________________
भगवतीअङ्गसूत्रं १/-/२/३२
बकुशत्वमात्रकारिणी न तु मूलगुणविराधनेति, सौधर्मोत्पादश्च विशिष्टतरसंयमविराधनायां स्यात्, यदि पुनर्विराधनमात्रमपि सौधर्मोत्पत्तिकारकं स्यात्तदा बकुशादीनामुत्तरगुणादिप्रतिसेवावतां कथमव्युतादिषूत्पत्ति स्यात् ?, कथञ्चिद्विराधकत्वात्तेषामिति ।
‘असन्नीणं जहन्नेणं भवणवासीसु उक्कोसेणं वाणमंतरेसु 'त्ति इह यद्यपि 'चमरबलिं सारमहिय 'मित्यादिवचनादसुरादयो महर्द्धिकाः 'पलिओवममुक्कसं वंतरियाणं ति इति वचनाच्च व्यन्तरा अल्पर्द्धिकास्तथाऽप्यत एव वचनादवसीयते - सन्ति व्यन्तरेभ्यः सकाशादल्पर्द्धयो भवनपतयः केचनेति ।
५८
असञ्ज्ञी देवेषूत्पद्यत इत्युक्तं स चायुषा इति तदायुर्निरूपयन्नाह
मू. (३३) कतिविहे णं भंते! असन्नियाउए पन्नत्ते ?, गोयमा ! चउब्विहे असन्निआउए पन्नत्ते, तंजहा-नेरइयअसन्निआउए तिरिक्ख० मणुस्स० देव० । असन्नी णं भंते! जीवे किं नेरइयाउयं पकरेइ तिरि० मणु० देवाउयं पकरेइ ?, हंता गोयमा ! नेरइयाउयंपि पकरेइ तिरि० मणु० देवाउयंपि पकरेइ, नेरइयाउयं पकरेमाणे जहन्त्रेणं दसवाससहस्साइं उक्कोसेणं पलिओवमस्स असंखेज्जइभागं पकरेति तिरिक्खजोणायउयं पकरेमाणे जहन्त्रेणं अंतोमुहुत्तं उक्कोसेणं पलि ओवमस्स असंखेज्जइभागं पकरेइ, मणुस्साउएवि एवं चेव, देवाउयं जहा नेरइया ।
एयस्स णं भंते! नेरइयअसन्नि आउयस्स तियि० मणु० देवअसन्नि आउयस्स कयरे कयरे जावविसेसाहिए वा?, गोयमा ! सव्वत्थोवे देव असन्निआउए, मणुस्स० असंखेज्जगुणे, तिरिय० असंखेज्जगुणे, नेरइए० असंखेज्जगुणे । सेवं भंते! सेवं भंते ! त्ति ।
वृ. 'कवि ण 'मित्यादि व्यक्तं, नवरम् 'असन्निआउ 'त्ति असञ्ज्ञी सन् यत्परभवयोग्यमायुर्बन्धाति तदसञ्ज्ञीयायुः, नेरइय असन्नि आउए 'त्ति नैरयिकप्रायोग्यमसञ्ज्ञीयायुनैरयिकासञ्ज्ञीयायुः, एवमन्यान्यपि ।
एतच्चासंज्ञ्यायुः संबन्धमात्रेणापि भवति यथा भिक्षोः पात्रम्, अतस्तत्कृतत्वलक्षणसंबन्धविशेषनिरूपणायाह- 'असन्नी' - त्यादि व्यक्तं, नवरं 'पकरएइ' त्ति बन्धाति 'दसवाससहस्साइं 'ति रत्नप्रभाप्रथमप्रतरमाश्रित्य 'उक्कोसेणं पलिओवमस्स असंखिज्जइभागं 'ति रत्नप्रभाचतुर्थप्रतरे मध्यमस्थितिकं नारकमाश्रित्येति, कथम् ?, यतः प्रथमप्रस्तटे दश वर्षाणां सहस्राणि जघन्या स्थितिरुत्कृष्टा नवति सहस्राणि द्वितीये तु दश लक्षाणि जघन्या इतरा तु नवतिर्लक्षाणि, एषैव तृतीये जघन्या इतरा तु पूर्वकोटी, एषैव चतुर्थे जघन्या इतरा तु सागरोपमस्य दशभागः एवं चात्र पल्योपमासवेयभागो मध्यमा स्थितिर्भवति, तिर्यक्सूत्रे यदुक्तं 'पलिओवमस्स असंखेज्जइभागं' ति तन्मिथुनकतिरश्चोऽधिकृत्येति । 'मणुस्साउए वि एवं चेव' त्ति जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतः पल्योपमासङ्घयेयभाग इत्यर्थः तत्र चासङ्केययभागो मिथुनकनरानाश्रित्य ।
'देवा जहा नेरइया' त्ति, देवा इति सञ्ज्ञिविषयं देवायुरुपचारात्तथा वाच्यं 'जहा नेरइय'त्ति यथाऽसञ्ज्ञिविषयं नारकायुः, तच्च प्रतीतमेव, नवरं भवनपतिव्यन्तरानाश्रित्य तदवसेयमिति 'एयरसणं भंते!' इत्यादिना यदसञ्ज्ञायुषोऽल्पबहुत्वमुक्तं तदस्य ह्रस्वदीर्घत्वमाश्रित्येति शतकं -9 उद्देशकः-२ समाप्तः
For Private & Personal Use Only
Jain Education International
·
www.jainelibrary.org