________________
शतकं-१, वर्गः-, उद्देशकः - ३
‘निर्ग्रन्थाः’सबाह्याभ्यन्तरग्रन्थान्निर्गताः साधव इत्यर्थः, 'नाणंतरेहिं' ति एकस्माञ्ज्ञानादन्यानि ज्ञानानि ज्ञानान्तराणि तैर्ज्ञानविशेषैर्ज्ञानविशेषेषु वा शङ्किता इत्यादिभि संबन्धः, एवं सर्वत्र, तेषु चैवं सङ्कादयः स्युः-यदि नाम परमाण्वादिसकलरूपिद्रव्यावसानविषयग्राहकत्वेन सङ्ख्यातीतरूपाण्यवधिज्ञानानि सन्ति तत्किमपरेण मनः पर्यायज्ञानेन ?, तद्विषयभूतानां मनोद्रव्याणामवधिनैव दृष्टत्वात्, उच्यते चागमे मनः पर्यायज्ञानमिति किमत्र तत्वमिति ज्ञानतः शङ्का, इह समाधिःयद्यपि मनोविषयमप्यवधिज्ञानमस्ति तथाऽपि न मनःपर्यायज्ञानमवधावन्तर्भवति, भिन्नस्वभावत्वात्, तथाहि-मनःपर्यायज्ञानं मनोमात्रद्रव्यग्राहकमेवादर्शनपूर्वकं च अवधिज्ञानं तु किञ्चिन्मनोव्यतिरिक्तद्रव्यग्राहकं किञ्चिञ्चोभयग्राहकं दर्शनपूर्वकं च न तु केवलमनोद्रव्यग्राहकम् इत्यादि बहु वक्तव्यमतोऽवधिज्ञानातिरिक्तं भवति मनःपर्यायज्ञानमिति ।
तथा दर्शनं-सामान्यबोधः, तत्र यदि नामेन्द्रियानिन्द्रियनिमित्तः सामान्यार्थविषयो बोधो दर्शनं तदा किमेकश्चक्षुर्दर्शनमन्यस्त्वचक्षुर्दर्शनम्, अथेन्द्रियानिन्द्रियभेदाद् भेदस्तदा चक्षुष इव श्रोत्रादीनामपि दर्शनभावात् षडिन्द्रियनोइन्द्रियजानि दर्शनानि स्युर्न द्वे एवेति, अत्र समाधिसामान्यविशेषात्मकत्वाद्वस्तुनः क्वचिद्विशेषतस्तन्निर्देशः क्वचिच्च सामान्यतः, तत्र चक्षुदर्शनमचक्षुर्दर्शनं चेत्युक्तं तदिन्द्रियाणामप्राप्तकारित्वप्राप्तकारित्वविभागात्, मनस्त्वप्राप्तकारित्वेऽपि प्राप्तकारीन्द्रियवर्गस्य तदनुसरणीयस्य बहुत्वात्तद्दर्शनस्याचक्षुर्दर्शनशब्देन ग्रहणमिति ।
अथवा दर्शनं सम्यक्त्वं तत्र च शङ्का- “मिच्छत्तं जमुदिन्नं तं खीणं अनुदियं च उवसंतं" । इत्येवंलक्षणं क्षायोपशमिकम्, औपशमिकमप्येवंलक्षणमेव, यदाह
119 11
"खीणम्मि उइन्नम्मी अणुदिज्जंति य सेसमिच्छत्ते ।
अंतोमुहुत्तमेत्तं उवसमसम्मं लहइ जीवो ॥
ततोऽनयोर्न विशेषः उक्तश्चासाविति, समाधिश्च क्षयोपशमो हि उदीर्णस्य क्षयोऽनुदीर्णस्य च विपाकानुभवापेक्षयोपशमः, प्रदेशानुभवतस्तूदयोऽस्त्येव, उपशमे तु प्रदेशानुभवोऽपि नास्तीति, उक्तं च
119 11
"
६७
“वेएइ संतकम्मं खओवसमिएसु नाणुभावं सो । उवसंतकसाओ पुण वेदेइ न संतकम्मं ति ॥
तथा चारित्रं - चरणं तत्र यदि सामायिकं सर्वसावद्यविरतिलक्षणं छेदोपस्थापनीयमपि तल्लक्षणमेव, महाव्रतानामवद्यविरतिरूपत्वात्, तत्कोऽनयोर्भेदः ? उक्तश्चासाविति ।
अत्र समाधि ऋजुजडवक्रजडानां प्रथमचरमजिनसाधूनामाश्वासनाय छेदोपस्थापनीयमुक्तं, व्रतारोपणे हि मनाक् सामायिका शुद्धावपि व्रताखण्डनाच्चारित्रिणो वयं चारित्रस्य व्रतरूपत्वादिति बुद्धि स्यात्, सामायिकमात्रे तु तदशुद्धौ भग्नं नश्चारित्रं चारित्रस्य सामायिकमात्रत्वादित्येवमना- श्वासस्तेषां स्यादिति, आह च
119 11
"रिउवक्कजडा पुरिमेयराण सामाइए वयारुहणं । मणयसमुद्धेवि जओ सामइए हुंति हु वयाई ॥ इति
तथा लिङ्गं-साधुवेषः, तत्र च यदि मध्यमजिनैर्यथालब्धवरूपं लिङ्गं साधूनामुपदिष्टं तदा किमिति प्रथमचरमजिनाभ्यां सप्रमाणधवलवसनरूपं तदेवोक्तं ?, सर्वज्ञानामविरोधि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org