________________
६६
भगवती अङ्गसूत्रं १/-/३/४३
अथ काङ्क्षामोहनीयवेदनादिकं निर्जरान्तं सूत्रप्रपञ्चं नारकादिचतुर्विंशतिदण्ड
कैर्नियोजयन्नाह
मू. (४४) नेरइयाणं भंते ! कंखामोहणिज्जं कम्मं वेएइ ?, जहा ओहिया जीवा तहा नेरइया, जाव थणियकुमारा ।
पुढविक्काइयाणं भंते! कंखामोहणिज्जं कम्मं वेइंति, हंता वेइंति, कहन्नं भंते! पुढविक्का० कंखामोहणिज्जं कम्मं वेदेति ?, गोयमा ! तेसिणं जीवाणं णो एवं तक्का इ वा सण्णा इवा पण्णा इ वा मणे इ वा वइति वा अम्हे णं कंखामोहणिज्जं कम्मं वेएमो, वेएंति पुण ते ।
से नूनं भंते! तमेव सच्चं नीसंकं जं जिणेहिं पवेइयं, सेसं तं चेव, जाव पुरिस्कारपरिक्कमेइ वा । एवं जाव चउरिंदियाणं पंचिंदियतिरिक्खजोणिया जाव वेमाणिया जहा ओहिया जीवा ।
वृ. इह च 'जहा ओहिया जीवा' इत्यादिना 'हंता वेयंति, कहन्नं भंते! ' नेरइयाणं कखामोहणिज्जं कम्मंवेयंति?, गोयमा ! तेहिं तेहिं कारणेहिं' इत्यादिसूत्रं निर्जरासूत्रान्तं स्तनितकुमारप्रकरणान्तेषु प्रकरणेषु सूचितं, तेषु च यत्र यत्र जीवपदं प्रागधीतं तत्रतत्र नारकादिपदमध्येयमिति पञ्चेन्द्रियाणामेव शङ्कितत्वादयः काङ्क्षामोहनीयवेदनप्रकारा घटन्ते नैकेन्द्रियादीनाम्, अतस्तेषां विशेषेण तद्वेदनप्रकारदर्शनायाह
'पुढविक्काइयाण' मित्यादि व्यक्तं, नवरम्- 'एवं तक्का इव 'त्ति एवं वक्ष्यमाणोल्लेखेन तर्कोंविमर्श, स्त्रीलिङ्गनिर्देशश्च प्राकृतत्वात्, 'सन्नाइ व 'त्ति सञ्ज्ञा अर्थावग्रहरूपं ज्ञानं, 'पण्णा इ व'त्ति प्रज्ञा- अशेषविशेषविषयं ज्ञानमेव, 'मणे इ व 'त्ति मनः स्मृत्यादिशेषमतिभेदरूपं, 'वइ इ व'त्ति वागू- वचनं, 'सेसं तं चैव' त्ति शेषं तदेव यथा औधिकप्रकरणेऽधीतं तच्चेदम्- 'हंता गोयमा तमेव सच्चं नीसंकं जं जिणेहिं पवेइयं । से नूनं भंते ! एवं मणं धारेमाणे' इत्यादि तावद्वाच्यं यावत् 'से नूनं भंते ! अप्पणा चेव निज्जरेइ अप्पणा चेव गरहइ' इत्यादेः सूत्रस्य 'पुरिसक्कार परक्कमेइ व'त्ति पदम् ।
‘एवं जाव चउरिदिय’त्ति पृथिवीकायप्रकरणवदप्कायादिप्रकरणानि चतुरिन्द्रियप्रकरणान्तान्यध्येयानि तिर्यक्पञ्चेन्द्रियप्रकरणादीनि तु वैमानिकप्रकरणान्तानि औधिकजीवप्रकरणवत्तदभिलापेनाध्येयानीति, अत एवाह- 'पंचेदिए' त्यादि । भवतु नाम शेषजीवानां काङ्क्षामोहनीयवेदनं निग्रन्थानां पुनस्तन्न संभवति जिनागमावदा- तबुद्धित्वात्तेषामिति प्रश्नयन्नाह
मू. (४५) अत्थि णं भंते! समणावि निग्गंथा कंखामोहणिज्जं कम्मं वेएइ ?, हंता अत्थि, कहन्नं भंते! समणा निग्गंथा कंखामोहणिज्जं कम्मं वेएइ ?, गोयमा ! तेहिं २ नाणंतरेहिं दंसणंतरेहिं चरितंतरेहिं लिंगंतरेहिं पवयणंतरेहिं पावयणंतरेहिं कप्पंतरेहिं मग्गंतरेहिं मतंतरेहिं भंगंतरेहिं नयंतरेहिं नियमंतरेहिं पमाणंतरेहिं संकिया कंखिया वितिगिच्छिया भेयसमावन्ना कलुससमावन्ना, एवं खलु समणा निग्गंथा कंखामोहणिज्जं कम्मं वेइंति ।
से नूनं भंते ! तमेव सच्चं नीसंकं जं जिणेहिं पवेइयं, हंता गोयमा ! तमेव सच्चं नीसंकं, जाव पुरिसक्कारपक्कमेइ वा सेवं भंते ।
वृ. 'अत्थिण 'मित्यादि काकाऽध्येयम् 'अस्ति' विद्यतेऽयं पक्षः यदुत 'श्रमणाः ' व्रतिनः अपिशब्दः श्रमणानां काङ्क्षामोहनीयस्यावेदनसंभावनार्थः, ते च शाक्यादयोऽपि भवन्तीत्याह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org