SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ शतकं-१, वर्ग:-, उद्देशकः-४ ७१ अपसर्पेत्, उत्तमगुणस्थानकाद् हीनतरं गच्छेदित्यर्थः, 'बालवीरियत्ताए अवक्कमेज' त्ति मिथ्यात्वमोहोदये सम्यक्त्वात् संयमाद्देशसंयमाद्वा 'अपक्रामेत' मिथ्याद्दष्टिर्भवेदिति । 'नो पंडियवीरित्ताए अवक्कमेज्ज' त्ति, नहि पण्डितत्वाप्रधानतरं गुणस्थानकमस्ति यतः पण्डितवीर्येणापसर्पेत्, ‘सिय बालपंडियवीरियत्ताए अवक्कमेज्ज' त्ति स्यात्- कदाचिच्चारित्रमोहनीयोदयेन संयमादपगत्य बालपण्डितवीर्येण देशविरतो भवेदिति । वाचनान्तरे त्वेवम्- 'बालवीरियत्ताए नो पंडिवीरित्ताए नो बालपंडियवीरियत्ताए 'त्ति, तत्र च मिथ्यात्वमोहोदये बालवीर्यस्यैव भावादितरवीर्यद्वयनिषेध इति । उदीर्णविपक्षत्वादुपशान्तस्येत्युपशान्तसूत्रद्वयं तथैव, नवरम् ‘उवठ्ठाएज्जा पंडियवीरियत्ता 'त्ति उदीर्णालापकापेक्षयोपशान्तालापकयोरयं विशेषः प्रथमालापके सर्वथा मोहनीयेनोपशान्तेन सतोपतिष्ठेत क्रियासु पण्डितवीर्येण, उपशान्तमोहावस्थायां पण्डितवीर्यस्यैव भावादितरयोश्चाभावात् । वृद्धैस्तु काञ्चिद्वाचनामाश्रित्येदं व्याख्यातं - मोहनीयेनोपशान्तेन सता न मिथ्याटिर्जायते, साधुः श्रावको वा भवतीति । द्वितीयालाके तु 'अवक्कमेज्ज बालपंडियीरियत्ताए 'त्ति, मोहनीयेन हि उपशान्तेन संयतत्वाद्वालपण्डितवीर्येणापक्रामन् देशसंयतो भवति, देशतस्तस्य मोहोपशमसद्भावात् नतु मिथ्यादृष्टि, मोहोदय एव तस्य भावात्, मोहोपशमस्य चेहाधिकृतत्वादिति अथापक्रामतीति यदुक्तं तत्र सामान्येन प्रश्नयन्नाह - 'से भंते! कि' मित्यादि, 'से' त्ति असौ जीवः, अथार्थो वा सेशब्दः, 'आयाए 'त्ति आत्मना 'अणायाए 'त्ति अनात्मना, परत इत्यर्थः 'अप- क्रामति' अपसर्पति, पूर्वं पण्डितत्वरुचिर्भूत्वा पश्चान्मिश्ररुचिर्मिथ्यारुचिर्वा भवतीति, कोऽसौ ? इत्याह-मोहनीयं कर्म मिथ्यात्वमोहनीयं चारित्रमोहनीयं वा वेदयन्, उदीर्णमोह इत्यर्थ ‘से’कहमेयं भंते!’ त्ति अथ 'कथं' केन प्रकारेण 'एतद्' अपक्रमणम् ' एवं 'ति मोहनीयं वेदयमानस्येति, इहोत्तरं - 'गोयमे' त्यादि, 'पूर्वम्' अपक्रमणात् प्राग् 'असौ' अपक्रमणकारी जीवः 'एतद्' जीवादि अहिंसादि वा वस्तु ' एवं ' यथा जिनैर्कुतं 'रोचते' श्रद्धत्ते करोति वा, 'इदानीं ' मोहनीयोदयकाले ‘सः’ जीवः ‘एतत्’ जीवादि अहिंसादि वा 'एवं' यथा जिनैरुक्तं 'नो रोचते' न श्रद्धत्ते न करोति वा, ‘एवं खलु' उक्तप्रकारेण एतद् अपक्रमणम्, ' एवं ' मोहनीयवेदने इत्यर्थः । मोहनीयकर्माधिकारात् सामान्यकर्म चिन्तयन्नाह मू. (४९) से नूनं भंते! नेरइयस्स वा तिरिक्खजोणियस्स वा मणूसस्स वा देवस्स वा जे कडे पावे कम्मे नत्थि तस्स अवेइयत्ता मोक्खो ?, हंता गोयमा ! नेरइयस्स वा तिरिक्ख० मणु० देवरस वा जे कडे पावे कम्मे नत्थि तस्स अवेइत्ता मोक्खो । से केणट्टेणं भंते! एवं वुच्चतिनेरइयरस वा जीव मोक्खो, एवंख लु भए गोयमा ! दुविहे कम्मे पन्नत्ते, तंजहा-पएसकम्मे य अणुभागकम्मे य, तत्थ णं जं तं पएसकम्मं तं नियमा वेएइ, तत्थ णं जं तं अणुभागकम्मं तं अत्थेगइयं वेएइ अत्थेगइयं नो वेएइ । नायमेयं अरहया सुयमेयं अरहया विन्नायमेयं अरहया इमं कम्मं अयं जीवे अज्झोवगमियाए वेयणाए वेदिस्सइ इमं कम्मं अयं जीवे उवक्कमियाए वेदणाए वेदिस्सइ, अहाकम्मं अहानिकरणं जहा जहा तं भगवया दिट्टं तहा तहा तं विप्परिणमिस्सतीति, से तेणट्टेणं गोयमा ! नेरइयस्स वा ४ जाव मोक्खो । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy