोहोवउत्ता?, सत्तावीसंभंगा एवं अनागारोवउत्तावि । इमीसे णं जावसागारोवओगे वट्टमाणा किं कोहोवउत्ता?, सत्तावीसं भंगा । एवं अनागारोवउत्तावि । इमीसे णं जावसागारोवओगे वट्टमाणा किं कोहोवउत्ता?, नाणतं लेसासु गाहा वृष्टिद्वारे 'सम्मामिच्छादसणे असीइभंग'त्ति मिश्रष्टीनामल्पत्वात्तद्भावस्यापि च कालतोऽल्पत्वादेकोऽपि लभते इत्यशीतिभङ्गाः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy