________________
शतकं -१, वर्ग:-, उद्देशकः-४
७३
एवमनागतस्यापीति । अनन्तरं स्कन्ध उक्तः, स्कन्धश्च स्वप्रदेशापेक्षया जीवोऽपि स्यादिति जीवसूत्रं, जीवाधिकाराश्च प्रायो यथोत्तरप्रधानजीववस्तुवक्तव्यतामुद्देशकान्तं यावदाह
मू. (५१) छउमत्थे णं भंते! मणूसे अतीतमनंतं सासयं समयं भुवीति केवलेणं संजमेणं केवलेणं संवरे० केवलेणं बंभचेरवासेणं केवलाहिं पवयणमाईहिं सिज्झिसु बुज्झिसु जाव सव्वदुक्खाणमंतं करिंसु ? गोयमा ! नो इणट्टे समट्टे । से केणट्टेणं भंते! एवं वुच्चइ तं चैव जाव अंतं करेंसु ? गोयमा! जे केइ अंतकरा वा अंतिमसरीरिया वा सव्वदुक्खाणमंतं करेंसु वा करेंति वा करिस्संति वा सव्वे ते उप्पन्ननाणदंसणधरा अरहा जिणे केवली भवित्ता तओ पच्छ सिज्झंति बुज्झंति मुच्चंति परिनिव्वायंति सव्वदुक्खाणमंतं करेंसु वा करेति वा करिस्संति वा, से तेणट्टेणं गोयमा ! जाव सव्वदुक्खाणमंतं करेंसु० ।
पडुप्पन्नेऽवि एवं चेव नवरं सिज्झति भाणियव्वं, अणागएवि एवं चेव, नवरं सिज्झिस्संति भाणियव्वं, जहा छउमत्थो तहा आहोहिओवि तहा परमाहोहिओऽवि तिन्नि तिन्नि आलावगा भाणियव्वा । केवली णं भंते ! मणूसे तीतमणंतं सासयं समयं जाव अंतं करेंसु ? हंता सिज्झिसु जाव अंतं करेंसु, एते तिन्नि आलावगा भाणियव्वा छउमत्थस्स जहा नवरं सिज्झिसु सिज्झिति सिज्झिस्संति ।
से नूनं भंते! तीतमनंतं सासयं समयं पडुप्पन्नं वा सासयं समयं अनागयमनंतं वा सासयं समयं जे केइ अंतकरा वा अंतिमसरीरिया वा सव्वदुक्खाणमंतं करेंसु वा करेति वा करिस्संति वा सव्वेत उप्पन्ननाणदंसणधरा अरहा जिणे केवली भवित्ता तओ पच्छ सिज्झंति जाव अंतं करेस्संति वा ? हंता गोयमा ! तीतमनंतं सासयं समयं जाव अंतं करेस्संति वा ।
से नूणं भंते! उप्पन्ननाणदंसणधरे अरहा जिणे केवलि अलमत्युत्ति वत्तव्वं सिया ? हंता गो० ! उप्पन्ननादंसणधरे अरहा जिणे केवली अलमत्युत्ति वत्तव्वं सिया । सेवं भंते! सेवं भंतेत्ति वृ. ‘छउमत्थे ण’मित्यादि, इह छद्मस्थोऽवधिज्ञानरहितोऽवसेयो, न पुनरकेवलिमात्रम्, उत्तरत्रावधिज्ञानिनो वक्ष्यमाणत्वादिति, 'केवलेणं' ति असहायेन शुद्धेन वा परिपूर्णेन वाऽसाधारणेन वा, यदाह - "केवलमेगं सुद्धं सगलमसाहारणं अनंतं च" 'संजमेणं' ति पृथिव्यादिरक्षणरूपेण ‘संवरेणं’ति इन्द्रियकषायनिरोधेन 'सिज्झिसु' इत्यादौ च बहुवचनं प्राकृतत्वादिति ।
एतच गौतमेनानेनाभिप्रायेण पृष्टं यदुत उपशान्तमोहाद्यवस्थायां सर्वविशुद्धाः संयमादयोऽपि भवन्ति विशुद्धसंयमादिसाध्या च सिद्धिरिति सा छद्मस्थस्यापि स्यादिति । 'अंतकरे' ति भवान्तकारिणः, तेच दीर्घतरकालापेक्षयाऽपि भवन्तीत्यत आह- 'अंतिमसरीरिया व'त्ति अन्तिमं शरीरं येषामस्ति तेऽन्तिमशरीरिकाः, चरमदेहा इत्यर्थः, वाशब्दौ समुच्यये ।
'सव्वदुक्खाणमंतं करेंसु' इत्यादी 'सिज्झिसु सिज्झंती' त्याद्यपि द्रष्टव्यं सिद्धयाद्यविनाभूतत्वात् सर्वदुःखान्तकरणस्येति, 'उप्पन्ननाणदंसणधरे 'ति उत्पन्ने ज्ञानदर्शने धारयन्ति ये ते तथा, न त्वनादिसंसिद्धज्ञानाः, अत एव 'अरह 'त्ति पूजार्हा 'जिण 'त्ति रागादिजेतारः, ते च छद्मस्था अपि भवन्तीत्यत आह-‘केवली 'ति सर्वज्ञाः, 'सिज्झंती' त्यादिषु चतुर्षु पदेषु वर्त्तमाननिर्देशस्य शेषोपलक्षणत्वात् ‘सिज्झिसु सिज्झति सिज्झिस्संती' त्येवमतीतादिनिर्देशो द्रष्टव्यः, अत एव 'सव्वदुक्खाण' मित्यादौ पञ्चमपदेऽसौ विहित इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org