________________
भगवतीअङ्गसूत्रं १/-/३/३५ वृ. 'जीवा णमित्यादि व्यक्तं, नवरं 'करिसुत्ति अतीतकाले कृतवन्तः, उत्तरंतु हन्त ! अकार्युः, तदकरणेऽनादिसंसाराभावप्रसङ्गात् । एवं करेंति' सम्प्रति कुर्वन्ति, एवं करिस्संति' अनेन च भविष्यत्कालता करणस्य दर्शितेति ॥ कृतस्य च कर्मणश्चयादयो भवन्तीति तान् दर्शयन्नाह
“एवंचिए'इत्यादिव्यक्तंनवरंचयः-प्रदेशानुभागादेवर्द्धनम् उपचयस्तदेव पौनःपुन्येन, अन्ये त्वाहुः-चयनं-कर्म-पुद्गलोपादानमात्रम् उपचयनंतु चितस्याबाधाकालं मुक्त्वा वेदनार्थं निषेकः, स चैवम्-प्रथमस्तितौ बहुतरं कर्मदलिकं निषिञ्चति ततो द्वितीयायां विशेषहीनम् एवं यावदुत्कृष्टायां विशेषहीनं निषिञ्चति, उक्तंच॥१॥ “मोत्तूण सगमबाहं पढमाइ ठिईइ बहुतरं दव्वं ।
सेसं विसेसहीणंजावुक्कोसंति सव्वासिं॥ उदीरणम्-अनुदितस्य करणविशेषादुदयप्रवेशनं, वेदनम्-अनुभवनं, निर्जरणंजीवप्रदेशेभ्यः कर्मप्रदेशानांशातनमिति। इह च सूत्रसङ्ग्रहगाथा भवति, सा च गाहामू. (३६) कडचिया उवचिया उदीरिया वेदिया य निजिन्ना।।
आदितिए चउभेदा तियभेदा पच्छिमा तिन्नि । वृ. 'कडचिए'त्यादि, भावितार्था च, नवरम् ‘आइतिए'त्ति कृतचितोपचितलक्षणे 'चउभेय'त्ति सामान्यक्रियाकालत्रयक्रियाभेदात्, 'तियभेय'त्तिसामान्यक्रियाविरहात्, पच्छिम'त्ति उदीरितवेदितनिर्जीर्णा मोहपुद्गला इतिशेषः, 'तिनि'त्तित्रयस्त्रिविधा इत्यर्थः। नन्वाघे सूत्रत्रये कृतचितोपचितान्युक्तानिउत्तरेषु कस्मानोदीरितवेदितनिर्जीर्णानि? इति, उच्यते, कृतंचितमुपचितं चकर्म चिरमप्यवतिष्ठतइति करणादीनां त्रिकालक्रियामात्रातिरिक्तं, चिरावस्थानलक्षणकृतत्वाद्याश्रित्य कृतादीन्युक्तानि, उदीरणादीनांतुनचिरावस्थानमस्तीति त्रिकालवर्तिना क्रियामात्रेणैव तान्यभिहितानीति।
जीवाः काश्मोहनीयंकर्मवेदयन्तीत्युक्तम्, अथतवेदनकारणप्रतिपादनाय प्रस्तावयन्नाह
मू. (३७) जीवाणंभंते! कंखामोहणिजंकम्मं वेदेति ?, हंता वेदेति । कहन्नं भंते! जीवा कंखामोहणिज्जं कम्मं वेदेति ?, गोयमा! तेहिं तेहिं कारणेहिं संकिया कंखिया वितिगिच्छिया भेदसमावन्ना कलुससमावन्ना, एवं खलु जीवा कंखामोहणिज्जं कम्मं वेदेति।
वृ. 'जीवा णं भंते ! इत्यादि व्यक्तं, नवरं ननु जीवाः काङ्क्षामोहनीयं वेदयन्तीति प्राग निर्णीतं किं पुनः प्रश्नः?, उच्यते, वेदनोपायप्रतिपादनार्थम्, उक्तं च॥१॥ "पुव्वमणियंपि पच्छ जंभण्णइ तत्थ कारणं अत्थि।
पडिसेहो य अणुना हेउविसेसोवलंभोत्ति॥ 'तेहिं तेहिं'ति तैस्तैर्दर्शनान्तरश्रवणकुतीर्थिकसंस्गादिभिर्विद्वत्प्रसिद्धैः, द्विर्वचनं चेह वीप्सायां, कारणैः-शङ्कादिहेतुभिः, किमित्याह-शङ्किताः-जिनोक्तपदार्थान् प्रति सर्वतो देशतो वा संजातसंशयाः काङिक्षताः-देशतः सर्वतो वा संजातान्यान्यदर्शनग्रहाः 'वितिगिच्छिय'त्ति विचिकित्सिताः-संजातफलविषयशङ्काः भेदसमापन्नाइति-किमिदं जिनशासनमाहोश्विदिदमित्येवं जिनशासनस्वरूपं प्रति मतेद्वैधीभावं गताः, अनध्यवसायरूपं वा मतिभङ्गं गताः, अथवा यत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org