SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ शतकं-१, वर्गः-, उद्देशकः-३ शतकं-१ उद्देशकः-३ वृ. द्वितीयोद्देशकान्तिमसूत्रेष्वायुर्विशेषो निरूपितः, स च मोहदोषे सति भवतीत्यतो मोहनीयविशेषं निरूपयन्नादौ च सङ्ग्रहगाथायां यदुक्तं 'कंखपओसेत्ति तदर्शयन्नाह मू. (३४)जीवाणंभंते! कंखामोहणिजे कम्मे कडे?, हंता कडे॥से भंते! किं देसेणं देसे कडे ? १ देसेणं सव्वे कडे ? २ सव्वेणं देसे कडे ? ३ सव्वेणं सव्वे कडे ? ४। गोयमा! नो देसेणं देसे कडे १ नो देसेणं सव्वे कडे २ नो सब्वेणं देसे कडे ३ सव्वेणंसव्वे कडे ४ ॥ नेरइयाणं भंते ! कंखामोहणिज्जे कम्मे कडे ?, हंता कडे, जाव सव्वेणं सव्वे कडे ४ । एवं जाव वेमाणियाणं दंडओ भाणियव्यो। वृ. 'जीवाण'मित्यादिव्यक्तं, नवरंजीवानांसम्बन्धियत् 'कंखामोहणिज्जेत्तिमोहयतीति मोहनीयं कर्म तच्च चारित्रमोहनीयमपि भवतीति विशिष्यते-काङ्क्षा-अन्यान्यदर्शनग्रहः, उपलक्षणत्वाच्चास्यशङ्कादिपरिग्रहः, ततः काङ्क्षया मोहनीयंकायमोहनीयं, मिथ्यात्वमोहनीयमित्यर्थः, 'कडे'त्ति कृतं क्रियानिष्पाद्यमितिप्रश्नः, उत्तरंतु 'हंता कडे'त्ति अकृतस्य कर्मत्वानुपपत्तेः । इह च वस्तुनः करणेचतुर्भङ्गीदृष्टा, यथा देशेन हस्तादिना वस्तुनो देशस्याच्छदनं करोति अथवा हस्तादिदेशेनैव समस्तस्य वस्तुनः २ अथवा सर्वात्मना वस्तुदेशस्य ३ अथवा सर्वात्मना सर्वस्य वस्तुनः ४ इत्येतां कासामोहनीयकरणं प्रति प्रश्नयन्नाह-'से'त्ति तस्य कर्मणः भदन्त! 'किम्' इति प्रश्ने 'देशेन' जीवस्यांशेन 'देशः' कासामोहनीयस्य कर्मणोऽशः कृतः ? इत्येको भङ्गः १, अथ 'देशेन' जीवांशेनैव सर्वं काझामोहनीयं कृतम् ? इति द्वितीयः २ उत 'सर्वेण' सर्वात्मना देशः काङ्क्षामोहनीयस्य कृतः? इति तृतीयः३ उताहो! 'सर्वेण सर्वात्मना सर्वं कृतम् इति चतुर्थः ४। अत्रोत्तरं-'सव्वेणंसव्वेकडे'त्तिजीवास्वाभाव्यात्सर्वस्वप्रदेशावगाढतदेकसमयबन्धनीयकर्मपुद्गलबन्धने सर्वजीवप्रदेशानांव्यापारइत्यतउच्यते-सर्वात्मना सर्वं तदेककालकरणीयं काङ्क्षामोहनीयं कर्म 'कृतं कर्मतया बद्धम्, अत एव च भङ्गत्रयप्रतिषेध इति, अत एवोक्तम् “एगपएसोगाढं सव्वपएसेहिं कम्मुणो जोग्गं । बंधइजहुत्तहेउं"ति, ‘एगपएसोगाढं'ति जीवापेक्षया कर्मद्रव्यापेक्षया च ये एके प्रदेशास्तेष्ववगाढं, सर्वजीवप्रदेशव्यापारत्वाच तदेकसमयबन्धनार्ह सर्वमिति गम्यम् अथवा सर्व यत्किञ्चित् काङक्षामोहनीयं तत्सर्वात्मना कृतं न देशेनेति । जीवानामिति सामान्योक्तौ विशेषो नावगम्यत इति विशेषावगमाय नारकादिदण्डकेन प्रश्नयन्नाह-'नेरइयाण'मित्यादि भावितार्थमेव । क्रियानिष्पाद्यं कर्मोक्तं, तक्रिया च त्रिकालविषयाऽतस्यां दर्शयन्नाह मू. (३५)जीवाणं भंते! कंखामोहणिज्जं कम्मंकरिंसु?, हंता करिसुतिंभंते! किं देसेणं देसं करिसु?, एएणं अभिलावेणं दंडओ भाणियव्यो जाव वेमाणियाणं, एवं करेंति एत्थवि दंडओ जाव वेमाणियाणं, एवं करेस्संति, एत्थवि दंडओ जाव वेमाणियाणं। एवंचिए चिणिंसुचिणंतिचिणिस्संति, उवचिए उवचिणिंसु उवचिणंति उवचिणिस्संति, उदीरेंसु उदीरेंति उदीरिस्संति, वेदिसु वेदंति वेदिस्संति, निजरेंसुनिजरेंति निजरिस्संति, गाहा! For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy