________________
भगवती अङ्गसूत्रं १/-/२/२७
तदेवमेतेषां सप्तानां दण्डकानां सूत्रसङ्क्षेपार्थं यो यथाऽध्येतव्यस्तं तथा दर्शयन्नाह‘ओहियाण’मित्यादि, तत्रौघिकानां पूर्वोक्तानां निर्विशेषणानां नारकादीनां तथा सलेश्यानामधिकृतानामेव शुक्ललेश्यानां तु सप्तमदण्डकवाच्यानामेषां त्रयाणामेको गमः- सध्शः पाठः, सलेश्यः शुक्लेश्यश्चेत्येवंविधविशेषणकृत एव तत्र भेदः, औधिकदण्डकसूत्रवदनयोः सूत्रमिति हृदयं, तथा ‘जस्सत्थि' इत्येतस्य वक्ष्यमाणपदस्येह सम्बन्धाद्यस्य शुक्ललेश्याऽस्ति स एव तद्दण्डकेऽध्येतव्यः, तेनेह पञ्चेन्द्रियतिर्यञ्चो मनुष्या वैमानिकाश्च वाच्याः, नारकादीनां शुक्ललेश्याया अभा- वादिति, 'किण्हलेसनीललेसाणंपि एगो गमो' औधिक एवेत्यर्थः ।
विशेषमाह-‘नवरमं वेयणा' इत्यादि, कृष्णलेश्यादण्डके नीललेश्यादण्डके च वेदनासूत्रे "दुविहा नेरइया पन्नत्ता - सन्निभूया य असन्निभूया य'त्ति औधिकदण्डकाधीतं नाध्येतव्यम्, असञ्ज्ञिनां प्रथमपृथिव्यामेवोत्पाद्, 'असन्नी खलु पढम' मिति वचनात्, प्रथमायां च कृष्णनीललेश्ययोरभावात् तर्हि किमध्येतव्यमित्याह- 'मायिमिच्छदिट्ठिउववन्नगा ये' त्यादि, तत्र मायिनो मिथ्याध्ष्टयश्च महावेदना भवन्ति, यतः प्रकर्षपर्यन्तवर्त्तिनीं स्थिमशुभां ते निर्वर्त्तयन्ति, प्रकृष्ठायां चतस्यां महती वेदना संभवति, इतरेषां तु विपरीतेति ।
तथा मनुष्यपदे क्रियासूत्रे यद्यप्यधिकदण्डके 'तिविहा मणुस्सा पन्नत्ता, तंजहा- संजया ३, तत्थ णं जे ते संजया ते दुविहा पन्नत्ता, तंजहा सरागसंजया य वीयरागसंजया य, तत्थ णं जे ते सरागसंजया ते दुविहा पत्रत्ता, तंजहा - पमत्तसंजया य अप्पमत्तसंजया य'त्ति पठितं, तथाऽपि कृष्णनीललेश्यादण्डकयोर्नाध्येतव्यं, कृष्णनीललेश्योदये संयमस्य निषिद्धत्वात् यच्चोच्यते 'पुव्वपडिवन्नओ पुण अन्नयरीए उ लेस्साए 'त्ति तत्कृष्णादिद्रव्यरूपां द्रव्यलेश्यामङ्गीकृत्य न तु कृष्णादिद्रव्यसाचिव्यजनितात्मपरिणामरूपां भावलेश्याम्, एतच्च प्रागुक्तमिति ।
५२
एतदेव दर्शयन्नाह - 'मणुस्से' त्यादि, तथा कापोतलेश्यादण्डकोऽपि नीलादिलेश्यादण्डकवदध्येतव्यो, नवरं नारकपदेवेदनासूत्रे नारका औघिकदण्डकवदेव वाच्याः, ते चैवम् नेरइया दुविहा पन्नत्ता, तंजहा - सन्निभूयाय असन्निभूयाय'त्ति, असञ्ज्ञिनां प्रथमपृथिव्युत्पादेन कापोतलेश्यासम्भवादत आह- 'काउलेस्साणवी 'त्यादि । तथा तेजोलेश्या पद्मलेश्या च यस्य जीवविशेषस्यास्ति चाद्यास्ति एव, भवनपतिपृथिव्याम्बुव-नस्पतिव्यन्तराणामाद्याश्चतस्नः, पञ्चेन्द्रियतिर्यग्मनुष्याणां षड्, ज्योतिषां तेजोलेश्या, वैमानिकानां तिस्रः प्रशस्ता इति, आह च - “किण्हानीलाकाऊतेउलेसा य भवणवंतरिया । जोइससोहम्मीसाण तेउलेसा मुणेयव्वा ॥ कप्पे सणकुमारे माहिंदे चेव बंभलोगे य । एएसु पम्हलेसा तेण परं सुक्कलेस्सा उ ॥ "पुढवी आउवणस्सइबायरपत्तेय लेस चत्तारि गब्भयतिरियनरेसु छल्लेसा तिन्नि सेसाणं ॥
॥१॥
केवलमौधिकदण्डके क्रियासूत्रे मनुष्याः सरागवीतरागविशेषणा अधीताः इह तु तथान वाच्याः, तेजःपद्मलेश्ययोर्वीतरागत्वासम्भवात् शुक्ललेश्यायामेव तत्सम्भवात्, प्रमत्ताप्रमत्तास्तूच्यन्त इति, एतदेव दर्शयन्नाह - 'तेउलेसा पम्हलेसे' त्यादि ।
Jain Education International
For Private & Personal Use Only
॥२॥
॥३॥
www.jainelibrary.org