________________
७२
भगवतीअगसूत्रं १/-/४/४९ वृ. 'नेरइयस्स वे' त्यादौ नास्ति मोक्षः इत्येवं संबन्धात्षष्ठी, 'जे कडे'त्ति तैरेव यद्वद्धं पावे कम्मे'त्ति पापम्' अशुभं नारकगत्यादि, सर्वमेव वा 'पापं दुष्टं, मोक्षव्याघातहेतुत्वात्, ‘तस्स'त्ति तस्मात्कर्मणः सकाशात् 'अवेइयत्त'त्ति तत्कर्माननुभूय, एवंखलु'त्तिवक्ष्यमाणप्रकारेण 'खलु' वाक्यालङ्कारे 'मए'त्ति मया, अनेन च वस्तुप्रतिपादने सर्वज्ञत्वेनात्मनः स्वातन्त्रयं प्रतिपादयति, 'पएसकम्मे यत्तिप्रदेशाः-कर्मपुद्गलाजीवप्रदेशेष्वोतप्रोतास्तद्रूपंकर्मप्रदेशकर्म अणुभागकम्मे य'त्ति अनुभागः-तेषामेव कर्मप्रदेशानां संवेद्यमानताविषयो रसस्तद्रूपं कर्मानुभागकर्म, तत्र यत्प्रदेशकर्म तन्नियमाद्वेदयति, विपाकस्याननुभवनेऽपिकर्मप्रदेशानामवश्यं क्षपणात्, प्रदेशेभ्यः प्रदेशानियमाच्छतयतीत्यर्थः, अनुभागकर्म च तथा भावं वेदयति वा न वा, यथा मिथ्यात्वं तत्क्षयोपशमकालेऽनुभागकर्मतया न वेदयति प्रदेशकर्मतातुवेदयत्येवेति।
इहच द्विविधेऽपि कर्मणि वेदयितव्ये प्रकारद्वयमस्ति, तच्चाहतैव ज्ञायते इतिदर्शयन्नाह'ज्ञातं' सामान्येनावगतम् ‘एतद्' वक्ष्यमाणं वेदनाप्रकारद्वयम् ‘अर्हता' जिनेन 'सुर्य'ति ‘स्मृतं' प्रतिपादितम् अनुचिन्तितंवा, तत्र स्मृतमिव स्मृतं केवलित्वेन स्मरणाभावेऽपिजिनस्यात्यन्तमव्यभिचारसाधयादिति, विण्णायं ति विविधप्रकारैः-देशकालादिविभागरूपैतिं विज्ञातं, तदेवाह'इमं कम्मं अयंजीवे'त्ति, अनेन द्वयोरपि प्रत्यक्षतामाह केवलित्वादर्हतः, अज्झोवगमियाए'त्ति प्राकृतत्वादभ्युपगमः-प्रव्रज्याप्रतिपत्तितो ब्रह्मचर्यभूमिशयनकेशलुञ्चनादीनामङ्गीकारस्तेन निर्वृत्ता आभ्युपगमिको तया ‘वेयइस्सइत्ति भविष्यत्कालनिर्देश- भविष्यत्पदार्थो विशिष्टज्ञानवतामेव ज्ञेयः अतीतो वर्तमानश्चपुनरनुभवद्वारेणान्यस्यापि ज्ञेयः संभवतीतिज्ञापनार्थः, ‘उवक्कमियाए'त्ति उपक्रम्यतेऽनेनेत्युपक्रमः-कर्मवेदनोपायस्तत्र भवा औपक्रमिकी-स्वयमुदीर्णस्योदीरणाकरणेन वोदयमुपनीतस्य कर्मणोऽनुभवस्तया औपक्रमिक्या वेदनया वेदयिष्यति।
तथाच अहाकम्मति यथाकर्म-बद्धकर्मानतिक्रमेण 'अहानिगरणं'तिनिकरणानां-नियतानां देशकालादीनां करणानां-विपरिणामहेतूनामनतिक्रमेण यथा यथा तत्कर्म भगवता दृष्टं तथा तथा विपरिणंस्यतीति, इतिशब्दो वाक्यार्थसमाप्ताविति ॥ अनन्तरं कर्म चिन्तितं, तच्च पुद्गलात्मकमिति परमाण्वादिपुद्गलांश्चिन्तयन्नाह-अथवा परिणामाधिकारात्पुद्गलपरिणाममाह
मू. (५०) एसणं भंते ! पोग्गले तीतमनंतं सासयं समयंभुवीति वत्तव्वं सिया?, हंता गोयमा! एसणं पोग्गले अतीतमनंतं सासयं समयं भुवीति वत्तव्वं सिया।
एसणं भंते ! पोग्गले पडुप्पन्नसासयं समयं भवतीति वत्तव्वं सिया?, हंता गोयमा ! तं चेव उच्चारेयव्वं । एस णं भंते ! पोग्गले अनागयमनंतं सासयं समयं भविस्सतीति वत्तव्वं सिया हन्ता गोयमा! तंचेव उच्चारेयव्वं । एवंखंधणवि तिन्निआलावगा, एवंजीवेणवि तिनिआलावगा भाणियव्वा
वृ. पोग्गले'त्तिपरमाणुरुत्तरत्र स्कन्धग्रहणात् तीत'तिअतीतम्, इहचसर्वेऽध्वमावकाला इत्यनेनाधारे द्वितीया, ततश्च सर्वस्मिन्नतीत इत्यर्थः, 'अणंतं'ति अपरिमाणम्, अनादित्वात्, 'सासयं तिसदा विद्यमानं, नहिलोकोऽतीतकालेन कदाचिच्छून्य इति, 'समय'तिकालं भुवित्ति अभूदिति, एतद्वक्तव्यं स्यात् ? सद्भूतार्थत्वात् ।
‘पडुप्पन्नं'ति प्रत्युत्पन्नं वर्तमानमित्यर्थः, वर्तमानस्यापि शाश्वतत्वं सदाभावाद्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org