SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ भगवतीअङ्गसूत्रं १/-/२/३१ नवरं ‘मणुस्सेसु अंतं करेजा' मनुष्येषु वर्तमानो नारको मनुष्यीभूत इत्यर्थ । कर्मलेशादन्तक्रियाया अभावे केचिज्जीवा देवेषूत्पद्यन्तेऽतस्तद्विशेषाभिधानायाह मू. (३२) अह भंते ! असंजयभवियदव्वदेवाणं १ अविराहियसंजमाणं २ विराहियसं० ३ अविराहियसंजमासंज०४ विराहियसंजमासं०५ असन्नीणं ६ तावसाणं ७ कंदप्पियाणं ८ चरगपरिव्वायगाणं ९ किब्विसियाणं १० तेरिच्छियाणं ११ आजीवियाणं १२ आभिओगियाणं १३ सलिंगीणं दसणवावन्नगाणं १४ एएसिणं देवलोगेसु उववज्जमाणाणं कस्स कहिं उववाए पन्नत्ते? ___ गो ०! अस्संजयभवियदव्वदेवाणं जहन्नेणं भवणवासीसु उक्कोसेणं उवरिमगेविजएसु?, अविराहियसंजमाणं जहन्नेणं सोहम्मे कप्पे उक्कोसेणं सव्वट्ठसिद्धे विमाणे २, विराहियसंजमाणं जहन्नेणं भवणवासीसु उक्कोसणं सोहम्मे कप्पे ३, अविराहियसंजमा०२ णंजह० सोहम्मे कप्पे उक्कोसेणं अच्चुए कप्पे ४, विराहियसंजमासं० जहन्नेणं भवणवासीसु उक्कोसेणं जोतिसिएसु ५, असत्रीणं जहन्नेणं भवणावासीसु उक्कोसेणं वाणमंतरेसु ६, अवसेसा सव्वे जह० भवणवा० उक्कोसगंवोच्छमि-तावसाणंजोतिसिएसु, कंदप्पियाणं सोहम्मे, चरगपरिव्वायगाणंबंभलोएकप्पे, किब्विसियाणंलंतगेकप्पे, तेरिच्छियाणंसहस्सारे कप्पे, आजीवियाणंअचुएकप्पे, आभिओगियाणं अचुए कप्पे, सलिंगीणं दंसणवावन्नगाणं उवरिमगेवेज्जएसु १४।। - वृ. 'अहभंते' इत्यादिव्यक्तं, नवरम् अथेतिपरिप्रश्नार्थः 'असंजयभवियदव्वदेवाणं'ति इह प्रज्ञापनाटीका लिख्यते-असंयताः-चरणपरिणामशून्याः भव्याः-देवत्वयोग्याअतएव द्रव्यदेवाः, समासश्चैवं-असंयताश्चते भव्यद्रव्यदेवाश्चेति असंयतभव्यद्रव्यदेवाः, तत्रैतेऽसंयतसम्यग्दृष्टयः किलेत्येके, यतः किलोक्तम्॥१॥ “अणुव्वयमहव्वएहि य बालतवोऽकामनिज्जराए य। देवाउयं निबंधइ सम्मद्दिट्टी य जो जीवो।। एतच्चायुक्तं, यतोऽमीषामुत्कृष्टत उपरिमग्रैवेयकेषूपपात् उक्तः,सम्यग्दृष्टीनांतुदेशविरतानामपिनतत्रासौ विद्यते, देशविरतश्रावकाणामच्युतादूर्ध्वमगमनात्, नाप्येतेनिह्नवाः, तेषामिहैव भेदेनाभिधानात्, तस्मान्मिथ्यादृष्टय एवाभव्या भव्यावाअसंयतभव्यद्रव्यदेवाः श्रमणगुणधारिणो निखिलसामाचार्यनुष्ठानयुक्ता द्रव्यलिङ्गधारिणो गृह्यन्ते, ते ह्यखिलकेवलक्रियाप्रभावत् एवोपरिमौवेयकेषूत्पद्यन्तइति,असंयताश्च ते सत्यप्यनुष्ठानेचारित्रपरिणामशून्यत्वात्, ननु कथं तेऽभव्या भव्या वा श्रमणगुणधारिणो भवन्ति? इति, अत्रोच्यते, तेषां हि महामिथ्यादर्शनमोहप्रादुर्भावे सत्यपि चक्रवर्त्तिप्रभृत्यनेकभूपतिप्रवरपूजासत्कारसन्मानदानानसाधून्समवलोक्यतदर्थंप्रव्रज्याक्रियाकलापानुष्ठानं प्रति श्रद्धा जायते, ततश्च ते यथोक्तक्रियाकारिण इति । तथा 'अविराहियसंजमाणं'ति प्रव्रज्याकालादारभ्याभग्नचारित्रपरिणामानां संज्वलनकषायसामर्थ्यात् प्रमत्तगुणस्थानकसामर्थ्याद्वा स्वल्पमायादिदोषसम्भवेऽप्यनाचरितचरणोपघातानामित्यर्थः, तथा विराहियसंजमाणं'ति उक्तविपरीतानाम्, 'अविरा-हियसंजमासंजमाणं'ति प्रतिपत्तिकालादारभ्याखण्डितदेशविरतिपरिणामानांश्रावकाणां, 'विराहियसंजमा संजमाणं'ति उक्तव्यतिरेकिणाम् ‘असन्नीणं'ति मनोलब्धिरहितानामकामनिर्जरावतां, तथा ‘तावसाणं'ति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy