SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ शतकं-१, वर्गः-, उद्देशकः - ३ तथा 'गरहइ'त्ति आत्मनैव गर्हते निन्दतीत्यतीतकालकृतं कर्म स्वरूपतः तत्कारणगर्हणद्वारेण वा जातविशेषबोधः सन् । तथा 'संवरइ' त्ति संवृणोति न करोति वर्त्तमानकालिकं कर्म स्वरूपतस्तद्धेतुसंवरणद्वारेण वेति, गर्हादौ च यद्यपि गुर्वादीनामपि सहकारित्वमस्ति तथाऽपि न तेषां प्राधान्यंजीववीर्यस्यैव तत्र कारणत्वात्, गुर्वादीनां च वीर्योल्लासनमात्र एव हेतुत्वादिति । अथोदीरणामेवाश्रित्याह- 'जं तं भंते !' इत्यादि व्यक्तं, नवरम् अथोदरीयतीत्यादिपदत्रयोद्देशेऽपि कस्मात् 'तं किं उदिनं उदीरेइ' इत्यादिनाऽऽद्यपदस्यैव निर्देशः कृतः ?, उच्यते-उदीरणादिके कर्मविशेषणचतुष्टये उदीरणामेवाश्रित्य विशेषणस्य सद्भावाद् इतरयोस्तु तदभावाद्, एवं तर्हि उद्देशसूत्रे गर्हते संवृणोतीत्येतत् पदद्वयं कस्मादुपात्तम् ? उत्तरत्रानिर्देक्ष्यमाणत्वात्तस्येति, उच्यते-कर्मण उदीरणायां गर्हासंवरणे प्राय उपायावित्यभिधानार्थम्, एवमुत्तरत्तापि वाच्यमिति प्रश्नार्थश्चेहोत्तरव्याख्यानाद्बोद्धव्यः, तत्र 'नोउदिन्नं उदीरेइत्ति १ उदीर्णत्वादेव, उदीर्णस्याप्युदीरणे उदीरणाऽविरामप्रसङ्गात् । 'नो अणुदिन्नं उदीरेइ' त्ति २ इहानुदीर्णं - चिरेण भविष्यदुदीरणम् अभविष्यदुदीरणं च तन्नोदीरयति तद्विषयोदीरणायाः सम्प्रत्यनागतकाले चाभावात् । 'अनुदिन्नं उदीरणाभवियं कम्मं उदीरेइ' त्ति ३ अनुदीर्णं स्वरूपेण किन्त्वनन्तरसमय एव यदुदीरणाभविकं तदुदीरयति, विशिष्टयोग्यताप्राप्तत्वात्, तत्र भविष्यतीति भवा सैव भविका उदीरणा भविका यस्येत प्राकृतत्वाद् उदीरणाभविकम्, अन्यथा भविकोदीरणमिति स्यात्, उदीरणायां वा भव्यं योग्यमुदीरणाभव्यमिति । ६५ ‘नोउदयानंतरपच्छकड’न्ति ४ उदयेनानन्तरसमये पश्चातकृतम्-अतीततां नीतं यत्तत्तथातदपि नोदीरयति, तस्यातीतत्वात् अतीतस्य चासत्त्वाद् असतश्चानुदीरणीयत्वादिति । इह च यद्यप्युदीरणादिषु कालस्यभावादीनां कारणत्वमस्ति तथाऽपि प्राधान्येन पुरुष- वीर्यस्यैव कारणत्वमुपदर्शयन्नाह - 'जंत' मित्यादि व्यक्तं, नवरम् उत्थानादिनोदीरयतीत्युक्तं, तत् च यदापन्नं तदौह-‘एवं सइ’त्ति ‘एवम्' उत्थानादिसाध्ये उदीरणे सतीत्यर्थः, शेषं तथैव ।। काङ्क्षामोहनीयस्योदीरणोक्ता, अथ तस्यैवोपशमनमाह - 'से नून' मित्यादि, उपशमनं मोहनीयस्यैव, यदाह"मोहस्सेवोवसमो खाओवसमो चउण्ह घाईणं । 119 11 उदयक्खयपरिणाणा अट्ठण्हवि होंति कम्माणं ॥ उपशमश्चोदीर्णस्य क्षयः अनुदीर्णस्य च विपाकतः प्रदेशतश्चाननुभवनं, सर्वथैव विष्कम्भितोदयत्वमित्यर्थः, अयं चानादिमिथ्याध्टेरौपशमिकसम्यक्त्वलाभे उपशमश्रेणिगतस्य चेति, 'अनुदिनं उवसामेति त्ति उदीर्णस्य त्ववश्यं वेदनादुपशमनाभाव इति । उदीरणं सद्वेद्यते इति वेदनसूत्रं, तत्र 'उदिन्नं वेएइ' त्ति अनुदीर्णस्य वेदनाभावात्, अथानुदीर्णमपि वेदयति तर्हि उदीर्णानुदीर्णयोः को विशेषः स्यात् ? इति । वेदितं सन्निजीर्यत इति निर्जरासूत्रं, तत्र 'उदयानंतरपच्छकडं’ति उदेयनान्तरसमये यत्पश्चात्कृतम्-अतीततां गमितं तत्तथा तत् 'निर्जरयति' प्रदेशेभ्यः शातयति, नान्यद्, अननुभूतरसत्वादिति । उदीरणोपशमवेदनानिर्जरणसूत्रोक्तार्थसङ्गहगाथा119 11 “तईएण उदीरेंति उवसामेति य पुणोवि बीएणं । वेइंति निज्जरंति य पढमचउत्थेहिं सव्वेऽवि ।। 55 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy