SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ६२ भगवती अङ्गसूत्रं १/-/३/४० तथा भवति, इदमुक्तं भवति - द्रव्यस्य प्रकारान्तरेण सत्ता प्रकारान्तरसत्त्या वर्त्तते यथा मृद्दव्यस्य पिण्डप्रकारेण सत्ता घटप्रकारसत्तायामिति । 'नत्थित्तं नत्थित्ते परिणमइ' त्ति नास्तित्वम् अङ्गुल्यादेरङ्गुष्ठादिभावेनासत्त्वं तच्चाङ्गुष्ठादिभाव एव, ततश्चाङ्गुल्यादेर्नास्तित्वमङ्गुष्ठाद्यस्तित्वरूपमङ्गुल्यादेर्नास्तित्वे अङ्गुष्ठादेः पर्यायान्तरेणास्तित्वरूपे परिणमति, यथा मृदो नास्तित्वं तन्त्वादिरूपं मृन्नास्तित्वरूपे पटे इति, अथवाऽस्तित्वमिति - धर्मधर्मिणोरभेदात् सद्वस्तु अस्तित्वे-सत्त्वे परिणमति, तत्सदेव भवति, नात्यन्तं विनाशि स्याद्, विनाशस्य पर्यायान्तरगमनमात्ररूपत्वात्, दीपादिविनाशस्यापि तमिस्रादिरूपतया परिणामात् तथा 'नास्तित्वम्' अत्यन्ताभावरूपं यत् खरविषाणादि तत् 'नास्तित्वे' अत्यन्ताभाव एव वर्तते नात्यन्तमसतः सत्त्मस्ति, खरविषाणस्येवेति, उक्तं च- “नासतो जायते भावो नाभावो जायते सतः।” अथवाऽस्तित्वमिति धर्म्यभेदात् सद् 'अस्तित्वे' सत्त्वे वर्त्तते, यथा पटः पटत्व एव, नास्तित्वं चासत् 'नास्तित्वे' असत्त्वे वर्त्तते, यथा अपटोऽपटत्व एवेति । अथ परिणामहेतुदर्शनायाह- 'जं न 'मित्यादि 'अत्थित्तं अत्थित्ते परिणमइ' त्ति पर्यायः पर्यायान्तरतां यातीत्यर्थः 'नत्थित्तं नत्थित्ते परिणमइ' त्ति वस्त्वन्तरस्य पर्यायस्तत्पर्यायान्तरतां यातीत्यर्थः, 'पओगस' त्ति सकारस्यागमिकत्वात् 'प्रयोगेण' जीवव्यापारेण 'वीसस' त्ति यद्यपि लोके विश्वसाशब्दोजरापर्यायतया रूढस्तथाऽपीह स्वभावार्थो ध्श्यः, इह प्राकृतत्वाद् 'वीससाए 'त्ति वाच्ये 'वीससा' इत्युक्तमिति, अत्रोत्तरम् -'पओगसावितं ' ति प्रयोगेणापि तद्-अस्तित्वादि, यथाकुलालव्यापारान्मृत्पिण्डो घट तया परिणमति, अङ्गुलिऋजुता वावक्रतयेति, अपिः समुच्चये, विससानि तंत्ति यथा शुभ्राभ्रम शुभ्राभ्रतया, नास्तित्वस्यापि नास्तित्वपरिणामे प्रयोगविश्रसयोरेतान्येवोदाहरणानि, वस्त्वन्तरापेक्षया मृत्पिण्डादेरस्तित्वस्य नास्तित्वात्, सत्सदेव स्यादिति व्याख्यानान्तरेऽप्येतान्येवोदाहरणानि पूर्वोत्तरावस्थयोः सद्रूपत्वादिति, यदपि - 'अभावोऽभाव एव स्याद्' इति व्याख्यातं तत्रापि प्रयोगेणापि तथा विनसयाऽपि अभावोऽभाव एव स्यात् प्रयोगादेः साफल्यमिति व्याख्येय- मिति । अथोक्तहेत्वोरुभयत्र समतां भगवदभिमततां च दर्शयन्नाह - 'जहा ते' इत्यादि, 'यथा' प्रयोगविश्रसाभ्यामित्यर्थः 'ते' इति तव मतेन अथवा सामान्येनास्तित्वनास्तित्वपरिणामः प्रयोगविश्रसाजन्य उक्तः, सामान्यश्च विधि कचिदतिशयवति वस्तुन्यन्यथाऽपि स्याद् अतिशयवांश्च भगवानिति तमाश्रित्य परिणामान्यथात्वमाशङ्कमान आह- 'जहा ते' इत्यादि, 'ते' इति तव सम्बन्धि अस्तित्वं, शेषं तथैवेति । अथोक्तस्वरूपस्यैवार्थस्य सत्यत्वेन प्रज्ञापनीयतां दर्शयितुमाह-' से नून' मित्यादि, अस्तित्वमस्तित्वे गमनीयं सद्वस्तु सत्त्वेनैव प्रज्ञापनीयमित्यर्थ, 'दो आलावग' त्ति 'से नूनं भंते! अत्थित्तं अत्थित्तेगमणिज्ज'मित्यादि 'पओगसावि तं वीससावि तं' इत्येतदन्त एकः, परिणामभेदाभिधानात, 'जहा ते भंते! अत्थित्तं अत्थित्ते गमणिज्ज' मित्यादि 'तहा मे अत्थित्तं अत्थित्ते गमणिज्ज' मित्येतदन्तस्तु द्वितीयोऽस्तित्वनास्तित्वपरिणामयोः समताऽभिधायीति । एवं वस्तुप्रज्ञापनाविषया समभावतां भगवतोऽभिधायाय शिष्यविषयांतां दर्शयन्नाहमू. (४१) जहा ते भंते! एत्थ गमणिज्जं तहा ते इहं गमणिजं, जहा ते इहं गमणिज्जं तहा ते For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy