________________
शतकं - १, वर्ग:-, उद्देशकः - ३
तथा नया-द्रव्यास्तिकादयः, तत्र यदि नाम द्रव्यास्तिकमतेन नित्यं वस्तु पर्यायास्तिकनयमतेन कथं तदेवानित्यं ? विरुद्धत्वात्, इति शङ्का, इयं चायुक्ता, द्रव्यापेक्षयैव तस्य नित्यत्वात्, पर्यायापेक्षया चानित्यत्वात्, दृश्यते चापेक्षयैकत्रैकदा विरुद्धानामपि धर्माणां समावेशो, यथा जनकापेक्षया य एव पुत्रः स एव पुत्रापेक्षया पितेति ।
तथा नियमः - अभिग्रहः, तत्र यदि नाम सर्वविरति सामायिकं तदा किमन्येन पौरुष्यादिनियमेन ? सामायिकेनैव सर्वगुणावाप्तेः उक्तश्चा सौइति शङ्का, इयं चायुक्ता, यतः सत्यपि सामायिके युक्तः पौरुष्यादिनियमः, अप्रमादवृद्धिहेतुत्वादिति, आह च
119 11
,
“सामाइए वि हु सावज्जचागरूवे उ गुणकरं एयं । अपमायवुड्डिजणगत्तणेण आणाओ विन्नेयं ॥ ति
६९
तथा प्रमाणं-प्रत्यक्षादि, तत्रागमप्रमाणम्-आदित्यो भूमेरुपरि योजनशतैरष्टाभिः संचरति चक्षुप्रत्यक्षं च तस्य भुवो निर्गच्छतो ग्राहकमिति किमत्र सत्यमिति सन्देहः ।
अत्र समाधि-न हि सम्यक् प्रत्यक्षमिदं, दूरतरदेशतो विभ्रमादिति । शतकं-१ उद्देशकः-३ समाप्तः
-: शतकं-१ उद्देशकः-४:
वृ. अनन्तरोद्देशके कर्म्मण उदीरणवेदनाद्युक्तमिति तस्यैव भेदादान् दर्शयितुं तथा द्वारगाथायां 'पगइ' त्ति यदुक्तं तच्चाभिधातुमाह
मू. (४६) कति णं भंते! कम्मप्पगडीओ पन्नत्ताओ ? गोयमा ! अट्ठ कम्मप्पगडीओ पण्णत्ताओ। कम्मप्पगडीए पढमो उद्देसो नेयव्वो जाव अणुभागो सम्मत्तो ।
वृ. 'कइ 'मित्यादि व्यक्तं, नवरं 'कम्मपगडीए' त्ति प्रज्ञापनायां त्रयोविंशतितमस्य कर्मप्रकृत्यभिधानस्य पदस्य प्रथमोद्देशको नेतव्यः, एतद्वाच्यानां चार्थानां सङ्ग्रहगाथाऽस्तीत्यत आह-गाहा, सा चेयम्मू. (४७)
कइ पयडी कह बंधइ कइहि व ठाणेहि बंधई पयडी ।
कइ वेदेइ य पयडी अणुभागो कइविहो कस्स ॥
वृ. 'कई'त्यादि, तत्र 'कइप्पगडी' ति द्वारं, तच्चैवम्- 'कइणं भंते! कम्मप्पगडीओ पन्नत्ताओ गोयमा ! अट्ठ, तंजहा - नाणावरणिज्ज' मित्यादि । 'कह बंधई' त्यादि द्वारमिदं चैवम्- 'कहन्नं भंते वे अट्ठ कम्मपगडीओ बंधइ ?' गोयमा ! नाणावरणिजस्स कम्मस्स उदएणं दंसणमोहणिज्जं कम्मं निग्गच्छइ' विपाकावस्थां करोतीत्यर्थः ।
दंसणमोहणिजस्स कम्मस्स उदएणं मिच्छत्तं निग्गच्छइ, मिच्छत्तेणं उदिन्नेणं एवं खलु जीवे अट्ठकम्मप्पगडीओ बंधइ' इत्यादि, न चैवमिहेतरेतराश्रयदोषः, कर्मबन्धप्रवाहस्यानादित्वादिति ।
'कइहि व ठाणेहि' त्ति द्वारं, तच्चैवम्- 'जीवे णं भंते! नाणावरणिज्जं कम्मं कइहिं ठाणेहिं बंधइ ? गोयमा ! दोहिं ठाणेहिं, तंजहा - रागेण य दोसेण य' इत्यादि । 'कइ वेएइ य'त्ति द्वारमिदं चैवम्- 'जीवे णं भंते! कइ कम्मप्पगडीओ वेएइ ? गोयमा ! अत्थेगइए वेएइ अत्थेगतिए नो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org