________________
शतकं-१, वर्गः-, उद्देशकः-२ कालोऽशून्यकालापेक्षयाऽनन्तगुणो भवति, यतोऽसौ नारकेतरेष्वागमनगमनकालः, स च त्रसवनस्पत्यादिस्थितिकालमिश्रितः सन्नन्तगुणो भवति, त्रसवनस्पत्यादिगमनागमनानामनन्तत्वात्, सच नारकनिर्लेपनाकालो वनस्पतिकायस्थितेरनन्तभागे वर्तत इति, उक्तंच॥१॥ “थोवो असुन्नकालो सो उक्कोसेण बारसमुहुत्तो।
तत्तो य अनंतगुणो मीसो निल्लेवणाकालो ।। ॥२॥ आगमणगमणकालो तसाइतरुमीसिओ अनंतगुणो।
___ अह निल्लेवणकालो अनंतभागे वणद्धाए। 'सुन्नकाले अनंतगुणेत्ति सर्वेषां विवक्षितनारकजीवानां प्रायो वनस्पतिष्वनन्तानन्तकालमवस्थानात्, एतदेव वनस्पतिष्वनन्तानन्तकालावस्थानंजीवानांनारकभवान्तरकाल उत्कृष्टो देशितः समय इति, उक्तंच॥१॥ “सुनो य अनंतगुणो सो पुण पायं वणस्सइगयाणं ।
एवं चेव य नारयभवंतरं देसियंजेठें। "तिरिक्खजोणियाणं सव्वत्थोवे असुन्नकाले'त्ति, स चान्तर्मुहूर्तमात्रः, अयं च यद्यपि सामान्येन तिरश्चामुक्तस्तथाऽपि विकलेन्द्रियसंमूर्छिमानामेवावसेयः, तेषामेवान्तमर्मुहूर्तमानस्य विरहकालस्योक्तत्वात्, यदाह-"भिन्नमुहुत्तोविगलिदिएसु सम्मुच्छिमेसुविस एव" एकेन्द्रियाणां तूद्वर्त्तनोपपातविरहाभावेनाशून्यकालाभाव एव, आह च॥१॥ “एगो असंखभागो वट्टइ उव्वट्टणोववायंमि।
__एगनिगोए निच्चं एवं सेसेसुवि स एव ॥ . पृथिव्यादिषुपुनः ‘अनुसमयमसंखेज्जत्तिवचनाद्विरहाभावइति, मिस्सकाले अनंतगुणे'त्ति नारकवत् शून्यकालस्तु तिरश्चां नास्त्येव, यतो वार्त्तमानिकसाधारणवनस्पतीनांतत उद्धृत्तानां स्थानमन्यन्नास्ति, ‘मणुस्सदेवाणंजहा नेरइयाणं'ति, अशून्यकालस्यापिद्वादशमुहूर्तप्रमाणत्वात्, अत्र गाथा॥१॥ “एवं नरामराणवि तिरियाणं नवरि नत्थि सुन्नद्धा।
जं निग्गयाण तेसिं भायणमन्नं तओ नत्थि ॥ इति
___ 'एयस्से'त्यादि व्यक्तम्। किं संसार एवावस्थानं जीवस्य स्यादुत मोक्षेऽपि? इति शङ्कायां पृच्छमाह
मू. (३१) जीवेणंभंते! अंतकिरियंकरेजा?, गोयमा! अत्थेगतिया करेजा अत्थेगतिया नो करेजा, अंतकिरियापयं नेयव्वं ।
वृ. 'जीवेण मित्यादि व्यक्तं, नवरम् 'अंतकिरियं'ति अन्त्या च सा परर्यन्तवर्तिनी क्रिया चान्त्यक्रिया, अन्तस्य वाकर्मान्तस्य क्रिया अन्तक्रिया, कृत्स्नकर्मक्षयलक्षणां मोक्षप्राप्तिमित्यर्थः 'अंतकिरियापयं नेयव्वं ति, तच्च प्रज्ञापनायां विंशतितमं, तच्चैवम् ।
'जीवेणं भंते! अंतकिरियं करेज्जा?, गोयमा! अत्थेगइए करेजा अत्थेगइएनो करेजा, एवं नेरइए जाव वेमाणिए' भव्यः कुर्यान्नेतर इत्यर्थः ।
'नेरइया णं भंते ! नेरइएसु वट्टमाणे अंतं करेज्जा ?, गोयमा ! नो इणढे समढे'इत्यादि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org