SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ ५४ भगवतीअङ्गसूत्रं १/-/२/३० साहिए वा ?, गोयमा ! सव्वत्थोवे मणुस्ससंसारसंचिट्ठणकाले, नेरइयसंसारसंचिट्ठणकाले असंखेजगुणे, देवसंसारसंचिट्ठणकाले असंखेज्जगुणे, तिरिक्खजोए अनंतगुणे । वृ. 'जीवस्सण'मित्यादि व्यक्तं, नवरं किंविधस्य जीवस्य? इत्याह-'आदिष्टस्य' अमुष्य नारकादेरित्येवं विशेषितस्य 'तीतद्धाए'त्तिअनादावतीतेकाले 'कतिविधः' उपाधिभेदात्कतिभेदः संसारस्य-भवाद्भवान्तरे संचरणलक्षणस्य संस्थानम्-अवस्थितिक्रिया तस्य कालः-अवसरः संसारसंस्थानकालः, अमुष्य जीवस्यातीतकाले कस्यां कस्यां गताववस्थानमासीत् ? इत्यर्थः, अत्रोत्तरं-चतुर्विध उपाधिभेदादिति भावः, तत्र नारकभवानुगतसंसारास्थानकालस्त्रिधाः-शून्यकालोऽशून्यकालो मिश्रकालश्चेति, तिरश्चां शून्यकालो नास्तीति तेषां द्विविधः, मनुष्यदेवानां त्रिविधोऽप्यस्ति, आह च॥१॥ “सुन्नासुन्नो मीसो तिविहो संसारचिट्ठणाकालो। तिरियाण सुन्नवज्जो सेसाणं होइ तिविहोवि ॥ तत्राशून्यकालस्तावदुच्यते, अशून्यकालस्वरूपपरिज्ञाने हि सतीतरौ सुज्ञानौ भविष्यत इति, तत्र वर्तमानकाले सप्तसु पृथिवीषु ये नारका वर्तन्ते तेषां मध्याद्यावन्न कश्चिदुद्वर्त्तते न चान्य उत्पद्यते तावन्मात्रा एव ते आसते स कालस्तान्नारकानङ्गीकृत्याशून्य इति भण्यते, आह च॥१॥ “आइट्ठसमइयाणं नेरइयाणं नजाव एक्कोवि। उव्वट्टइ अन्नो वा उववज्जइ सो असुन्नो उ॥ मिश्रकालस्तुतेषामेवनारकाणांमध्यादेकादय उद्धृताःयावदेकोऽपिशेषस्तावन्मिश्रकालः, शून्यकालस्तुयदात एवादिष्टसामयिका नारकाः सामस्त्येनोद्वृत्ता भवन्तिनैकोऽपितेषांशेषोऽस्ति स शून्यकाल इति, आह च॥१॥ "उव्वट्टेएकंमिवि वा मीसो धरइ जाव एक्कोवि। निल्लेविएहिं सव्वेहि वट्टमाणेहिं सुन्नो उ॥ इदंच मिश्रनारकसंसारावस्थानकालचिन्तासूत्रंन तमेव वार्त्तमानिकनारकभवमङ्गीकृत्य प्रवृत्तम्, अपितु वार्त्तमानिकनारकजीवानां गत्यन्तरगमने तत्रैवोत्पत्तिमाश्रित्य, यदि पुनस्तमेव नारकभवमङ्गीकृत्येदं सूत्रं स्यात्तदाऽशून्यकालापेक्षया मिश्रकालस्यानन्तगुणता सूत्रोक्तानस्यात्, आह च ॥१॥ “एयं पुण ते जीवे पडुच्च सुत्तं न तब्मवंचेय। जइ होज्ज तब्भवं तो अनन्तकालो नं संभवइ । कस्मात् ? इति चेद् उच्यते, ये वार्त्तमानिका नारकास्ते स्वायुष्ककालस्यान्ते उद्वर्तन्ते असङ्ख्यातमेव चतदायुः, अत उत्कर्षतोद्वादशमौहूर्तिकाशून्यकालापेक्षया मिश्रकालस्यानन्तगुणत्वाभावप्रसङ्गादिति, आह च॥१॥ "किं कारणमाइट्ठा नेरइया जे इमम्मि समयम्मि। ते ठिइकालस्संते जम्हा सव्वे खविजंति ॥" इति ‘सव्वत्थोवेअसुन्नकाले'त्ति नारकाणामुत्पादोद्वर्तनाविरहकालस्योत्कर्षतोऽपि द्वादशमुहूर्तप्रमाणत्वात्, 'मीसकाले अनंतगुणे'त्ति मिश्राख्यो विवक्षितनारकजीवनिर्लेपना Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy