SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ भगवतीअङ्गसूत्रं १/-/४/५१ 'जहा छउमत्थो' इत्यादेरियं भावना 'आहोहिएणं भंते! मणूसेऽतीतमनंतं सासय' मित्यादि दण्डकत्रयं, तत्राधः-परभावघेरधस्ताद् योऽवधिः सोऽधोऽवधिस्तेन यो व्यवहरत्यसी आधोऽवधिकः-परिमितक्षेत्रविषयावधिकः 'परमाहोहिओ 'त्ति परम आधोऽवधिकाद्यः स परमाधोऽवधिकः, प्राकृतत्वाच्च व्यत्ययनिर्देशः, 'परमोहिओ' त्ति क्वचित्पाठो व्यक्तश्च, सच समस्तरूपिद्रव्या-सङ्ख्यायतलोकमात्रालोकखण्डासङ्ख्यातावसर्पिणीविषयावधिज्ञानः, 'तिन्नि आलावग त्ति कालत्रयभेदतः, 'केवलीण' मित्यादि केवलिनोऽप्येते एव त्रयो दण्डकाः विशेषस्तु सूत्रोक्त एवेति 'सेणू 'मित्यादिषु कालत्रयनिर्देशो वाच्य एवेति, 'अलमत्युत्ति वत्त्ववं सिय'त्ति 'अलमस्तु' पर्याप्तंभवतु नातः परं किञ्चिद्ज्ञानान्तरंप्राप्तव्यमस्यास्तीत्येतद्वक्तव्यं 'स्यात्' भवेत्, सत्यत्वादस्येति शतकं -१ उद्देशकः-४ समाप्तः ७४ -: शतकं-१ उद्देशक- ५ : वृ. अनन्तरोद्देशकस्यान्तिमसूत्रेष्वर्हदादय उक्तास्ते च पृथिव्यां भवन्तीति अथवा पृथिवीतोऽप्युद्धृत्य मनुजत्वमवाप्ताः सन्तस्ते भवन्तीति पृथिवीप्रतिपादनायाह तथा 'पुढवि' त्ति यदुद्देशकसङ्ग्रहिण्यामुक्तं तत्प्रतिपादनाय चाह मू. (५२) कति णं भते ! पुढवीओ पन्नत्ताओ ?, गोयमा ! सत्त पुढवीओ पन्नत्ताओ, तंजहा-रयणप्पभाजाव तमतमा ।। इमीसेणंभंते! रयणप्पभाए पुढवीए कति निरयावाससयसहस्सा पन्नत्ता ?, गोयमा ! तीसं निरयावाससयसहस्सा पन्नत्ता, गाहा वृ. तत्र 'रयणप्पभ'त्ति नरकवर्ज प्रायः प्रथमकाण्डे इन्द्रनीलादिबहुविधरनसम्भवात् रत्नानां प्रभा दीप्तिर्यस्यां सा रत्नप्रभा, यावत्करणादिदं श्यं शर्कराप्रभा वालुकाप्रभा पङ्कप्रभा धूमप्रभा तमःप्रभेति, शब्दार्थश्च रत्नप्रभावदिति, 'तमतम' त्ति तमस्तमः प्रभेत्यर्थः, तत्र प्रकृष्टं तमस्तम- स्तमस्तस्यैव प्रभा यस्याः सा तमस्तमः प्रभा । एतासु च नरकावासा भवन्तीति तान् आवासाधिकाराच्च शेषजीवावासान् परिमाणतो दर्शयन्नाह - 'इमीसे ण' मित्यादि, 'अस्यां' विनेयप्रत्यक्षायां 'नरयावाससयहसहस्स' त्ति आवसन्ति येषु ते आवासाः नरकाश्च ते आवासाश्चेति नरकावासास्तेषां यानि शतसहास्रणि तानि तथेति । शेषपृथिवीसूत्राणि तु गाथाऽनुसारेणाध्येयानि, अत एवाह- 'गाह'त्ति०, सा चेयंतीसा य पन्नवीसा पन्नरस दसेव या सयसहस्सा । मू. (५३) तिनेगं पंचूणं पंचेव अनुत्तरा निरया ॥ वृ. 'तीसा य पन्नवीसा' इत्यादि, सूत्राभिलापश्च - सक्करप्पभाए णं भंते ! पुढवीए कइ निरयावाससयसहस्सा पन्नत्ता ?, गोयमा पणवीसं निरयावाससयसहस्सा पन्नत्ता' इत्यादिरिति मू. (५४) केवइया णं भंते असुरकुमारावाससयसहस्सा पन्नत्ता ?, एवं - मू. (५५) चउसट्ठी असुराणं चउरासीइं य होइ नागाणं । बावत्तरिं सुवन्नाण वाउकुमाराण छन्नउई । दीवदिसाउदहीणं विज्जुकुमारिंदधणियमग्गीणं । छण्हंपि जुयलयाणं छावत्तरिमो सयसहस्सा ॥ मू. (५६) For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy