________________
भगवतीअङ्गसूत्रं १/-/३/४५ वचनत्वादिति, अत्रापि ऋजुजडवक्रजडऋजुप्रज्ञशिष्यानाश्रित्य भगवतां तस्योपदेशः, तथैव तेषामुपकारसम्भवादिति समाधिः ।
तथा प्रवचनमत्रागमः, तत्र च यदि मध्यमजिनप्रवचनानि चतुर्यामधर्मप्रतिपादकानि कथंप्रथमेतरजिनप्रवचने पञ्चयामधर्मप्रतिपादके? सर्वज्ञानामविरुद्धवचनत्वात्, अत्रापि समाधिचतुर्यामोऽपितत्त्वतः पञ्चायामएवासौ, चतुर्थव्रतस्य परिग्रहेऽन्तर्भूतत्वात्, योषा हिनापरिगृहीता भुज्यते इति न्यायादिति । तथा प्रवचनमधीते वेत्ति वा प्रावचनः-कालापेक्षया बह्वागमः पुरुषः, तत्रैकः प्रावनिक एवं कुरुते अन्यस्त्वेवमिति किमत्रतत्त्वमिति, समाधिश्चेह-चारित्रमोहनीयक्षयोपशमविशेषेण उत्सर्गापवादादिभावितत्वेन च प्रावचनिकानां विचित्रा प्रवृत्तिरिति नासौ सर्वथाऽपि प्रमाणम्, आगमाविरुद्धप्रवृत्तेरेव प्रमाणत्वादिति ।
__ तथा कल्पो-जिनकल्पिकादिसमाचारः, तत्र यदि नाम जिनकल्पिकानां नाग्न्यादिरूपो महाकष्टः कल्पः कर्मक्षयायतदा स्थविरकल्पिकानांवस्त्रपात्रादिपरिभोगरूपोयथाशक्तिकरणात्मकोऽकष्टस्वभावः कथं कर्मक्षयायेति,इहचसमाधि-द्वावपि कर्मक्षयहेतू, अवस्थाभेदेनजिनोक्तत्वात्, कष्टाकष्टयोश्च विशिष्टकर्मक्षयं प्रत्यकारणत्वादिति। __तथा मार्गः, पूर्वपुरुषक्रमागता सामाचारी, तत्र केषाञ्चिद्भिश्चैत्यवन्दनानेकविधकायोत्सर्गकरणादिकाऽऽवश्यकसमाचारी तदन्येषां तु न तथेति किमत्र तत्त्वमिति, समाधिश्चगीतार्थाशठप्रवर्तिताऽसौ सर्वाऽपिन विरुद्धा, आचरितलक्षणोपेतत्वात्, आचरितलक्षणंचेदम्॥१॥ “असढेण समाइनं जं कत्थइ केणई असावजं ।
न निवारियमन्नेहिं बहुमणुमयमेयमायरियं ॥ . तथा मतं,-समान एवागमे आचार्याणामभिप्रायः, तत्र च सिद्धसेनादिवाकरो मन्यतेकेवलिनोयुगपद्ज्ञानदर्शनंच, अन्यथा तदावरणक्षयस्य निरर्थकता स्यात्, जिनभद्रगणिक्षमाश्रमणस्तुभिन्नसमयेज्ञानदर्शने, जीवस्वरूपत्वात्, तथा तदावरणक्षयोपशमे समानेऽपिक्रमेणैव मतिश्रुतोपयोगौ, नचैकतरोपयोगेइतरक्षयोपशमाभावः, तत्क्षयोपशमस्योत्कृष्टतः षट्षष्टिसागरोपम-प्रमाणत्वादतः किं तत्त्वमिति,इह समाधि-यदेवमतमागमानुपाति तदेव सत्यमिति मन्तव्यमितरत्पुनरुपेक्षणीयम,अथचाबहुश्रुतेननैतदवसातशक्यतेतदैवंभावनीयम-आचार्याणांसंप्रदायादिदोषादयं मतभेदः, जिनानां तु मतमेकमेवाविरुद्धं च, रागादिविरहित्वात्, आह च॥१॥ "अणुवकयपराणुग्गहपरायणा जं जिणा जुगप्पवरा ।
जियरागदोसमोहा य णण्णहावाइणो तेणं॥ तथा भङ्गाः-द्वयादिसंयोगभङ्गकाः, तत्र च द्रव्यतो नाम एका हिंसा न भावत इत्यादि चतुर्भङ्गयुक्ता, नच तत्र प्रथमोऽपि भङ्गोयुज्यते, यतः किल द्रव्यतो हिंसा-ईसिमित्या गच्छतः पिपीलिकादिव्यापादनं, न चेयं हिंसा, तल्लक्षणायोगात्, तथाहि॥१॥ “जो उ पमत्तो पुरिसो तस्स उ जोगं पडुच्च जे सत्ता।
___ वावजंती नियमा तेसिं सो हिंसओ होइ॥इति उक्ताचेयमतः शङ्का, नचेयंयुक्ता, एतद्गाथोक्तहिंसालक्षणस्य द्रव्यभावहिंसाश्रयत्वात्, द्रव्यहिंसायास्तु मरणमात्रतया रूढत्वादिति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org